ヴァールミーキのラーマーヤナ · サルガ 2.100
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.100.1
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।
ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१ ॥
ラーマは、もつれ髪で樹皮衣をまとい、合掌して地に倒れているバラタを見た。それは劫末の太陽のように直視し難いものであった。
2.100.2
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।
भ्रातरं भरतं रामः परिजग्राह बाहुना ॥ २.१००.२ ॥
ようやく見分けて、顔色の青ざめた痩せ衰えた弟バラタを、ラーマは腕で抱きしめた。
2.100.3
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।
अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३ ॥
ラーガヴァ・ラーマは彼の頭を嗅ぎ、抱きしめ、バラタを膝に乗せ、心静かに尋ねた。
2.100.4
क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागतः ।
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४ ॥
わが子よ、お前の父はどこにいるのか、それなのにお前は森に来たのか。父が生きているのに、お前が森に来るべきではなかった。
2.100.5
चिरस्य बत पश्यामि दूराद्भरतमागतम् ।
दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागतः ॥ २.१००.५ ॥
ああ、長い時を経て遠くからバラタが来るのが見える。この森では見分けにくいほどだ。わが子よ、なぜお前は森に来たのか。
2.100.6
कच्चिद्धारयते तात राजा यत्त्वमिहागतः ।
कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ २.१००.६ ॥
わが子よ、王はご存命なのか、それでお前はここに来たのか。それとも王は悲しみのあまり、突然あの世へ逝かれたのか。
2.100.7
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७ ॥
優しき者よ、少年よ、お前の永続する王国は失われてはいないか。
2.100.8
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८ ॥
親しき者よ、真実の勇武を持つ父上に仕えているか。
2.100.9
कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः ।
राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥ २.१००.९ ॥
誓いを守り、ラージャスーヤとアシュヴァメーダの祭祀を行い、法に堅固な王ダシャラタは息災であるか。
2.100.10
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१० ॥
親しき者よ、あの学識ある婆羅門、法に常に住し、大いに輝き、イクシュヴァーク家の師である人は、正しく敬われているか。
2.100.11
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।
सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११ ॥
親しき者よ、子に恵まれたスミトラーとカウサリヤーは幸せか。高貴な王妃カイケーイーは喜んでいるか。
2.100.12
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ २.१००.१२ ॥
謙虚で良家の出、深く学び、嫉妬なく、教え導き、あなたに敬われる家の司祭は息災か。
2.100.13
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३ ॥
あなたの祭官は聖火に心を尽くし、儀礼に通じ、賢く実直であるか。すでに捧げたものと、これから捧げるべきものを、いつも適切な時に知らせてくれるか。
2.100.14
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।
वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४ ॥
あなたは神々、祖霊、母たち、師、父に等しい人々、長老、医師、そしてバラモンを敬っているか。
2.100.15
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५ ॥
弓術と優れた武器に熟達し、政治学に通じたスダンヴァンを、あなたは師と仰いでいるか、愛しい弟よ。
2.100.16
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।
कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ २.१००.१६ ॥
あなた自身に等しい勇士、学識ある者、感覚を制御した者、良家の出の者、そして表情から意を汲む者を、大臣として任じたか、愛しい弟よ。
2.100.17
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ २.१००.१७ ॥
ラーガヴァよ、謀議こそ王の勝利の根本である。秘密を守り、学問に通じた大臣たちがよくそれを守ってこそ、安全に保たれるのだ。
2.100.18
कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८ ॥
眠りに支配されてはいないか。ふさわしい時に目覚めているか。そして夜の遅い時刻に、統治の巧みさについて思いを巡らせているか。
2.100.19
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९ ॥
一人で謀議するのか、多くの者と共にしないのか。あなたの秘密の謀議が国中に広がっていないか。
2.100.20
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२० ॥
根は小さくとも実りの大きな事を決めたら、速やかに着手し、先延ばしにしないか、ラーガヴァよ。
2.100.21
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥ २.१००.२१ ॥
あなたの善行は、すでになされたものも、これからなすべきものも、人々に知られていないか。王たちよ、なすべき事業が前もって知られてしまうことはないか。
2.100.22
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।
त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२ ॥
愛しい者よ、あなたや大臣たちが協議した、まだ公表していない事柄は、推論や議論によって他人に知られることはないか。
2.100.23
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत् ॥ २.१००.२३ ॥
千人の愚者の代わりに一人の賢者を望むのか。困難な事において賢者こそが最大の善をなすのだから。
2.100.24
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४ ॥
王が千人、あるいは万人の愚者に仕えられても、そこには何の助けもない。
2.100.25
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५ ॥
一人の大臣であっても、賢明で勇敢、有能で洞察力があれば、王や王の役人を大いなる繁栄へと導くことができる。
2.100.26
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।
जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २.१००.२६ ॥
あなたは重要な役職には有力者を、中程度の役職には中程度の者を、下位の役職には下位の使用人を任命しているだろうか。
2.100.27
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।
