Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.3.1

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।
प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः ॥ २.३.१ ॥

国王接受了他们如莲花般合十的双手,对他们说了令人愉悦而有益的话。

2.3.2

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २.३.२ ॥

啊,我非常欣喜,我的威望无与伦比,因为你们希望看到我心爱的长子立为太子。

2.3.3

वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ २.३.३ ॥

在他们倾听之时,(国王)对伐悉侘和伐摩提婆说道。

2.3.4

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ २.३.४ ॥

此光辉的吉月是圣洁的,森林百花盛开。应为罗摩立为太子做好一切准备。

2.3.5

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।
शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥ २.३.५ ॥

国王之言一停,百姓中便爆发出巨大的欢呼;待这欢声渐渐平息,民之主(又接着说道)。

2.3.6

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्।
अभिषेकाय रामस्य यत् कर्म सपरिच्छदम् ॥ २.३.६ ॥

国王对贤者中的雄虎伐悉侘说道:请为罗摩的灌顶准备所需的一切仪式及其器具。

2.3.7

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि।
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः ॥ २.३.७ ॥

尊者啊,今日您应当吩咐一切。国王的话传到,最好的仙人婆犀吒,

2.3.8

आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ॥ २.३.८ ॥

他吩咐站在国王面前、被指派、合掌的人们:金等物、宝石、祭品,还有一切草药。

2.3.9

शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी।
अहतानि च वासांसि रथं सर्वायुधान्यपि ॥ २.३.९ ॥

白色花环,炒米,蜂蜜与酥油各自分开,未曾穿过的衣服,战车,以及一切兵器。

2.3.10

चतुरङ्गबलं चैव गजं च शुभलक्षणम्।
चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम् ॥ २.३.१० ॥

四军之师,一头吉相之象,两把拂尘扇,旗帜与白色华盖。

2.3.11

शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्।
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ॥ २.३.११ ॥

百只如火般明亮的金瓶,一头金角公牛,以及整张虎皮。

2.3.12

यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्।
उपस्थापयत प्रातरग्न्यगारे महीपतेः ॥ २.३.१२ ॥

凡其他所需之物,都应备齐,明晨送至国王的火堂之中。

2.3.13

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ २.३.१३ ॥

让内宫之门与全城之门都以檀香花环装饰,并点燃令人喜爱的香气。

2.3.14

प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्।
द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत् ॥ २.३.१४ ॥

要有上好、精心烹制的食物,配以凝乳与牛奶,足够十万婆罗门随意享用。

2.3.15

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ २.३.१५ ॥

明晨黎明,敬待诸位上等婆罗门,赠以酥油、凝乳、爆米以及丰厚的供养。

2.3.16

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥ २.३.१६ ॥

明日太阳刚刚升起,便要举行吉祥诵念;应邀请婆罗门,并备好座位。

2.3.17

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्।
सर्वे च तालापचरा गणिकाश्च स्वलंकृताः ॥ २.३.१७ ॥

悬挂旗幡,洒扫御道;让所有舞者、乐师和盛装的歌伎都到场。

2.3.18

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः।
देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः ॥ २.३.१८ ॥

到达王宫的第二重庭院后,让他们在那里站立;在神庙与佛塔中,连同供养一并施与饭食与点心。

2.3.19

उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्।
दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः ॥ २.३.१९ ॥

应使他们各自前来侍卫,佩戴花环,系着长剑和护臂,身披铠甲,穿着洁净华美的衣服。

2.3.20

महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्।
एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ ॥ २.३.२० ॥

让勇士们进入大王的庭院,进入那座宏伟的宫殿。二位婆罗门如此吩咐之后,便在那里完成了仪式。

2.3.21

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च।
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम् ॥ २.३.२१ ॥

他们又完成了剩余的事务,献给国王,然后走近世界之主,只说了一句:“已经办妥了。”

2.3.22

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ।
ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत् ॥ २.३.२२ ॥

二位优秀的婆罗门依照所说的话而心中欢喜、充满喜悦。于是光辉的国王对苏曼特拉说了这番话。

2.3.23

रामः कृतात्मा भवता शीघ्रमानीयतामिति।
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात् ॥ २.३.२३ ॥

“请你迅速把已自制的罗摩带来。”苏曼特拉奉国王之命,应道:“就这样”,并答应了。

2.3.24

रामं तत्रानयांचक्रे रथेन रथिनां वरम्।
अथ तत्र सहासीनास्तदा दशरथं नृपम् ॥ २.३.२४ ॥

他把罗摩——最优秀的车手——乘车带到那里。然后,来到与众人一同坐在那里的国王十车王身边。

2.3.25

प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः।
म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः ॥ २.३.२५ ॥

东方、北方、西方、南方的诸王,蛮夷与雅利安人,以及其他居住在森林与山麓的人们;

2.3.26

उपासांचक्रिरे सर्वे तं देवा वासवं यथा।
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः ॥ २.३.२६ ॥

众人侍奉他,如诸神侍奉婆薮(因陀罗);在他们之中,这位王仙如同诸风神中的因陀罗光辉闪耀。

2.3.27

प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्।
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम् ॥ २.३.२७ ॥

