Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.17.1

स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः।
पताकाध्वजसम्पन्नं महार्हागुरुधूपितम् ॥ २.१७.१ ॥

罗摩与欢欣的亲友和民众一同登上战车;那车饰有旌旗和幡幢,并以珍贵的沉香焚烧的烟雾熏染。

2.17.2

अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम्।
स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम् ॥ २.१७.२ ॥

光辉的罗摩看到城中人群熙攘,白色的房屋如云般错落,装点着整座城市。

2.17.3

राजमार्गं ययौ रामो मध्येनागुरुधूपितम्।
चन्दनानां च मुख्यानामगुरूणां च संचयैः ॥ २.१७.३ ॥

罗摩行于王道中央,那里以堆积如山的檀香与上等沉香熏染得芬芳四溢。

2.17.4

उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च।
अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि ॥ २.१७.४ ॥

街道又以上等香料、细麻与丝绸衣物、未穿孔的珍珠和上好的水晶装饰。

2.17.5

शोभमानमसम्बाधं तं राजपथमुत्तमम्।
संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि ॥ २.१७.५ ॥

那条上好的王道光彩照人,不见拥挤,铺满了各色花卉与高低各类的食物。

2.17.6

ददर्श तं राजपथं दिवि देवपतिर्यथा।
दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः ॥ २.१७.६ ॥

罗摩望见那条王道,犹如天界的诸神之主因陀罗俯瞰天空;路上装饰着酸奶、完整的谷粒、供品、爆米、香烟、沉香与檀香。

2.17.7

नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्।
आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् ॥ २.१७.७ ॥

Rāma穿过城市,那里的十字路口常以各式花环和香气致敬,他一路听着朋友们说出的许多祝福。

2.17.8

यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ।
पितामहैराचरितं तथैव प्रपितामहैः ॥ २.१७.८ ॥

他按礼仪尊重了所有的人,然后前行,正如他的祖父和曾祖父所做的那样。

2.17.9

अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय।
यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः।
ततः सुखतरं सर्वे रामे वत्स्याम राजनि ॥ २.१७.९ ॥

"现在就走上这条道路,接受灌顶,守护百姓,正如父亲和所有祖父养育我们那样。那时我们都将在罗摩为王的统治下更加安乐地生活。"

2.17.10

अलमद्य हि भुक्तेन परमार्थैरलं च नः।
यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ २.१७.१० ॥

"今日饮食与上好之物于我们又有何用?只要看到罗摩在王国中确立之后离去,便已足够。"

2.17.11

ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति।
यथाभिषेको रामस्य राज्येनामिततेजसः ॥ २.१७.११ ॥

"那时,对我们来说,再没有比无量光辉的罗摩受封王位更令人欣喜的事了。"

2.17.12

एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः।
आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम् ॥ २.१७.१२ ॥

罗摩听着朋友们为他而说的这些和其他吉祥之言,淡然地沿着大路前行。

2.17.13

न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।
नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे ॥ २.१७.१३ ॥

无论是谁的心或眼,都无法从这位人中最优者身上移开;即使罗怙之子已经走过,也无人能将它们拉开。

2.17.14

यश्च रामं न पश्येत्तु यं च रामो न पश्यति।
निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते ॥ २.१७.१४ ॥

不见罗摩之人,以及罗摩不见之人,在一切世界中都受人轻视;他自己的灵魂也会谴责他。

2.17.15

सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम्।
चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः ॥ २.१७.१५ ॥

那位法魂之人对一切种姓都怀有慈悲;四个年龄段的人都是他的追随者。

2.17.16

चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च।
प्रदक्षिणं परिहरज्जगाम नृपतेः सुतः ॥ २.१७.१६ ॥

王子绕过十字路口、神道、塔庙与殿堂,从右侧行礼而过,继续前行。

2.17.17

स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः।
प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः ॥ २.१७.१७ ॥

他来到王宫,那里有许多华美的宫殿尖顶,如云团一般,又似吉罗娑峰巅。

2.17.18

आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः।
वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः ॥ २.१७.१८ ॥

如白色天宫遮蔽天空,那些不断增建的楼阁也以宝石网饰装点。

2.17.19

तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम्।
राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ २.१७.१९ ॥

大地上那座宏伟的殿堂如同因陀罗的居所。王子光彩照人,步入父王的宫殿。

2.17.20

स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।
पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः ॥ २.१७.२० ॥

他骑马穿过由弓箭手守卫的三重庭院,随后步行穿过其余两重庭院,这位人中之杰。

2.17.21

स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।
संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात् ॥ २.१७.२१ ॥

十车王之子穿过所有庭院,遣散了所有民众,进入了清净的内宫。

2.17.22

तस्मिन् प्रविष्टे पितुरन्तिकं तदा
जनः स सर्वो मुदितो नृपात्मजे।
प्रतीक्षते तस्य पुनः स्म निर्गमं
यथोदयं चन्द्रमसः सरित्पतिः ॥ २.१७.२२ ॥

他进入父王身边后,所有百姓因王子而欢喜,等待他再次出来,正如大海等待月亮升起。