Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.37.1

महामात्रवचः श्रुत्वा रामो दशरथं तदा।
अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ॥ २.३७.१ ॥

罗摩听了大臣的话,深知礼节,于是谦恭地对十车王说了这番话。

2.37.2

त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।
किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ॥ २.३७.२ ॥

大王啊,我已舍弃享乐,在林中以野果为食,完全断绝了执着,对我而言,何须随从相送?

2.37.3

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।
रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ॥ २.३७.३ ॥

若有人舍弃最好的大象,心却系于马鞍的绳索,那么舍弃了上等象的人,对绳索的眷恋又有何益?

2.37.4

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।
सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे ॥ २.३७.४ ॥

同样地,善人中的最优者,世界之主啊!我要军队何用?我允许一切;只需为我取来树皮衣。

2.37.5

खनित्रपिटके चोभे समानयत गच्छत।
चतुर्दश वने वासं वर्षाणि वसतो मम ॥ २.३७.५ ॥

把锹和筐都拿来,去吧!我要在林中居住十四年。

2.37.6

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।
उवाच परिधत्स्वेति जनौघे निरपत्रपा ॥ २.३७.६ ॥

于是吉迦伊亲自取来树皮衣,对罗怙之后说:“穿上吧。”她在众人之中厚颜无耻地说了这话。

2.37.7

स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।
सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ॥ २.३७.७ ॥

这位人中之虎从吉迦伊手中接过树皮衣,脱去细软的衣裳,换上了苦行者的服饰。

2.37.8

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।
तापसाच्छादने चैव जग्राह पितुरग्रतः ॥ २.३७.८ ॥

罗什曼那也就在那里,在父亲面前脱去了自己华美的衣服,换上了苦行者的服饰。

2.37.9

अथात्मपरिधानार्थं सीता कौशेयवासिनी।
सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव ॥ २.३७.९ ॥

于是身着丝衣的悉多看见为自己准备的树皮衣,惊惶得如同斑鹿见到罗网。

2.37.10

सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।
कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा ॥ २.३७.१० ॥

吉祥相的耶那吉仿佛羞愧,心中极为悲伤,从吉迦伊手中接过那些吉祥草树皮衣。

2.37.11

अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।
गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ॥ २.३७.११ ॥

她含泪满眶,知法、明法,对如乾达婆王一般的丈夫这样说道。

2.37.13

कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः।
कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना।
तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ॥ २.३७.१३ ॥

“住在林中的仙人们是怎样系树皮衣的呢?”说着,耶那迦之女拿起一件树皮衣,放到颈项上,站在那里,手足无措,满面羞惭。

2.37.14

तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः।
चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ॥ २.३७.१४ ॥

持法者中最优秀的罗摩迅速走来,亲自将悉多的树皮衣系在她的丝绸衣之上。

2.37.15

रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।
अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम् ॥ २.३७.१५ ॥

女眷们在内宫中看见罗摩为悉多系上精美的树皮衣,便从眼中落下泪来。

2.37.16

ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्।
वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ॥ २.३७.१६ ॥

她们深感忧虑,对光辉灿烂的罗摩说:“孩子,这位高尚的女子不适合在森林中流放。”

2.37.17

पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।
तावद् दर्शनमस्या नः सफलं भवतु प्रभो ॥ २.३७.१७ ॥

你遵从父亲的吩咐前往荒寂的森林,主啊,愿我们能够看见她,使这次相见有所成就。

2.37.18

लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।
नेयमर्हति कल्याणि वस्तुं तापसवद् वने ॥ २.३७.१८ ॥

孩子,与作为伴侣的罗什曼那一同去森林吧。吉祥的女子啊,她不配像苦行者那样居住在森林里。

2.37.19

कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।
धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ॥ २.३७.१९ ॥

孩子,请满足我们的请求,让光彩照人的悉多留在这里。你虽常守法度,现在却不愿她留下。

2.37.20

तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।
बबन्धैव तथा चीरं सीतया तुल्यशीलया ॥ २.३७.२० ॥

罗摩听了这些妇人的话,便同样系上了树皮衣;品德相同的悉多也如此做了。

2.37.21

चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः।
निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ॥ २.३७.२१ ॥