站在宫殿平台上的十车王,看见儿子走来;他如同乾闼婆王,以勇武闻名于世。

2.3.28

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्।
चन्द्रकान्ताननं राममतीव प्रियदर्शनम् ॥ २.३.२८ ॥

罗摩长臂、大勇,行走如发情的象,面如明月,极其令人悦目。

2.3.29

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्।
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः ॥ २.३.२९ ॥

以容貌与高贵之德摄取男子的目光与心,如雨云使被暑热灼烧的众生欢喜。

2.3.30

न ततर्प समायान्तं पश्यमानो नराधिपः।
अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात् ॥ २.३.३० ॥

国王望着他走近,仍未满足;于是苏曼特罗从最好的战车上下来,把罗ghava(罗摩)迎下车。

2.3.31

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्।
स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः ॥ २.३.३१ ॥

合掌跟随在前往父亲身边之人的身后,罗怙之乐(罗摩)望见那座如同凯拉萨山峰的宫殿。

2.3.32

आरुरोह नृपं द्रष्टुं सहसा तेन राघवः।
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ॥ २.३.३२ ॥

为了见国王,罗伽婆立即登上那座宫殿;合掌走近父亲身边,恭敬行礼。

2.3.33

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः।
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ॥ २.३.३३ ॥

罗摩报上自己的名字,向父亲的双足致敬;国王见他在身旁合掌俯身行礼,

2.3.34

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्।
तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम् ॥ २.३.३४ ॥

国王握住他合拢的双手,将心爱的儿子拉近拥抱;并为他抬来一个以宝石与黄金精美装饰的座位。

2.3.35

दिदेश राजा रुचिरं रामाय परमासनम्।
तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः ॥ २.३.३५ ॥

国王下令为罗摩设置一个华美而至尊的座位;罗伽婆得到这尊贵的座位后,光彩焕发。

2.3.36

स्वयैव प्रभया मेरुमुदये विमलो रविः।
तेन विभ्राजिता तत्र सा सभापि व्यरोचत ॥ २.३.३६ ॥

如同清净的太阳在升起时以自身光芒照亮须弥山,那个会堂也因他而被照亮,光辉灿烂。

2.3.37

विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना।
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम् ॥ २.३.३७ ॥

如秋日晴空,群星明净,与明月交辉,国王望着心爱的儿子,心中欢喜。

2.3.38

अलंकृतमिवात्मानमादर्शतलसंस्थितम्।
स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः ॥ २.३.३८ ॥

仿佛在镜中看见自己盛装的模样,最有子嗣的国王对站在那里的儿子说话。

2.3.39

उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः।
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ॥ २.३.३९ ॥

国王如迦叶对因陀罗所言,说道:你生于我的长妻,她与我相当,你是与她相配的儿子。

2.3.40

उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः।
त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ॥ २.३.४० ॥

你生来便是德行最高的,我的爱子,罗摩之子;因为这些臣民因你自身的德行而欢喜。

2.3.41

तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि।
कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति ॥ २.३.४१ ॥

因此,在普什亚星宿之时,你应受封为太子;你天性便被认定为有德之人。

2.3.42

गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्।
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ॥ २.३.४२ ॥

孩儿,你虽有德,我出于爱,仍要对你说有益之言:再次谦卑自持,常使诸根受你制约。

2.3.43

कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च।
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा ॥ २.३.४३ ॥

舍弃由欲望和愤怒所生的恶习,无论在暗处还是明处,都要端正自己的行为。

2.3.44

अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय।
कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून् ॥ २.३.४४ ॥

使大臣以下所有臣民都心悦诚服;在库房和兵库中积蓄大量物资。

2.3.45

इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्।
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः ॥ २.३.४५ ॥

君王若与深受爱戴、忠诚归附的臣民共同治理大地,他的朋友便会欢喜,如同诸天得到甘露一般。

2.3.46

तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर।
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ॥ २.३.४६ ॥

因此,儿子啊,你要克制自己,如此行事。那些常为罗摩做喜悦之事的友人听到此言后——

2.3.47

त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्।
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ॥ २.३.४७ ॥

他们急速赶来,将此事禀告给了考莎厘雅。她随即赏赐黄金、牛群和各种宝石——

2.3.48

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा।
अथाभिवाद्य राजानं रथमारुह्य राघवः।
ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः ॥ २.३.४८ ॥

最优秀的女子考莎厘雅赏赐了带来喜讯的人们。随后罗怙子(罗摩)向国王行礼,登上战车,在众人的敬重中返回他那光辉的宫殿。

2.3.49

ते चापि पौरा नृपतेर्वचस्त-
च्छ्रुत्वा तदा लाभमिवेष्टमाशु।
नरेन्द्रमामन्त्र्य गृहाणि गत्वा
देवान् समानर्चुरभिप्रहृष्टाः ॥ २.३.४९ ॥

城中百姓听闻国王的这番话,仿佛得到了所求的利益,迅速向国王告辞,回到家中,心中欢喜,礼拜诸神。