Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.102

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.102.1

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरतेनोक्तां बभूव गतचेतनः ॥ २.१०२.१ ॥

罗怙之子(罗摩)听到婆罗多所说的、关于父亲之死的悲切之言,便失去了知觉。

2.102.2

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।
वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ॥ २.१०२.२ ॥

如同在战场上被檀那伐的仇敌(因陀罗)掷出的雷电,婆罗多说出的那道令人不快的言辞之雷,落在了烧灭敌人者(罗摩)身上。

2.102.3

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः ।
वने परशुना कृत्तस्तथा भुवि पपात ह ॥ २.१०२.३ ॥

罗摩举起双臂,如同森林中被斧头砍倒的、顶端开花的树木,倒在了地上。

2.102.4

तथा निपतितं रामं जगत्यां जगतीपतिम् ।
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ॥ २.१०२.४ ॥

如此,倒在地上的罗摩,大地之主,宛如因冲击河岸而疲惫入睡的大象。

2.102.5

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।
रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ २.१०२.५ ॥

你的兄弟们与毗提诃(悉多)一同哭泣,从四面向那位因悲伤而消瘦的大弓箭手洒水。

2.102.6

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।
उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥ २.१०२.६ ॥

然而他重新恢复了知觉,双眼流着泪,迦古特斯塔(罗摩)开始以哀切的声音说了很多话。

2.102.7

स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ॥ २.१०२.७ ॥

罗摩闻知大地之主父王已升天,这位心怀正法的人便对婆罗多说出了合于正法的话。

2.102.8

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ॥ २.१०२.८ ॥

父王既已走上命定之路,我在阿逾陀还能做什么?失去了最好君王的阿逾陀,今后谁来护持?

2.102.9

किं नु तस्य मया कार्य्यं दुर्जातेन महात्मनः ।
यो मृतो मम शोकेन मया चापि न संस्कृतः ॥ २.१०२.९ ॥

对于那位因我的悲痛而亡、我连丧葬之礼也未曾为他举行的大德之人,我这不幸出生的人还有什么可做的呢?

2.102.10

अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ २.१०२.१० ॥

啊,婆罗多,无罪之人!你的心愿已经达成,因为你与舍睹孙在所有丧葬之仪中都尊敬了父王。

2.102.11

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।
निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ॥ २.१०२.११ ॥

即便结束林中流放而归,我也不愿前往阿逾陀——那座失去君王、没有统领、人心不齐的城市。

2.102.12

समाप्तवनवासं मामयोध्यायां परन्तप ।
को नु शासिष्यति पुनस्ताते लोकान्तरं गते ॥ २.१०२.१२ ॥

啊,灭敌者!待林中流放结束,我在阿逾陀时,父王已往另一世界,还有谁再来统治我呢?

2.102.13

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।
वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ २.१०२.१३ ॥

往昔父王见我品行端正,常以安慰之言相劝,那些悦耳的话语,我今后从何处再听到呢?

2.102.14

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।
उवाच शोकसन्तप्तः पूर्णचन्द्रनिभाननाम् ॥ २.१०२.१४ ॥

罗伽婆对婆罗多说完此话后,因悲伤而痛苦,走近面如满月的妻子,对她说道。

2.102.15

सीते मृतस्ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण ।
भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ २.१०२.१५ ॥

悉多啊,你的公公已经去世;罗什曼那啊,你失去了父亲。婆罗多讲述了那位升天的国王的哀讯。

2.102.16

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ॥ २.१०२.१६ ॥

迦苦特他如此说话时,那些荣耀的王子眼中涌出了大量泪水。

2.102.17

ततस्ते भ्रातरः सर्वे भृशमाश्वास्य राघवम् ।
अब्रुवन् जगतीभर्त्तुः क्रियतामुदकं पितुः ॥ २.१०२.१७ ॥

于是众兄弟极力安慰罗伽婆,说道:“应为世界之主的父王行奉水之礼。”

2.102.18

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।
नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ॥ २.१०२.१८ ॥

悉多听说公公已升往天界,泪水盈满双眼,竟不能看自己的丈夫。

2.102.19

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ २.१०२.१९ ॥

罗摩安慰了哭泣的遮那迦之女后,悲伤地在那里对罗什曼那说了悲痛的话。

2.102.20

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मनः ॥ २.१०२.२० ॥

去拿来因古迪果油饼,也把上衣的树皮衣拿来。我将为伟大的父亲去行水祭。

2.102.21

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २.१०२.२१ ॥

让悉多走在前面,你在她的身边行走。我将走在后面,因为这条路极为艰难。

2.102.22

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।
मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ॥ २.१०२.२२ ॥

于是,他们恒常的随从苏曼特罗,自制而大智,温和、克己、平静,且对罗摩怀有坚定的虔诚……

2.102.23

सुमन्त्रस्तैर्नृपसुतैः सार्द्धमाश्वास्य राघवम् ।
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २.१०२.२३ ॥

苏曼特罗与那些王子一起安慰了罗怙之后,扶着吉祥的曼达吉尼河岸,让他们下车。

2.102.24

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २.१०२.२४ ॥

那些声名显赫的人艰难地来到了美丽的曼达吉尼河,那里渡口良好,森林常年繁花盛开。

2.102.25

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।
सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ॥ २.१०२.२५ ॥

他们到达水流湍急、吉祥而无泥的渡口,为国王洒水,说道:“愿此归于你。”