श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७ ॥
あなたは父祖の代から仕え、試練を経て疑いなく清廉な、優れた大臣だけを優れた任務に任命しているだろうか。
2.100.28
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।
राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ २.१००.२८ ॥
カイケーイーの子よ!厳しい刑罰によって民を大いに怯えさせているあなたの国を、大臣たちは認めているのだろうか、否か。
2.100.29
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २.१००.२९ ॥
祭官たちはあなたを、禁じられた布施を受け取る堕落者や、女に欲情する者のように軽んじてはいないだろうか。
2.100.30
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।
शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३० ॥
策略に長け、家臣を堕落させることに耽り、勇敢で権勢を望む敵を殺さない者は、自らが殺される。
2.100.31
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः ।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ २.१००.३१ ॥
勇敢で、武勇に優れ、賢明で、堅固で、清廉、良家の出で、忠実かつ有能な人を、お前は軍の司令官に任じたか。
2.100.32
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ।
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ २.१००.३२ ॥
お前の主だった勇士たち——力強く、戦いに熟練し、困難で試され、勇猛な者たち——は、お前によって敬われ、尊ばれているか。
2.100.33
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३ ॥
軍の食糧と俸給は、相応に、時期を逃さず与えられているか。お前は遅らせずに与えているか。
2.100.34
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः ।
भर्त्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः ॥ २.१००.३४ ॥
食糧や俸給が遅れると、雇われた兵士は主君に怒りを抱き、堕落する。それは非常に大きな災いであるとされる。
2.100.35
कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ २.१००.३५ ॥
すべての良家の子弟、とりわけ主だった者たちは、お前に忠実か。お前の事のために、心を一つに定めて命を捧げる覚悟はあるか。
2.100.36
कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् ।
यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ २.१००.३६ ॥
バラタよ、お前は国内の学識あり、有能で機知に富み、言われた通りに語る賢者を、使者に任じたか。
2.100.37
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ २.१००.३७ ॥
自国の十八の事項と十五の地について、他者には知られない三人一組の間者によって、お前は把握しているか?
2.100.38
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।
दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८ ॥
敵を滅ぼす者よ!追放された敵対者、帰順した者、そして弱き者を軽んじることなく、お前は常に振る舞っているか?
2.100.39
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।
अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ २.१००.३९ ॥
愛しき者よ、お前は順世派の婆羅門に仕えてはいないだろうな?彼らは無益なことに長け、愚かでありながら自らを学者だと思い込んでいる。
2.100.40
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४० ॥
主要な法典が存在しているのに、これら愚かな者どもは論理学を得て、賢者のように無益なことを語っている。
2.100.41
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।
सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१ ॥
愛しき者よ、この都は昔、我らの英雄の祖先が住んだところで、名に偽りなく、門は堅固、象と馬と戦車に満ちている。
2.100.42
ब्राह्मणैः क्षत्ऺित्रयैर्वैश्यैः स्वकर्मनिरतैः सदा ।
जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ २.१००.४२ ॥
この都は常に、自らの務めに励み、感官を制し、大いなる気概をもつ婆羅門・刹帝利・吠舎ら、幾千もの尊き人々に囲まれている。
2.100.43
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३ ॥
さまざまな形の宮殿に囲まれ、医師や人々で満ち、喜びと繁栄に溢れたアヨーディヤーを、お前はよく守っているか。
2.100.44
कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।
देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ २.१००.४४ ॥
その都は数百の祠を備え、よく落ち着いた人々で満ち、神殿や水場、池によって飾られているか。
2.100.45
प्रहृष्टनरनारीकः समाजोत्सवशोभितः ।
सुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥ २.१००.४५ ॥
その都は男女が喜び、祭りや集会で飾られ、境界がよく耕され、家畜に富み、暴力から離れているか。
2.100.46
अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।
परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ २.१००.४६ ॥
その都は雨だけに頼らず、麗しく、猛獣から離れ、あらゆる恐れがなく、鉱山で飾られているか。
2.100.47
विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः ।
कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ २.१००.४७ ॥
悪しき人々から離れ、我が祖先によってよく守られた国土は、栄えて幸せに暮らしているか、ラグの子孫よ。
2.100.48
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ।
वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८ ॥
お前の愛する人々は皆、農耕と牛の世話で暮らしているか。親愛なる者よ、農業と商業に頼る人々こそ、まことに幸せに栄えるのだ。
2.100.49
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ २.१००.४९ ॥
保護と租税免除によって、彼らを養うことができているか。王は法にしたがって国のすべての民を守るべきである。
2.100.50
कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २.१००.५० ॥
女性たちを慰めているか。彼女たちは十分に守られているか。彼女たちを盲目的に信頼してはいないか。秘密を彼女たちに漏らしてはいないか。
2.100.51
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ।
कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१ ॥
