ヴァールミーキのラーマーヤナ · サルガ 2.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.35.1
ततो निधूय सहसा शिरो निःश्वस्य चासकृत्।
पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च ॥ २.३५.१ ॥
するとスマントラは突然頭を振り、幾度も深く溜息をつき、手を手に強く押しつけ、歯をぎりぎりと噛みしめた。
2.35.2
लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।
कोपाभिभूतः सहसा संतापमशुभं गतः ॥ २.३५.२ ॥
怒りで赤くなった目をして、彼は常の顔色を失った。怒りに圧倒され、彼は突然、不吉な苦悩に陥った。
2.35.3
मनः समीक्षमाणश्च सूतो दशरथस्य च।
कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः ॥ २.३५.३ ॥
ダシャラタの御者スマントラは心に思案し、鋭い言葉の矢でカイケーイーの心を震わせるかのように語った。
2.35.4
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः।
कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥ २.३५.४ ॥
比類なき雷のような言葉と不吉な言葉で、カイケーイーの急所をことごとく貫くかのように、スマントラは答えた。
2.35.5
यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।
भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च ॥ २.३५.५ ॥
あなたの夫、不動のものと動くもの、全世界の守護者である王ダシャラタ自身が見捨てられたのです。
2.35.6
नह्यकार्यतमं किंचित्तव देवीह विद्यते।
पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ २.३५.६ ॥
王妃よ、ここにはあなたがしないような不当な行為はありません。私はあなたを夫殺しであり、ついには一族を滅ぼす者とさえ思います。
2.35.7
यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।
महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः ॥ २.३५.७ ॥
マヘーンドラのように打ち勝ちがたく、山のように動かしがたく、大海のように動じない方を、あなたは自らの行いで苦しめている。
2.35.8
मावमंस्था दशरथं भर्तारं वरदं पतिम्।
भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ २.३५.८ ॥
夫であり、恩恵を授ける主であるダシャラタを侮ってはならない。女性にとって夫の意志は、何千万の息子にもまさる。
2.35.9
यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।
इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि ॥ २.३५.९ ॥
王が亡くなれば、国は年齢の順に受け継がれる。それなのにあなたは、イクシュヴァーク族の主であるこの方から、その順序を奪い滅ぼそうとしている。
2.35.10
राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्।
वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥ २.३५.१० ॥
あなたの息子バラタが王となり、大地を治めますように。私たちはラーマが行くところへ行きましょう。
2.35.11
न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति।
तादृशं त्वममर्यादमद्य कर्म करिष्यसि ॥ २.३५.११ ॥
あなたの国にはもはやどのバラモンも住むに値しなくなるだろう。今日あなたはこれほど非礼な行いをしようとしているのだから。
2.35.12
नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्।
त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥ २.३५.१२ ॥
我々は皆、ラーマが歩む道を行くだろう。それは親族も、バラモンも、善人たちも常に捨ててきた道である。
2.35.13
का प्रीती राज्यलाभेन तव देवि भविष्यति।
तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ॥ २.३५.१३ ॥
王妃よ、王国を得ることがどんな喜びをもたらすのか。そのような無法な行いをしようとは。
2.35.14
आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।
आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥ २.३५.१४ ॥
このような振る舞いをするあなたを見て、私は驚いています。このように振る舞う者のために、大地はなぜすぐに裂けないのでしょうか。
2.35.15
महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः।
धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥ २.३५.१५ ॥
偉大なブラフマ仙人が作った、燃え盛る恐ろしい『恥を知れ』という非難の杖は、ラーマの追放に関わるこの女を打たないのか。
2.35.16
आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः।
यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ २.३५.१६ ॥
斧でマンゴーの木を切り倒してから、誰がニームの木を世話するだろうか。乳でそれに水をやっても、その実が甘くなることはない。
2.35.17
आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च।
न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः ॥ २.३५.१७ ॥
あなたの高貴な生まれは、母君と同じだと私は思う。世間で言われるように、ニームの木から蜜は滴らない。
2.35.18
तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम्।
पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम् ॥ २.३५.१८ ॥
あなたの母君の邪な執着は、以前から聞いて知っている。あなたの父君には、ある恩恵を与える者が至高の恩恵を与えたのだ。
2.35.19
सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः।
तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ २.३५.१९ ॥
そのため、その大地の主は一切の生き物の声を理解するようになり、それによって畜生に生まれた者たちの言葉も彼に分かるようになった。
2.35.20
ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः।
पितुस्ते विदितो भावः स तत्र बहुधाहसत् ॥ २.३५.२० ॥
そして寝台で欠伸をしたその大いなる輝きの人の声から、お前の父の心の状態が知られ、彼はそこで幾度も笑った。
2.35.21
तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।
हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ॥ २.३५.२१ ॥
そこでお前の母は怒り、死の縄を望むかのように言った。「王よ、温和な方よ!あなたの笑いの理由を知りたいのです。」
2.35.22
नृपश्चोवाच तां देवीं हासं शंसामि ते यदि।
ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २.३५.२२ ॥
王はその王妃に言った。「もしお前に笑いの理由を話せば、私はすぐに死ぬことになる。疑いはない。」
2.35.23
माता ते पितरं देवि पुनः केकयमब्रवीत्।
शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि ॥ २.३५.२३ ॥
お前の母は再び父(ケーカヤの王)に言った。「私に話してください。生きていようが死んでいようが、あなたは私を笑わないでしょう。」
2.35.24
प्रियया च तथोक्तः स केकयः पृथिवीपतिः।
तस्मै तं वरदायार्थं कथयामास तत्त्वतः ॥ २.३५.२४ ॥
愛しい妻がそう言うと、そのケーカヤの地の主は、恩寵を与えた者に関することを、ありのままに彼女に語った。
2.35.25
ततः स वरदः साधू राजानं प्रत्यभाषत।
म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते ॥ २.३५.२५ ॥
するとその恩恵を与える善良な王妃は王に答えた。「これは滅びよ、消え去れ。大地の主よ、これを口にしてはなりません。」
2.35.26
स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।
मातरं ते निरस्याशु विजहार कुबेरवत् ॥ २.३५.२६ ॥
彼女の言葉を聞いて王の心は晴れた。王はただちにあなたの母を退け、クベーラのように喜び楽しんだ。
2.35.27
तथा त्वमपि राजानं दुर्जनाचरिते पथि।
असद्ग्राहमिमं मोहात् कुरुषे पापदर्शिनी ॥ २.३५.२७ ॥
あなたもまた、悪人が歩んだ道で、迷いからこの不正な執着に縛られている。ああ、悪しきものしか見ない者よ!
2.35.28
सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा।
पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ २.३५.२८ ॥
また、世の人々のこの言い伝えは私には正しく思われる。男は父に続いて生まれ、女は母に続いて生まれる。
2.35.29
नैवं भव गृहाणेदं यदाह वसुधाधिपः।
भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ २.३५.२९ ॥
そのようであってはならない。大地の主が言われたことを受け入れなさい。ここで夫の望みに仕え、この民の拠り所となりなさい。
2.35.30
मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्।
भर्तारं लोकभर्तारमसद्धर्ममुपादध ॥ २.३५.३० ॥
悪人にそそのかされて、神々の王のように輝き、世界を守る夫に対して不正な道を選んではなりません。
2.35.31
नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः।
श्रीमान् दशरथो राजा देवि राजीवलोचनः ॥ २.३५.३१ ॥
王妃よ、汚れなき、栄光あり蓮華眼の王ダシャラタは、あなたへの約束を偽りにはしないでしょう。
2.35.32
ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता।
रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥ २.३५.३२ ॥
長子で寛大、行いに優れ、自らの法と生き物の世界を守る、強きラーマに灌頂がなされますように。
2.35.33
परिवादो हि ते देवि महाँल्लोके चरिष्यति।
यदि रामो वनं याति विहाय पितरं नृपम् ॥ २.३५.३३ ॥
王妃よ、ラーマが王である父を捨てて森へ行けば、世間にあなたへの大きな非難が広まるでしょう。
2.35.34
स्वराज्यं राघवः पातु भव त्वं विगतज्वरा।
नहि ते राघवादन्यः क्षमः पुरवरे वसन् ॥ २.३५.३४ ॥
ラーガヴァが自らの王国を守り、あなたは憂いを離れなさい。この優れた都に住むにふさわしいのは、ラーガヴァのほかあなたには誰もいません。
2.35.35
रामे हि यौवराज्यस्थे राजा दशरथो वनम्।
प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ २.३५.३५ ॥
ラーマが太子に立てられると、大弓手の王ダシャラタは以前の行いを思い起こし、森へ入るでしょう。
2.35.36
भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः ॥ २.३५.३६ ॥
スマントラは合掌して、再び彼女をひどく動揺させた。
2.35.37
नैव सा क्षुभ्यते देवी न च स्म परिदूयते।
न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा ॥ २.३५.३७ ॥
その時、王妃は動揺することも悲嘆することもなく、その顔色にも何の変化も見えなかった。