蚁垤《罗摩衍那》 · 篇 2.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.18.1
स ददर्शासने रामो विषण्णं पितरं शुभे।
कैकेय्या सहितं दीनं मुखेन परिशुष्यता ॥ २.१८.१ ॥
罗摩看见父亲在吉祥的殿中坐在座位上,与吉伊相伴,神情沮丧而憔悴,面容干枯。
2.18.2
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥ २.१८.२ ॥
他先以谦恭之礼拜见父亲的双足,然后专注地向吉伊的双足致礼。
2.18.3
रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ २.१८.३ ॥
他只说了一声“罗摩”,这位悲苦的国王双眼被泪水模糊,既不能看他,也不能与他说话。
2.18.4
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ २.१८.४ ॥
罗摩见到国王那前所未有、令人恐惧的模样,也感到惊恐,如同以脚踩到了蛇一般。
2.18.5
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्।
निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ २.१८.५ ॥
那位大王,感官毫无喜悦,因忧伤与苦恼而消瘦,长叹不已,心中痛楚而慌乱。
2.18.6
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।
उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ २.१८.६ ॥
如同海洋,本是不动、以波浪为环佩,如今却翻涌不宁;如同被日食所侵的太阳;如同说了谎言的圣人。
2.18.7
अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्।
बभूव संरब्धतरः समुद्र इव पर्वणि ॥ २.१८.७ ॥
罗摩察觉到国王那难以想象的状态与悲痛,心中更加激荡,犹如满月之时的大海。
2.18.8
चिन्तयामास चतुरो रामः पितृहिते रतः।
किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ २.१८.८ ॥
罗摩机敏且一心为父亲的福祉着想,心中思忖:“今天国王为何不接见我?”
2.18.9
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।
तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ॥ २.१८.९ ॥
平日父亲见到我,即便恼怒也会转为欢喜;今日见到我,他为何竟生出这般忧苦?
2.18.10
स दीन इव शोकार्तो विषण्णवदनद्युतिः।
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ २.१८.१० ॥
罗摩为悲痛所折磨,神情委顿,面容黯淡,向吉迦伊行礼之后,说出了这些话。
2.18.11
कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता।
कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय ॥ २.१८.११ ॥
我是否无知中犯下了什么过错,才使父亲动怒?请告诉我,并且由你亲自去使他平息。
2.18.12
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः।
विषण्णवदनो दीनः नहि मां प्रति भाषते ॥ २.१८.१२ ॥
一向对我慈爱的父亲,今日为何心中不悦、面容愁苦、神情低落?他甚至不肯与我说话。
2.18.13
शारीरो मानसो वापि कच्चिदेनं न बाधते।
संतापो वाभितापो वा दुर्लभं हि सदा सुखम् ॥ २.१८.१३ ॥
他是否受身体或心灵的疾病所困扰?是否有悲伤或烦恼使他痛苦?的确,安乐总是难以得到。
2.18.14
कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने।
शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ॥ २.१८.१४ ॥
那位容貌可爱的王子婆罗多,或勇毅的舍睹祇那,或我的母亲们,是否遭遇了什么不幸?
2.18.15
अतोषयन् महाराजमकुर्वन् वा पितुर्वचः।
मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ २.१८.१५ ॥
若我未能使大王欢喜,或未遵从父王之命,在君王震怒之时,我连一刻也不愿独活。
2.18.16
यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।
कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ २.१८.१६ ॥
人既见自身所由生之根源,面前又有显现的神明,怎能不恭敬待之?
2.18.17
कच्चित्ते परुषं किंचिदभिमानात् पिता मम।
उक्तो भवत्या रोषेण येनास्य लुलितं मनः ॥ २.१८.१७ ॥
你是否因骄傲或愤怒,对我父亲说了什么严厉的话,以致他心神动荡?
2.18.18
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।
किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ २.१८.१८ ॥
王后啊,我诚心相问,请如实告诉我:人主身上出现这前所未有的变化,究竟是什么缘故?
