蚁垤《罗摩衍那》 · 篇 2.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.11.1
तं मन्मथशरैर्विद्धं कामवेगवशानुगम्।
उवाच पृथिवीपालं कैकेयी दारुणं वचः ॥ २.११.१ ॥
那位被爱神之箭射中、受欲望之潮支配的地上之主,被甘迦伊(Kaikeyī)以严厉的言语相向。
2.11.2
नास्मि विप्रकृता देव केनचिन्नावमानिता।
अभिप्रायस्तु मे कश्चित् तमिच्छामि त्वया कृतम् ॥ २.११.२ ॥
陛下,没有人伤害过我,也没有人侮辱过我。只是我有一个心愿,希望你能为我实现。
2.11.3
प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि।
अथ ते व्याहरिष्यामि यथाभिप्रार्थितं मया ॥ २.११.३ ॥
如果你愿意这样做,就先立下誓言;然后我再把我所期望的告诉你。
2.11.4
तामुवाच महाराजः कैकेयीमीषदुत्स्मयः।
कामी हस्तेन संगृह्य मूर्धजेषु भुवि स्थिताम् ॥ २.११.४ ॥
大王微微一笑,被欲望所驱使,用手抓住她的头发,对站在地上的甘迦伊说道。
2.11.5
अवलिप्ते न जानासि त्वत्तः प्रियतरो मम।
मनुजो मनुजव्याघ्राद् रामादन्यो न विद्यते ॥ २.११.५ ॥
骄傲的女人啊,你难道不知道没有人比你更让我珍爱吗?除了人中之虎罗摩,再没有别的男子了。
2.11.6
तेनाजय्येन मुख्येन राघवेण महात्मना।
शपे ते जीवनार्हेण ब्रूहि यन्मनसेप्सितम् ॥ २.११.६ ॥
我以那不可战胜、至尊、伟大的罗怙子孙,以那值得生存之人的名义向你发誓:说出你心中所愿。
2.11.7
यं मुहूर्तमपश्यंस्तु न जीवे तमहं ध्रुवम्।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ २.११.७ ॥
若一刻不见他,我必定无法活下去。以那罗摩之名,啊吉凯伊,我发誓遵从你的话。
2.11.8
आत्मना चात्मजैश्चान्यैर्वृणे यं मनुजर्षभम्।
तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ २.११.८ ॥
无论是我自己、我的儿子还是他人所选,那人中之雄牛,即罗摩——以那罗摩之名,啊吉凯伊,我发誓遵从你的话。
2.11.9
भद्रे हृदयमप्येतदनुमृश्योद्धरस्व मे।
एतत् समीक्ष्य कैकेयि ब्रूहि यत् साधु मन्यसे ॥ २.११.९ ॥
啊贤淑的女子,请在你心中也思量此事,拯救我吧。啊吉凯伊,仔细看过之后,说出你认为好的话。
2.11.10
बलमात्मनि पश्यन्ती न विशङ्कितुमर्हसि।
करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे ॥ २.११.१० ॥
你既看到自己内在的力量,就不该怀疑。我必定满足你的心愿;我也以我的善业向你起誓。
2.11.11
सा तदर्थमना देवी तमभिप्रायमागतम्।
निर्माध्यस्थ्याच्च हर्षाच्च बभाषे दुर्वचं वचः ॥ २.११.११ ॥
那位王后为此事做好准备,听到前来的这一意图,因缺乏公正与欢喜,说出了刻薄的话。
2.11.12
तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः।
व्याजहार महाघोरमभ्यागतमिवान्तकम् ॥ २.११.१२ ॥
因这番话而十分欢喜,她说出了自己的意图,仿佛可怖的死神已临近。
2.11.13
यथा क्रमेण शपसे वरं मम ददासि च।
तच्छृण्वन्तु त्रयस्त्रिंशद् देवाः सेन्द्रपुरोगमाः ॥ २.११.१३ ॥
你按次序起誓并赐我恩惠,愿以因陀罗为首的三十三天神听闻此事。
2.11.14
चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः।
जगच्च पृथिवी चेयं सगन्धर्वाः सराक्षसाः ॥ २.११.१४ ॥
日月、天空、诸星、昼夜、四方、世界与此大地,连同乾闼婆与罗刹。
2.11.15
