Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.104

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.104.1

तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१ ॥

罗摩认出这位敬爱长辈的兄弟后,便与兄弟罗什曼那一同开始询问他。

2.104.2

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२ ॥

我想听你刚才所说的话:你身穿树皮衣,头发打结,披着鹿皮来到这片土地。

2.104.3

किं निमित्तमिमं देशं कृष्णाजिनजटाधरः ।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३ ॥

你身披黑羚羊皮、头结长发,为了什么缘故舍弃王国而进入这片土地?你应当把一切都告诉我。

2.104.4

इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४ ॥

伟大的迦古特斯塔(罗摩)如此相问,凯凯伊之子竭力克制自己,合掌再次说出了这些话。

2.104.5

आर्य्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।
गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः ॥ २.१०४.५ ॥

我们高尚的父王离开了我们,做了极为艰难之事,这位大臂者被丧子之痛折磨,已升往天界。

2.104.6

स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप ।
चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६ ॥

啊,灼烧敌人的人!我的母亲凯凯伊受一个女人的指使,犯下了这大罪,毁坏了她自己的声誉。

2.104.7

सा राज्यफलमप्राप्य विधवा शोककर्शिता ।
पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७ ॥

未得王国之果,寡居且为忧愁所困的母亲,将堕入可怕的地狱。

2.104.8

तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।
अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८ ॥

请垂怜于你的仆人我;今日就接受王国,像因陀罗一样受灌顶登基吧。

2.104.9

इमाः प्रकृतयः सर्वा विधवा मातरश्च याः ।
त्वत्सकाशमनुप्राप्ताः प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९ ॥

凡来到你面前的这些臣民和寡居的母亲们,都请施以恩惠。

2.104.10

तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु ॥ २.१०४.१० ॥

赐予荣誉者啊!这依次第是合宜的,也对你合适;请依法得到王国,使朋友们心愿得偿。

2.104.11

भवत्वविधवा भूमिः समग्रा पतिना त्वया ।
शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११ ॥

正如秋夜因明月无瑕而光辉,愿整个大地因你为夫而不成寡居之地。

2.104.12

एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया ।
भ्रातुः शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२ ॥

与这些大臣一同,我低头恳求你:请垂怜于我,你的兄弟、弟子与仆人。

2.104.13

तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३ ॥

人中之虎啊,这一父辈传下的永恒之道,以及所有受人敬重的臣民,你不应当违背。

2.104.14

एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः ।
रामस्य शिरसा पादौ जग्राह विधिवत्पुनः ॥ २.१०४.१४ ॥

说罢,大臂的迦迦耶伊之子含泪,再次依礼以头触碰罗摩的双足。

2.104.15

तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः ।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ २.१०४.१५ ॥

罗摩拥抱弟弟婆罗多,婆罗多如狂象般一再叹息,罗摩便说道。

2.104.16

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः ।
राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ २.१०४.१६ ॥

像你这样出身高贵、具足善性、光辉而持守誓戒的人,怎会为了王位而作恶呢?

2.104.17

न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७ ॥

降敌者啊,我在你身上看不到哪怕一丝过失;也不应因年幼无知而责备你的母亲。

2.104.18

कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८ ॥

大智者啊,无瑕者啊,依从长辈的意愿行事自古便是规定;对于成年的妻子和儿子,也是同样的规定。

2.104.19

वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः ।
भार्य्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९ ॥

正如善人在世间将我们视为他的妻子、儿子和弟子,你也应当允许我们(得到他的许可)。

2.104.20

वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।
राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥ २.१०४.२० ॥

温和的人啊,无论是在森林中身着树皮衣和黑羚羊皮,还是在王国中,伟大的国王都有能力让我留在那里。

2.104.21

यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१ ॥

只要通晓法的父亲受到世人的尊敬,那么,持法者中最优秀的人啊,母亲也同样应受尊敬。

2.104.22

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२ ॥

罗怙婆啊,这两位崇尚法德的父母已对我说:“去森林吧。”我又怎能另作他想呢?

2.104.23

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३ ॥

你应在阿约底亚获得受世人尊敬的王国;而我应身着树皮衣,居住在檀陀迦森林中。

2.104.24

एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।
व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ २.१०४.२४ ॥

如此,伟大而光辉的国王十车王在众人面前完成了分配,发布了命令,然后升往天界。

2.104.25

स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५ ॥

那位行法的君王是你的准则,是世界的导师。你应当享用父亲所给你的那份。

2.104.26

चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः ।
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६ ॥

温和的弟弟,我将在檀特迦林中住满十四年,享受伟大的父亲所给我的那份。

2.104.27

यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥

那位受世人敬重、如同天帝的伟大父亲对我所说的,我认为才是我最高的利益,而非统治一切世界的权位。