悉多取了树皮衣时,国王的师尊婆悉吒含泪制止了悉多与吉迦伊,说出了这番话。

2.37.22

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।
वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि ॥ २.३७.२२ ॥

吉迦伊啊,你已越出常规,愚昧之人,玷污家族之辱!你欺骗了国王,便不再居于可信赖的地位了。

2.37.23

न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥ २.३७.२३ ॥

无德之人啊!王后悉多不该前往森林;悉多将坐上罗摩惯常的位置。

2.37.24

आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥ २.३७.२४ ॥

凡持家之人,妻子实为自我;视她为罗摩之自我,她将守护大地。

2.37.25

अथ यास्यति वैदेही वनं रामेण संगता।
वयमत्रानुयास्यामः पुरं चेदं गमिष्यति ॥ २.३७.२५ ॥

若毗提诃之女悉多与罗摩一同前往森林,我们便从此处追随他们,此城也将随之而去。

2.37.26

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।
सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ॥ २.३७.२६ ॥

边境守卫也将前往罗怙后裔与妻子所去之处;依赖他的国家,以及带着全部随从的城市,也都将前往。

2.37.27

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः।
वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम् ॥ २.३७.२७ ॥

婆罗多与设睹卢那也将身穿树皮衣、过着林居生活,跟随在长兄——迦古陀之裔身边,住在林中。

2.37.28

ततः शून्यां गतजनां वसुधां पादपैः सह।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥ २.३७.२८ ॥

那么,你这行为恶劣、站在百姓之害一边的人,就独自去统治这片人去地空的大地,与树木为伴吧。

2.37.29

न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः।
तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ॥ २.३७.२९ ॥

罗摩不为王之处,必不成为国家;罗摩所居住的那片林地,才会成为国家。

2.37.30

न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति।
त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः ॥ २.३७.३० ॥

婆罗多不愿统治父亲未曾赐予他的大地;若他确是国王之子,他愿意像儿子一样与你同住。

2.37.31

यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि।
पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति ॥ २.३७.३१ ॥

即使你从大地飞上天空,那通晓父系家族行为准则的他,也不会做出别的事。

2.37.32

तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।
लोके नहि स विद्येत यो न राममनुव्रतः ॥ २.३७.३२ ॥

因此你贪求儿子,做了令儿子不悦之事。世上没有不追随罗摩的人。

2.37.33

द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।
गच्छतः सह रामेण पादपांश्च तदुन्मुखान् ॥ २.३७.३३ ॥

吉迦伊,今天你就会看到,在罗摩随行时,走兽、猛兽、鹿和飞鸟,以及朝向它们的树木。

2.37.34

अथोत्तमान्याभरणानि देवि
देहि स्नुषायै व्यपनीय चीरम्।
न चीरमस्याः प्रविधीयतेति
न्यवारयत् तद् वसनं वसिष्ठः ॥ २.३७.३४ ॥

那么,王后啊,把上好的首饰给儿媳,把她的树皮衣脱去。『她不应当穿树皮衣』,婆罗门仙人伐悉瑟德禁止了那件衣服。

2.37.35

एकस्य रामस्य वने निवास-
स्त्वया वृतः केकयराजपुत्रि।
विभूषितेयं प्रतिकर्मनित्या
वसत्वरण्ये सह राघवेण ॥ २.३७.३५ ॥

迦迦耶王之女啊,你为罗摩选定的只有林中流放。愿这位始终侍奉、身着装饰的人,与罗怙之后裔一同住在林中。

2.37.36

यानैश्च मुख्यैः परिचारकैश्च
सुसंवृता गच्छतु राजपुत्री।
वस्त्रैश्च सर्वैः सहितैर्विधानै-
र्नेयं वृता ते वरसम्प्रदाने ॥ २.३७.३६ ॥

愿王女由上等车乘与侍从妥善护送而行,携带一切衣物与用度而去。赐予恩惠之时,你并未选定她。

2.37.37

तस्मिंस्तथा जल्पति विप्रमुख्ये
गुरौ नृपस्याप्रतिमप्रभावे।
नैव स्म सीता विनिवृत्तभावा
प्रियस्य भर्तुः प्रतिकारकामा ॥ २.३७.३७ ॥

当这位婆罗门中的上首、国王的师尊、威力无比的伐悉瑟德如此说话时,悉多心意并未改变,她一心想服侍her心爱的丈夫。