蚁垤《罗摩衍那》 · 篇 2.115
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.115.1
ततो निक्षिप्य मातऽः स अयोध्यायां दृढव्रतः ।
भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ २.११५.१ ॥
于是,薄卢多在阿逾陀城留下诸母,坚守誓愿、为悲伤所煎熬的婆罗多对长者们这样说道。
2.115.2
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य वः ।
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥ २.११५.२ ॥
我将前往难提村;今日我向诸位告辞。没有罗怙之子,我将在那里忍受这一切痛苦。
2.115.3
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।
रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥ २.११५.३ ॥
国王已升天,我敬爱的兄长居住在森林中。我等待罗摩来继承王位,因为他才是大名远扬的国王。
2.115.4
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥ २.११५.४ ॥
众大臣与祭司婆悉吒听了大德婆罗多这番吉祥的话,纷纷开口。
2.115.5
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥ २.११५.५ ॥
婆罗多啊,你所说的非常值得赞叹;这些出于对兄长之爱的话语,正适合你。
2.115.6
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥ २.११५.६ ॥
你始终坚守兄弟之情,眷恋亲族,行走在高贵之道上,哪个人会不赞同你呢?
2.115.7
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥ २.११५.७ ॥
他听了大臣们的话,得到了所愿的悦耳之言,便对御者说:“备好我的车。”
2.115.8
प्रहृष्टवदनः सर्वा मातऽः समभिवाद्य सः ।
आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः ॥ २.११५.८ ॥
他面带喜色,恭敬地向所有母亲行礼,光荣的他与舍睹那一同登上了车。
2.115.9
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥ २.११५.९ ॥
二人迅速登上车,舍睹那与婆罗多都非常欢喜,在大臣和祭司的簇拥下出发了。
2.115.10
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः ।
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतो ऽभवत् ॥ २.११५.१० ॥
前面是以跋舍为首的尊贵师长和婆罗门,皆面向东方,朝着难提村的方向前行。
2.115.11
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।
प्रययौ भरते याते सर्वे च पुरवासिनः ॥ २.११५.११ ॥
那支未经召集、满是象、马与车的军队,在婆罗多离去之后出发了,全城的百姓也一同前往。
2.115.12
रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः ।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥ २.११५.१२ ॥
坐在车上的正法之心的婆罗多,爱护兄长,将木屐顶在头上,迅速前往难提村。
2.115.13
ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः ।
अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥ २.११५.१३ ॥
于是婆罗多迅速进入难提村,立即从车上下来,对长者们说了这番话。
2.115.14
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ॥ २.११५.१४ ॥
哥哥亲自将此国托付给我,如同寄存之物;这对镶金的木履承担着国家的安危与福祉。
2.115.15
भरतः शिरसा कृत्वा संन्यासं पादुके ततः ।
अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ॥ २.११५.१५ ॥
婆罗多将这托付的木履顶戴于头上,因悲痛而煎熬,便对全体民众说道。
2.115.16
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।
आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ २.११५.१६ ॥
快快撑起伞盖;这两只被视为贤者(罗摩)的双足。依靠这双木履,正法在我师兄的国度中得以稳固。
2.115.17
भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् ।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥ २.११५.१७ ॥
兄长出于亲情将此托付给我;我将守护此物,直到罗怙之子(罗摩)归来。
2.115.18
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ २.११५.१८ ॥
不久,我将亲自把罗摩(罗怙之子)的双足与木履重新合为一体,并与木履一同瞻仰那双足。
2.115.19
ततो निक्षिप्तभारो ऽहं राघवेण समागतः ।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ २.११५.१९ ॥
随后,我放下重担,与罗怙之后(罗摩)重逢,将王国交还给尊长,并遵循侍奉尊长者的行为。
2.115.20
राघवाय च संन्यासं दत्त्वे मे वरपादुके ।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥ २.११५.२० ॥
将舍弃王位之事交付罗怙之后(罗摩),并献上我的殊胜木屐,归还此王国与阿逾陀,我便可脱离罪业。
2.115.21
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥ २.११५.२१ ॥
当迦古室陀(罗摩)受灌顶,百姓欢喜雀跃时,我的喜悦与名声将比王位高出四倍。
2.115.22
एवं तु विलपन् दीनो भरतः स महायशाः ।
नन्दिग्रामे ऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ॥ २.११५.२२ ॥
如此哀叹、悲伤而憔悴的大名远扬的婆罗多,与大臣们一同在难提村治理王国。
2.115.23
स वल्कलजटाधारी मुनिवेषधरः प्रभुः ।
नन्दिग्रामे ऽवसद्वीरः ससैन्यो भरतस्तदा ॥ २.११५.२३ ॥
身披树皮衣、结着发辫,作苦修士打扮的那位英雄之主婆罗多,当时与军队一同住在难提村。
2.115.24
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः ।
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥ २.११५.२४ ॥
渴望罗摩归来的婆罗多,对兄长深怀眷爱,遵从兄长之言,并完成了誓愿,便如此留守着。
2.115.25
पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा ।
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ २.११५.२५ ॥
随后,婆罗多为木屐举行灌顶,当时住在难提村,并将所有政务禀报给木屐。
2.115.26
ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके ।
तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २.११५.२६ ॥
于是尊贵的婆罗多为尊贵的木屐举行灌顶,自己甘居其下,始终让王国由他们主持治理。
2.115.27
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥ २.११५.२७ ॥
那时,无论有何事务出现,或有何贵重礼物送来,婆罗多总是先禀报木屐,之后才依礼妥善处理。