Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.57

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.57.1

ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः।
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना ॥ १.५७.१ ॥

于是,他心中煎熬,念及自己的失败,一次又一次地叹息,便与那位大德之人结下了仇怨。

1.57.2

स दक्षिणां दिशं गत्वा महिष्या सह राघव।
तताप परमं घोरं विश्वामित्रो महातपाः ॥ १.५७.२ ॥

罗怙之子啊,他与王后一同前往南方,大苦行者毗奢蜜多罗便修行了至高而可怖的苦行。

1.57.3

फलमूलाशनो दान्तश्चचार परमं तपः।
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः ॥ १.५७.३ ॥

他以果实和根茎为食,克制自身,修行至高苦行;此后,他生下了奉行真理与法的儿子们。

1.57.4

हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः।
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः ॥ १.५७.४ ॥

哈维斯潘达、摩度斯潘达与坚目三位大车战士出生;满一千年之时,世界之祖梵天前来。

1.57.5

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज ॥ १.५७.५ ॥

他对以苦行为财富的毗奢蜜多罗说了温和的话:“拘尸迦之子啊,你以苦行已经赢得了王仙的世界。”

1.57.6

अनेन तपसा त्वां हि राजर्षिरिति विद्महे।
एवमुक्त्वा महातेजा जगाम सह दैवतैः ॥ १.५७.६ ॥

“凭借这份苦行,我们确认你是王仙。”说完这话,那位大光明者便与诸神一同离去了。

1.57.7

त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः।
विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः ॥ १.५७.७ ॥

世界至尊之主提到天界与梵界时,毗首弥多罗闻之,因羞愧而微微低下了头。

1.57.8

दुःखेन महताविष्टः समन्युरिदमब्रवीत्।
तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः ॥ १.५७.८ ॥

毗首弥多罗被巨大的悲痛与愤怒所笼罩,说道:"我已修行了极大的苦行,可人们仍只称我为王仙。"

1.57.9

देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्।
एवं निश्चित्य मनसा भूय एव महातपाः ॥ १.५७.९ ॥

“我认为诸天神与所有仙人群都不是苦行的果报。”心中如此决定后,这位大苦行者又……

1.57.10

तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्।
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः ॥ १.५७.१० ॥

啊,甘古提之后(罗摩),那位正法之心、自制的人修行苦行。与此同时,一位诚实、克制诸根的国王……

1.57.11

त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः।
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव ॥ १.५७.११ ॥

一位名为特利商库、光大甘蔗王族的国王——啊,罗怙之后——心中生起一念:“我应当举行祭祀。”

1.57.12

गच्छेयं स्वशरीरेण देवतानां परां गतिम्।
वसिष्ठं स समाहूय कथयामास चिन्तितम् ॥ १.५७.१२ ॥

“愿我以自己的身体到达诸天神的至高之境。”他召来婆悉吒,把心中所想告诉了他。

1.57.13

अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना।
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम् ॥ १.५७.१३ ॥

虽然大心的瓦西什塔说:“这不可能”,并且被瓦西什塔拒绝,他仍向南方走去。

1.57.14

ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः।
वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे ॥ १.५७.१४ ॥

于是,为了完成那件仪式,国王前往瓦西什塔的诸子那里,那里的长期苦修者正在修行。

1.57.15

त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्।
वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः ॥ १.५७.१५ ॥

然而,具有大光辉的特利商古看见了瓦西什塔的一百个儿子,他们极其光明、心志高远,正在苦修。

1.57.16

सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्।
अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः ॥ १.५७.१६ ॥

他走近导师瓦西什塔所有的大心儿子,依次恭敬地行礼,因羞愧而微微低着脸站立。

1.57.17

अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः।
शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः ॥ १.५७.१७ ॥

他合掌对所有这些大心者说:“诸位大心者啊,我已归依于你们;诸位值得庇护的人啊,我前来寻求庇护。”

1.57.18

प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना।
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ ॥ १.५७.१८ ॥

大心的瓦西什塔已经拒绝了我;愿你们安好。我想举行一场大祭祀,你们足以允许我这样做。

1.57.19

गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये।
शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् ॥ १.५७.१९ ॥

我向导师的所有儿子行礼,以求得他们的恩惠。我低头向那些安住于苦行中的婆罗门恳求。

1.57.20

ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः।
सशरीरो यथाहं वै देवलोकमवाप्नुयाम् ॥ १.५७.२० ॥

愿你们专心一意,为我举行祭祀以求成就,使我能以此身抵达天界。

1.57.21

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः।
गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन ॥ १.५७.२१ ॥

修苦行的诸位啊,被婆罗仙所拒的我,除了导师的儿子们,看不到别的归宿。

1.57.22

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः।
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम ॥ १.५७.२२ ॥

因为祭司是所有伊克什瓦库人的至高依靠;因此,从今以后,你们都是我的神明。