2.102.26

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ॥ २.१०२.२६ ॥

国王手捧盈满的水,面向南方,哭泣着说出了这些话。

2.102.27

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ॥ २.१०२.२७ ॥

王中之虎啊,这清净不竭的水是给你的。愿我今日所奉献之物,抵达已往生祖界的你。

2.102.28

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघवः ।
पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह ॥ २.१०२.२८ ॥

随后,光彩照人的罗怙之后从曼陀吉尼河岸上来,与兄弟们一同为父亲行了供奉(nivāpa)。

2.102.29

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य रामः सुदुःखार्त्तो रुदन् वचनमब्रवीत् ॥ २.१०२.२९ ॥

罗摩将混有印古提和枣的油饼放在吉祥草的床上,因深深的悲痛而哀伤,哭泣着说出了这些话。

2.102.30

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ २.१०२.३० ॥

大王啊,请享用此物;愿你因我们所食之物而欢喜。人所食用的食物,他的神明也同样食用。

2.102.31

ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ॥ २.१०२.३१ ॥

随后,他沿着同一条路从河岸折返渡过,人中之虎(罗摩)攀上了那座山峰秀丽的高山。

2.102.32

ततः पर्णकुटीद्वारमासाद्य जगतीपतिः ।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ॥ २.१०२.३२ ॥

随后,他来到叶屋门口,大地之主(罗摩)用双臂拥抱了婆罗多和罗什曼那二人。

2.102.33

तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।
भ्रातऽणां सह वैदेह्याः सिंहानामिव नर्दताम् ॥ २.१०२.३३ ॥

从那些哭泣者的声音中,兄弟们连同维代希(悉多),山中升起回响,如同咆哮的雄狮之吼。

2.102.34

महाबलानां रुदतां कुर्वतामुदकं पितुः ।
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः ॥ २.१०२.३४ ॥

婆罗多的士兵听到那些大力者为父亲献水而哭泣的喧嚣之声,都惊恐不已。

2.102.35

अब्रुवंश्चापि रामेण भरतः सङ्गतो ध्रुवम् ।
तेषामेव महाञ्छब्दः शोचतां पितरं मृतम् ॥ २.१०२.३५ ॥

他们还说:“婆罗多必定已与罗摩会合;那巨大的声音正是为死去的父亲悲痛者所发。”

2.102.36

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखाः स्वनम् ।
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः ॥ २.१०२.३६ ॥

于是众人离开帐篷,面朝那声音,同心合意地奔跑,各自回到自己的位置。

2.102.37

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतैः ।
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ २.१०२.३७ ॥

有人骑马,有人乘象,有人坐华丽的车辇,而身体娇弱的人则只能步行前往。

2.102.38

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम् ॥ २.१०२.३८ ॥

众人渴望见到刚刚离去的罗摩,仿佛他已离开很久,于是纷纷急忙前往林中修道处。

2.102.39

भ्रातऽणां त्वरितास्तत्र द्रष्टुकामाः समागमम् ।
ययुर्बहुविधैर्यानैः खुरनेमिस्वनाकुलैः ॥ २.१०२.३९ ॥

亲族们急于想见那里的重逢,纷纷乘坐各式车辆匆匆前往,车中充满了马蹄和车轮的声响。

2.102.40

सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता ।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ॥ २.१०२.४० ॥

大地被众多车辆的马蹄和车轮撞击,发出喧嚣的轰鸣,如同云层相遇时天空雷鸣。

2.102.41

तेन वित्रासिता नागाः करेणुपरिवारिताः ।
आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः ॥ २.१०२.४१ ॥

大象被那喧嚣惊吓,在母象的簇拥下,以气味标记自己的栖所,从那里迁往另一片森林。

2.102.42

वराहवृकसङ्घाश्च महिषाः सर्प्पवानराः ।
व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ २.१०२.४२ ॥

野猪与狼群、水牛、蛇与猴子、老虎、gokarṇa 与 gavaya,连同斑点鹿,全都惊恐不安。

2.102.43

रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः ।
तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः ॥ २.१०२.४३ ॥

拉塔唐伽萨赫瓦鸟、纳提乌诃鸟、天鹅、迦兰达婆鸟和普拉婆鸟,以及雄杜鹃与鹤,惊惶失措,向四方奔逃。

2.102.44

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ॥ २.१०२.४४ ॥

被那喧声惊吓的鸟儿布满了天空,人群布满了大地;那时二者都显得光彩夺目。

2.102.45

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।
आसीनं स्थण्डिले रामं ददर्श सहसा जनः ॥ २.१०२.४५ ॥

那时众人忽然看见罗摩——人中之虎、名声显赫、降伏敌人者——坐在空地上。

2.102.46

विगर्हमाणः कैकेयीं सहितो मन्थरामपि ।
अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ॥ २.१०२.४६ ॥

众人一边责备吉凯伊和曼他罗,一边走近罗摩,脸上满是泪水。

2.102.47

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान् ।
पर्य्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः ॥ २.१०२.४७ ॥

罗摩见那些人泪眼盈盈、极为悲伤,这位通晓正法者便如父亲、母亲一般拥抱他们。

2.102.48

स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।
चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मजः ॥ २.१०२.४८ ॥

王子在那里拥抱了一些人,另一些人则向他行礼;他以适当的礼敬,使所有人连同他们的同伴与亲属都亲近于己。

2.102.49

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वनः ।
गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिमः प्रशुश्रुवे ॥ २.१०२.४९ ॥

那里,这些大德者的哭声回荡于大地与天空,不断在山间洞穴和四方响起,如同鼓声一般。