Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 2.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.1.1

गच्छता मातुलकुलं भरतेन तदानघः।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ २.१.१ ॥

バラタが母方の叔父の家へ向かう途中、彼は汚れなき、常に敵を打ち倒すシャトルグナを愛情をもって連れて行った。

2.1.2

स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ २.१.२ ॥

そこで彼は兄とともに敬意をもって暮らした。母方の叔父アシュヴァパティは息子への愛情で彼を慈しんだ。

2.1.3

तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ २.१.३ ॥

そこで望み通りの喜びに満たされて暮らしていたが、二人の勇士は老王ダシャラタを思い続けた。

2.1.4

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ २.१.४ ॥

大いなる威光の王もまた、遠くにいる二人の息子バラタとシャトルグナ、インドラとヴァルナに等しい息子たちを思い出した。

2.1.5

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।
स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः ॥ २.१.५ ॥

人の中の傑物であるその四人は皆、彼にとって愛しい存在で、自らの身体から生えた四本の腕のようであった。

2.1.6

तेषामपि महातेजा रामो रतिकरः पितुः।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ २.१.६ ॥

彼らの中でも、大いなる威光のラーマは父の喜びであった。万物の中で自生神ブラフマーが最も徳高いように、ラーマは最も徳に優れた者となった。

2.1.7

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ २.१.७ ॥

傲慢なラーヴァナの殺害を望む神々に懇願され、永遠のヴィシュヌが人間界に生まれた。

2.1.8

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।
यथा वरेण देवानामदितिर्वज्रपाणिना ॥ २.१.८ ॥

カウシャリヤーは無限の輝きを持つその息子によって輝いた。雷霆を執るインドラを授かったアディティが輝いたように。

2.1.9

स हि रूपोपपन्नश्च वीर्यवाननसूयकः।
भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ २.१.९ ॥

彼は美しく、勇ましく、嫉妬のなかった。大地に比類なきその息子は、徳においてダシャラタに等しかった。

2.1.10

स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ २.१.१० ॥

彼は常に心穏やかで、まず優しく語った。たとえ厳しい言葉を投げかけられても、答えることはなかった。

2.1.11

कदाचिदुपकारेण कृतेनैकेन तुष्यति।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥ २.१.११ ॥

時には一つの恩恵だけで喜び、自己を制する心から、百の侮辱さえ覚えてはいない。

2.1.12

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः।
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि ॥ २.१.१२ ॥

品行、知識、年齢に秀でた長老や善き人々と、彼は常に語り合った。武器の修練の合間にも同じであった。

2.1.13

बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥ २.१.१३ ॥

聡明で言葉が優しく、先に語りかけ、人に喜ばれる話し方をした。勇猛でありながら、自らの大いなる力に驕ることはなかった。

2.1.14

न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥ २.१.१४ ॥

偽りを語らず、学識があり、年長者を敬った。民は彼を慕い、彼もまた民を慈しんだ。

2.1.15

सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ २.१.१५ ॥

慈悲深く、怒りに勝ち、バラモンを敬い、弱い者をいたわり、法を知り、常に自制して清らかであった。

2.1.16

कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते।
मन्यते परया प्रीत्या महत् स्वर्गफलं ततः ॥ २.१.१६ ॥

家柄にふさわしい心を持つ彼は、武士の務めを自らの法として大いに重んじ、この上ない愛情をもってそれを天界の大いなる果報をもたらすものと考えた。

2.1.17

नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः।
उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा ॥ २.१.१७ ॥

不善を喜ばず、相反する議論を好まなかった。次々と優れた道理を語る者で、ヴァーチャスパティ(弁舌の主)のようであった。

2.1.18

अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।
लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥ २.१.१८ ॥

病がなく、若く、弁舌に優れ、姿も美しく、場所と時をわきまえていた。世の中で人の本質を知る、ただ一人の善人として特に造られたかのようであった。

2.1.19

स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥ २.१.१९ ॥

その王子は最上の徳を備え、体の外を巡る命の息のように、その徳によって民に愛された。

2.1.20

सर्वविद्याव्रतस्नातो यथावत् साङ्गवेदवित्।
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥ २.१.२० ॥

あらゆる学問の誓いに浸り、補助を含むヴェーダを如法に知り、弓と武器では父にも勝った彼は、バラタの兄となった。

2.1.21

कल्याणाभिजनः साधुरदीनः सत्यवागृजुः।
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥ २.१.२१ ॥

吉祥な家系に生まれ、善良で卑屈さがなく、真実を語り、率直であり、法と利を見る年長者と再生族に十分に教え導かれた。

2.1.22

धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्।
लौकिके समयाचारे कृतकल्पो विशारदः ॥ २.१.२२ ॥

法・愛欲・利の真理を知り、記憶にすぐれ、機知に富み、世間の慣習と時宜にかなった振る舞いに備え、巧みである。

2.1.23

निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्।
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २.१.२३ ॥

自制して威厳ある姿を保ち、秘密の策を守り、味方をもつ。その怒りと喜びは空しくなく、施しと抑制の時を知っている。

2.1.24

दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः।
निस्तन्द्रीरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २.१.२४ ॥

信仰は堅固で智慧は揺るがず、虚偽を取らず、粗い言葉を発せず、怠りなく注意深く、自らの過ちと他人の過ちを知っている。

2.1.25

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः।
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २.१.२५ ॥

聖典に通じ恩を忘れず、人の違いを見分けることに長け、罰と恩寵を正しく用いて賢明であった。

2.1.26

सत्संग्रहानुग्रहणे स्थानविन्निग्रहस्य च।
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥ २.१.२६ ॥