象の森は守られているか。乳を出す牛はいるか。遊女たちの馬や象に満足しすぎてはいないか。
2.100.52
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२ ॥
毎日、身を整えて民に姿を見せているか。王子よ、午前中に何度も起き出して大道に姿を現しているか。
2.100.53
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्ते ऽविशङ्कया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३ ॥
すべての務めを恐れることなく自ら確かめているか。それとも、すべてがおろそかにされているか。ここでは仲介者こそが原因である。
2.100.54
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४ ॥
すべての城塞は財貨、穀物、武器、水、機械、職人、弓の射手によって十分に満たされているか。
2.100.55
आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५ ॥
ラーghava よ、お前の収入は豊かか。支出は少ないか。宝庫が不適格な者へ流れてはいないか。
2.100.56
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ २.१००.५६ ॥
お前の支出は神々と祖霊のため、バラモンと客人のため、戦士と友人の集まりのために使われているか。
2.100.57
कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।
अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ २.१००.५७ ॥
気高く心の清い者が盗みの罪を着せられ、経典に通じた者に問われることなく、貪欲から殺されてはいないか。
2.100.58
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८ ॥
人中の雄よ、捕らえられ、適切な時に問われ、理由をもって明らかになった盗人が、富への貪欲から釈放されてはいないか。
2.100.59
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ २.१००.५९ ॥
ラーghava よ、困窮に陥った富者と貧者の訴訟を、お前の公平で博学な大臣たちは見ているか。
2.100.60
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ २.१००.६० ॥
ラーghava よ、虚偽の告発を受けた者たちが流す涙は、快楽のために統治する王の息子たちと家畜を滅ぼす。
2.100.61
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१ ॥
ラーガヴァよ、お前は老人、子供、そして主だった医師たちを、布施と心と言葉、この三つによって敬っているか?
2.100.62
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।
चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२ ॥
お前は師、老人、苦行者、神々と客人、すべての祠、目的を成就した人々、そしてバラモンを礼拝しているか?
2.100.63
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३ ॥
お前は富のために法を、法によって富を、あるいは快楽への欲や愛欲によって両者を害してはいないか?
2.100.64
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४ ॥
勝者の中の最良の者よ、時を知る者よ、恩恵を与える者よ、お前は富、法、愛欲を時に応じて分け与え、すべての人に仕えているか?
2.100.65
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ।
आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ २.१००.६५ ॥
大いなる賢者よ、一切の聖典の意味に通じたお前のバラモンたちは、町の人々や村の人々とともにお前の幸せを願っているか?
2.100.66
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६ ॥
無信、虚偽、怒り、怠慢、先延ばし、賢者に会わないこと、怠惰——これが五つの行いの過ちである。
2.100.67
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७ ॥
物事を一心に考えないこと、不利益を知らない者と相談すること、決めたことに着手しないこと、謀議を守らないこと。
2.100.68
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः ।
कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८ ॥
吉祥の儀礼を行わないこと、四方から慌てて立ち上がること——君はこれら十四の王の過失を避けているか。
2.100.69
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः ।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९ ॥
十五、四つの群、七つの群、実に八つの群、三つの群、そして三つの学問——ラーガヴァよ。
2.100.70
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।
कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७० ॥
感覚の征服を知り、六つの策略、神なるものと人なるもの、二十の群の任務、そして国の構成要素の輪を。
2.100.71
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।
कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१ ॥
進軍と罰の定め、二つの源、和と戦——大いなる賢者よ、これらを正しく認めるか。
2.100.72
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।
कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥ २.१००.७२ ॥
定められたとおり、大臣たちと——四人か三人、あるいは全員で、または個別に——秘密の謀議をしているか。
2.100.73
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३ ॥
あなたのヴェーダは実を結んでいるか。祭祀の儀礼は実を結んでいるか。あなたの妻たちは実り多いか。あなたの学問は実を結んでいるか。
2.100.74
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।
आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४ ॥
ラーガヴァよ、私が述べたとおりにあなたの思慮はあるか。それは寿命と名声をもたらし、法・欲・利に適うものである。
2.100.75
यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः ।
तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५ ॥
我らの父と先祖たちが行ってきた行いを、あなたは行っているか。それは善き道に通じ、吉祥なるものである。
2.100.76
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।
कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ २.१००.७६ ॥
ラーガヴァよ、美味しい食べ物を一人で食べてはいないか。希望を抱いて待つ友人たちに、それを分けてやっているか。
2.100.77
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् ।
अवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥
法に従って民を守り、大いなる智慧を持ち、罰の杖を執る王は、全大地を正しく得た後、ここを去ると賢者となり天界に至る。