2.18.19
एवमुक्ता तु कैकेयी राघवेण महात्मना।
उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ २.१८.१९ ॥
伟大的罗怀婆(罗摩)如此问道,极其无耻的吉开伊便说出了这番有利于自己的大胆之言。
2.18.20
न राजा कुपितो राम व्यसनं नास्य किंचन।
किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते ॥ २.१८.२० ॥
罗摩啊,国王并未发怒,他也没有任何苦难;只是因为惧怕你,他不说出心中所想。
2.18.21
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते।
तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ २.१८.२१ ॥
他的言语不愿说出令你不悦的话;因此你必须履行他对我许下、而你未曾听闻的那件事。
2.18.22
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।
स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा ॥ २.१८.२२ ॥
他先前赐予我此恩典、并尊重我,如今却像普通人一样事后懊悔。
2.18.23
अतिसृज्य ददानीति वरं मम विशाम्पतिः।
स निरर्थं गतजले सेतुं बन्धितुमिच्छति ॥ २.१८.२३ ॥
他曾说“我将赐予”,许诺给我恩典;如今水已流走,他却徒劳地想要筑堤拦水。
2.18.24
धर्ममूलमिदं राम विदितं च सतामपि।
तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा ॥ २.१८.२४ ॥
罗摩啊,这是法的根本,连善人也知道。国王即使因你而愤怒,也不应舍弃他的真诚之言。
2.18.25
यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्।
करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २.१८.२५ ॥
若国王说出那话,无论善恶,你都会全部照办;我也会再次把它告诉你。
2.18.26
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।
ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २.१८.२६ ॥
若国王对你所说之事未能实现,我便会再次declare它;他不会亲自对你说的。
2.18.27
एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।
उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ ॥ २.१८.२७ ॥
罗摩听了吉凯依所说的这些话,心中痛苦,便在国王面前对那位王后说道。
2.18.28
अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः।
अहं हि वचनाद् राज्ञः पतेयमपि पावके ॥ २.१८.२८ ॥
唉,可耻!王后啊,你不该对我说这样的话。依照国王的话,即使跳进火中,我也愿意。
2.18.29
भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे।
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २.१८.२९ ॥
若受到师长、父亲、国王和益友的命令,我便会饮下烈性毒药,跳入大海。
2.18.30
तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्।
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ २.१८.३० ॥
所以,王后啊,请说出国王所愿;我会去做,我立誓。罗摩不会说两遍。
2.18.31
तमार्जवसमायुक्तमनार्या सत्यवादिनम्।
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ २.१८.३१ ॥
對具有正直品格、說真話的羅摩,卑劣的吉迦伊說出了極其苛刻的話。
2.18.32
पुरा देवासुरे युद्धे पित्रा ते मम राघव।
रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ २.१८.३२ ॥
往昔,諸天與阿修羅之戰中,你的父親在大戰中被箭射傷,我護衛了他,他便賜予我兩個恩惠。
2.18.33
तत्र मे याचितो राजा भरतस्याभिषेचनम्।
गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ २.१८.३३ ॥
我在那裡向國王請求了婆羅多的灌頂,以及,羅摩啊,你今日即前往檀特迦林。
2.18.34
यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि।
आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ २.१८.३४ ॥
若你想使父親與你自身都守誠言,人中之最,請聽我這番話。
2.18.35
संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्।
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ २.१८.३५ ॥
遵從父親的命令,正如他所許諾的:你須進入森林,十四年。
2.18.36
भरतश्चाभिषिच्येत यदेतदभिषेचनम्।
त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ २.१८.३६ ॥
願婆羅多得受灌頂——那原為你而由國王所定的灌頂,羅摩啊,以此一切為之。
2.18.37
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।
अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव ॥ २.१८.३७ ॥
在檀陀迦森林中住上七个七年;舍弃这次灌顶,成为披戴发髻与树皮衣的人。
2.18.38
भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्।
नानारत्नसमाकीर्णां सवाजिरथसंकुलाम् ॥ २.१८.३८ ॥
愿拘萨罗王之子婆罗多统治这片大地,它充满各色珍宝,车马络绎。
2.18.39
एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।
शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ २.१८.३९ ॥
因此这位人王对你充满怜悯;他愁容满面,竟不能正视你。
2.18.40
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।
सत्येन महता राम तारयस्व नरेश्वरम् ॥ २.१८.४० ॥
罗怙之喜乐者啊,罗摩!请遵行国王这一命令;罗摩,以伟大的真实,拯救这位人王。
2.18.41
इतीव तस्यां परुषं वदन्त्यां
न चैव रामः प्रविवेश शोकम्।
प्रविव्यथे चापि महानुभावो
राजा च पुत्रव्यसनाभितप्तः ॥ २.१८.४१ ॥
她这样继续说着严厉的话,罗摩心中却没有悲伤;而那位伟大的国王,因爱子的灾难而备受煎熬,痛苦不堪。