善人を集めて恵むことに長け、罰を用いるべき所を知り、収入の方途を知り、支出の務めをよく理解していた。

2.1.27

श्रैष्ठ्यं चास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च।
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥ २.१.२७ ॥

武器の諸技と混合の技芸において卓越に達し、利と法を共に保ち、快楽に支配されず、怠けることもなかった。

2.1.28

वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्।
आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ २.१.२८ ॥

娯楽の技芸と工芸の区分をよく知り、象と馬に乗ることと馴らすことに長けていた。

2.1.29

धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः।
अभियाता प्रहर्ता च सेनानयविशारदः ॥ २.१.२९ ॥

弓の学に通じた者の中で最も優れ、世に大戦車将として重んじられ、攻撃し打ち倒す者であり、軍の指揮に熟達していた。

2.1.30

अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः।
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ॥ २.१.३० ॥

戦において怒れる神々や阿修羅でさえ打ち負かせず、他人の欠点を探さず、怒りに打ち勝ち、高慢でも嫉妬深くもなかった。

2.1.31

नावज्ञेयश्च भूतानां न च कालवशानुगः।
एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ॥ २.१.३१ ॥

彼は生き物に軽んじられる者ではなく、時の力に従う者でもなかった。このように優れた徳を備えた王子は、民に慕われていた。

2.1.32

सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः।
बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः ॥ २.१.३२ ॥

大地における忍耐の徳によって三界で尊ばれ、知恵においてはブリハスパティに等しく、勇気においてはシャチーの夫(インドラ)に等しかった。

2.1.33

तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः।
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ २.१.३३ ॥

同様に、すべての民に愛され、父に喜びを生じさせる徳によって、ラーマは太陽が光線で輝くように輝いた。

2.1.34

तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्।
लोकनाथोपमं नाथमकामयत मेदिनी ॥ २.१.३४ ॥

大地は、このような振る舞いを備え、打ち破ることのできない武勇をもち、世界の主に等しい彼を主として望んだ。

2.1.35

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्।
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥ २.१.३५ ॥

これら数多くの比類なき徳を備えた息子を見て、敵を焼き尽くす王ダシャラタは思い悩んだ。

2.1.36

अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः।
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ २.१.३६ ॥

そのとき、老齢で長寿の王の心にこの思いが生じた──「私が生きているのに、どうしてラーマが王になれようか」。

2.1.37

एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते।
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ २.१.३७ ॥

彼へのこの至上の愛が私の心の中で巡り続けている――愛する息子が灌頂されるのを、いつ見ることができるだろうか。

2.1.38

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः।
मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ २.१.३८ ॥

民の繁栄を願い、すべての生き物に慈しみを持つ彼は、世の中で私よりもさらに愛される。雨をもたらす雲のように。

2.1.39

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ।
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ २.१.३९ ॥

勇猛さはヤマとインドラに等しく、判断力はブリハスパティに等しく、堅忍さは山に等しい。そして私より徳が高い。

2.1.40

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्।
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ॥ २.१.४० ॥

この大地全体を統治する息子を、この年齢のうちに見て、私は天界を得られるだろう。

2.1.41

इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः।
शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ २.१.४१ ॥

このように、他の王たちには稀な、多様で高貴な、計り知れない、世の常を超えた数々の徳を備えている。

2.1.42

तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः।
निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत ॥ २.१.४२ ॥

彼がそれらの徳を備えているのを見て、王は大臣たちと相談して決め、皇太子の位を授けることを定めた。

2.1.43

दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्।
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ॥ २.१.४३ ॥

天空と大地に、凶兆から生じた恐ろしい不安を、そして自分の身体に老いを、その賢明な王は見て取った。

2.1.44

पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः।
लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः ॥ २.१.४४ ॥

満月のような顔の王は、自分の憂いを払う大徳ラーマが世の中でどれほど愛されているかを知った。

2.1.45

आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च।
प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः ॥ २.१.४५ ॥

自分と臣民の幸福のため、そして愛しいもののために、時が来ると、その法の心の王は信心をもって急いだ。

2.1.46

नानानगरवास्तव्यान् पृथग्जानपदानपि।
समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः ॥ २.१.४६ ॥

大地の主は、多くの都市の住民、それぞれの地方の人々、そして有力者たちを呼び集めた。

2.1.47

तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्।
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ॥ २.१.४७ ॥

住まいと様々な装飾品で相応しく敬われた彼らを、装飾された王は、生主が生き物を見るように見渡した。

2.1.48

न तु केकयराजानं जनकं वा नराधिपः।
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ २.१.४८ ॥

しかし、その人の主はケーカヤ王やジャナカを急いで呼び寄せはしなかった。後に、あの二人はその喜ばしい知らせを聞くことになる。

2.1.49

अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने।
ततः प्रविविशुः शेषा राजानो लोकसम्मताः ॥ २.१.४९ ॥

敵の城を砕くその王が座ると、民に敬われる残りの王たちが入ってきた。

2.1.50

अथ राजवितीर्णेषु विविधेष्वासनेषु च।
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ २.१.५० ॥

そこで王が与えた様々な座席に、自制した王たちは王その人に向かって座った。

2.1.51

स लब्धमानैर्विनयान्वितैर्नृपैः
पुरालयैर्जानपदैश्च मानवैः।
उपोपविष्टैर्नृपतिर्वृतो बभौ
सहस्रचक्षुर्भगवानिवामरैः ॥ २.१.५१ ॥

敬われ謙虚な王たち、都の住民、田舎の人々、そして民に囲まれたその王は、神々に囲まれた千眼の尊きインドラのように輝いた。