निशाचराणि भूतानि गृहेषु गृहदेवताः।
यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ २.११.१५ ॥
居于屋中的夜行众生与家神,以及其他一切众生,都应知道你所说的话。
2.11.16
सत्यसंधो महातेजा धर्मज्ञः सत्यवाक्शुचिः।
वरं मम ददात्येष सर्वे शृण्वन्तु दैवताः ॥ २.११.१६ ॥
此人守信,大有威光,知晓法义,言语真实,清净无染,正赐予我恩惠。愿诸天神皆来听闻。
2.11.17
ततः परमुवाचेदं वरदं काममोहितम् ॥ २.११.१७ ॥
于是她被欲望所迷,又对施予恩惠者说了这番话。
2.11.18
स्मर राजन् पुरा वृत्तं तस्मिन् देवासुरे रणे।
तत्र त्वां च्यावयच्छत्रुस्तव जीवितमन्तरा ॥ २.११.१८ ॥
大王,请想起往昔天神与阿修罗那场战斗中发生的事:当时敌人重创了你,你的性命危在旦夕。
2.11.19
तत्र चापि मया देव यत् त्वं समभिरक्षितः।
जाग्रत्या यतमानायास्ततो मे प्रददौ वरौ ॥ २.११.१९ ॥
陛下,在那里我也彻夜不眠、竭力护卫了您;为此您赐予了我两个恩惠。
2.11.20
तौ दत्तौ च वरौ देव निक्षेपौ मृगयाम्यहम्।
तवैव पृथिवीपाल सकाशे रघुनन्दन ॥ २.११.२० ॥
陛下,所赐予的那两个恩惠仍存放在您处作为抵押;我现在索取它们。大地的守护者,罗怙的欢喜者,它们就在您身边。
2.11.21
तत् प्रतिश्रुत्य धर्मेण न चेद् दास्यसि मे वरम्।
अद्यैव हि प्रहास्यामि जीवितं त्वद्विमानिता ॥ २.११.२१ ॥
若您既已承诺,却不依法赐予我这恩惠,那么今日我便因您的轻慢而舍弃性命。
2.11.22
वाङ्मात्रेण तदा राजा कैकेय्या स्ववशे कृतः।
प्रचस्कन्द विनाशाय पाशं मृग इवात्मनः ॥ २.११.२२ ॥
那时,凯克伊仅凭言语便使国王听命于她;如同鹿为自身毁灭而奔入罗网,国王也向着自己的毁灭冲去。
2.11.23
ततः परमुवाचेदं वरदं काममोहितम्।
वरौ देयौ त्वया देव तदा दत्तौ महीपते ॥ २.११.२३ ॥
随后,她又对这位被欲望迷惑的赐恩者说:陛下,地上的主人,当时所赐的那两个恩惠,您应当交给我。
2.11.24
तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः।
अभिषेकसमारम्भो राघवस्योपकल्पितः ॥ २.११.२४ ॥
那两个恩惠,我今天就要说出;请听我的话。罗摩(罗怙后裔)的加冕典礼已经筹备妥当。
2.11.25
अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्।
यो द्वितीयो वरो देव दत्तः प्रीतेन मे त्वया ॥ २.११.२५ ॥
愿以此次灌顶,立我之子婆罗多为王。陛下,这是您喜悦时赐予我的第二个恩典。
2.11.26
तदा देवासुरे युद्धे तस्य कालोऽयमागतः।
नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ २.११.२६ ॥
当年在诸天与阿修罗之战中所许的恩典,其时刻now已到。愿他在檀陀迦森林中居住九年加五年。
2.11.27
चीराजिनधरो धीरो रामो भवतु तापसः।
भरतो भजतामद्य यौवराज्यमकण्टकम् ॥ २.११.२७ ॥
愿坚毅的罗摩身披树皮与鹿皮,成为苦行者。愿婆罗多今日即享有无人阻挡的太子之位。
2.11.28
एष मे परमः कामो दत्तमेव वरं वृणे।
अद्य चैव हि पश्येयं प्रयान्तं राघवं वने ॥ २.११.२८ ॥
这便是我最大的愿望。我所求的正是您已许下的恩典。愿我今日就能看见罗怙之后启程赴林。
2.11.29
स राजराजो भव सत्यसंगरः कुलं च शीलं च हि जन्म रक्ष च।
परत्र वासे हि वदन्त्यनुत्तमं तपोधनाः सत्यवचो हितं नृणाम् ॥ २.११.२९ ॥
愿他成为王中之王,信守誓言,守护家族、德行与出身。苦行者们说,在来世的居住中,真实的言语是人类最高的福祉。