蚁垤《罗摩衍那》 · 篇 1.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.8.1
तस्य चैवं प्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥ १.८.१ ॥
这位具有如此威力、通晓正法的大德之人,因无子而忧伤,却没有能延续家族血脉的儿子。
1.8.2
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ १.८.२ ॥
当他这样思考时,这位大德之人生起一念:"为了得子,我何不举行马祀大典?"
1.8.3
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ १.८.३ ॥
这位聪慧而正直的国王下定决心举行祭祀,并与所有自制的大臣商议。
1.8.4
ततोऽब्रवीन्महातेजाः सुमन्त्रं मन्त्रिसत्तम ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ १.८.४ ॥
于是这位光辉伟大的国王对最优秀的大臣苏曼特罗说:"快把我所有的导师和祭司都带到这里来。"
1.8.5
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ १.८.५ ॥
于是苏曼特罗迅速前往,将所有精通吠陀的人全部召集而来。
1.8.6
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
पुरोहितं वशिष्ठं च ये चाप्यन्ये द्विजोत्तमाः ॥ १.८.६ ॥
苏耶迦、婆摩提婆、阇跋离、迦叶波、祭司伐悉until,以及其他最优秀的再生者也都来了。
1.8.7
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत् ॥ १.८.७ ॥
达萨罗陀王心怀正法,向众人致敬之后,便说出这番温和而合乎法与利的话语。
1.8.8
मम लालप्यमानस्य सुतार्थं नास्ति वै सुखम् ।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ १.८.८ ॥
我为求子而悲叹,内心毫无喜乐;因此我决意为此举行马祭。
1.8.9
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचिन्त्यताम् ॥ १.८.९ ॥
因此我愿依照经典所载的仪轨行祭;如何才能实现我的心愿,请诸位思量。
1.8.10
ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥ १.८.१० ॥
于是以婆悉吒为首的众婆罗门赞叹国王口中所说的话,说道:“善哉!”
1.8.11
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः ।
सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ १.८.११ ॥
众人大为欢喜,对达萨罗陀说道:“请为你备齐祭祀所需之物,并放出那匹马。”
1.8.12
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ॥ १.८.१२ ॥
请在萨拉尤河北岸筹备祭场;大王,你必定能得到所愿的诸子。
1.8.13
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ।
ततस्तुष्टोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥ १.८.१३ ॥
因为你为求子嗣而生起了这份正法之心,国王听了婆罗门的这番话,心中欢喜。
1.8.14
अमात्यानब्रवीद् राजा हर्षव्याकुललोचनः ।
सम्भाराः सम्भ्रियन्तां मे गुरूणां वचनादिह ॥ १.८.१४ ॥
国王喜极而泪眼迷蒙,对大臣们说:“依照诸位师长之言,请在此为我备齐祭祀所需之物。”
1.8.15
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ।
सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ १.८.१५ ॥
让有能力者守护的马连同师长一起放出;在萨拉尤河北岸,筹备祭场。
1.8.16
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि ।
शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ १.८.१६ ॥
也应依照规则与仪轨举行平息之仪;这场祭祀,即便是所有地上的君王也能够完成。
1.8.17
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ।
च्छिद्रं हि मृगयन्ते स्म विद्वांसो ब्रह्मराक्षसाः ॥ १.८.१७ ॥
愿这场至上的祭祀中不出现严重的过失,因为有学识的梵罗刹总在寻找缺陷。
1.8.18
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ।
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥ १.८.१८ ॥
举行无仪轨之祭祀者,立即毁灭;因此愿我的这场祭祀依照仪轨圆满完成。
1.8.19
तथा विधानं क्रियतां समर्थाः साधनेष्विति ।
तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥ १.८.१९ ॥
“那么就按规定举行祭祀吧,有能力的人去备办所需之物。”受到礼遇的大臣们都说:“就这样办吧。”
1.8.20
पार्थिवेन्द्रस्य तद् वाक्यं यथापूर्वं निशम्य ते ।
तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ॥ १.८.२० ॥
那些通晓法义的婆罗门听了国王之言,与先前一样,同样地回答,并祝福这位最优秀的君王。
1.8.21
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ।
विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ॥ १.८.२१ ॥
众人得到允许后,便从来时的路返回了。国王送走那些婆罗门后,对大臣们说了这番话。
1.8.22
ऋत्विग्भिरुपसंदिष्टो यथावत् क्रतुराप्यताम् ।
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥ १.८.२२ ॥
“请依照祭司的指示,将祭祀如法完成。”说完这话,这位王者中的猛虎便对近旁的大臣们说道。
1.8.23
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ।
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयंगमाः ॥ १.८.२३ ॥
送走大臣后,这位大智之人回到自己的宫殿。随后,这位人主走向他心爱的诸位王后……
1.8.24
उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ।
तासां तेनातिकान्तेन वचनेन सुवर्चसाम् ।
मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ १.८.२४ ॥
他说:“你们进入斋戒吧;为了子嗣,我将举行祭祀。”那些光彩照人的王后听了这温和的话语,她们的莲花般的面容光彩焕发,如同寒季过后的莲花。