蚁垤《罗摩衍那》 · 篇 2.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.39.1
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।
समीक्ष्य सह भार्याभी राजा विगतचेतनः ॥ २.३९.१ ॥
国王听到罗摩的话,又看见他身着苦行者的服饰,便与妃嫔们一同失去了知觉。
2.39.2
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्।
न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २.३९.२ ॥
国王被悲痛折磨,没有看向罗访婆(罗摩),即使看见他,也心神烦乱而未作回应。
2.39.3
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः।
विललाप महाबाहू राममेवानुचिन्तयन् ॥ २.३९.३ ॥
国王片刻之间仿佛失去了知觉;悲痛之中,他心中只想着罗摩,于是哀哭起来。
2.39.4
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।
प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम् ॥ २.३९.४ ॥
我想,我过去一定曾使许多小牛离开它们的母亲,或伤害过生灵;因此这灾祸降临到了我身上。
2.39.5
न त्वेवानागते काले देहाच्च्यवति जीवितम्।
कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ २.३९.५ ॥
然而,时候未到,生命不会离开身体;虽然我被吉迦伊折磨,我的死亡却还未到来。
2.39.6
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्।
विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ २.३९.६ ॥
我看见我的儿子光辉如火,站在我面前,他已脱去华美的衣裳,披上了苦行者的服饰。
2.39.7
एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः।
स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ २.३९.७ ॥
这整个民众都因一个女人——凯凯伊——而受苦;她为了一己私利,竟借助这番诡计。
2.39.8
एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः।
रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः ॥ २.३९.८ ॥
他这样说完,泪水使他的感官不能自持,只说了一次“罗摩”,便再也无法说下去。
2.39.9
संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः।
नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ २.३९.९ ॥
片刻之后,国王恢复了神志,含泪的双眼望着苏曼特罗,说出了这番话。
2.39.10
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।
प्रापयैनं महाभागमितो जनपदात् परम् ॥ २.३९.१० ॥
用最好的马套上王车,前来;把这位大福之人送到这个国土之外去。
2.39.11
एवं मन्ये गुणवतां गुणानां फलमुच्यते।
पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् ॥ २.३९.११ ॥
我想,这大概就是有德之人所得的果报:善良而勇武的儿子,竟被父母放逐到森林里去。
2.39.12
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।
योजयित्वा ययौ तत्र रथमश्वैरलंकृतम् ॥ २.३९.१२ ॥
苏曼特罗领会了国王的话,迅速套好装饰着骏马的车,便前往那里去了。
2.39.13
तं रथं राजपुत्राय सूतः कनकभूषितम्।
आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ २.३९.१३ ॥
御者合掌对王子禀报,那辆饰以黄金的战车已套上良马,准备就绪。
2.39.14
राजा सत्वरमाहूय व्यापृतं वित्तसंचये।
उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः ॥ २.३९.१४ ॥
知晓时机与场合、处处坚定而清净的国王,迅速召来正忙于聚敛财富的人,对他说道。
2.39.15
वासांसि च वरार्हाणि भूषणानि महान्ति च।
वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय ॥ २.३९.१५ ॥
计算这些年份,迅速取来配得上最好之人的衣物与贵重饰物,给毗提诃(悉多)。
2.39.16
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।
प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत् ॥ २.३९.१६ ॥
人主如此吩咐,他便去往库房,将一切取来,立即交给了悉多。
2.39.17
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।
भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ २.३९.१७ ॥
出身高贵的毗提诃即将前往森林,便用那些色彩斑斓的饰物装点自己秀美的肢体。
2.39.18
व्यराजयत वैदेही वेश्म तत् सुविभूषिता।
उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ २.३९.१८ ॥
毗提诃盛装而立,在那殿中光彩照人,宛如按时升起的太阳之光照亮天空。
2.39.19
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।
अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ २.३९.१९ ॥
婆婆以双臂拥抱她,亲吻悲苦而举止失当的弥蒂莉的头,说出了这些话。
2.39.20
असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः।
भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २.३९.२० ॥
在这世上,女子虽常受亲人敬重,却不诚实;她们不尊重陷入厄运的丈夫。
2.39.21
एष स्वभावो नारीणामनुभूय पुरा सुखम्।
अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २.३९.२१ ॥
这是女子的本性:先前享过福,哪怕遇到一点小灾难,她们便变心,甚至抛弃丈夫。
2.39.22
असत्यशीला विकृता दुर्गा अहृदयाः सदा।
असत्यः पापसंकल्पाः क्षणमात्रविरागिणः ॥ २.३९.२२ ॥
她们性情虚伪、心地乖戾、难以捉摸,总是没有良心;不诚实、心怀恶念,转瞬之间便冷淡厌弃。
2.39.23
न कुलं न कृतं विद्या न दत्तं नापि संग्रहः।
स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ॥ २.३९.२३ ॥
家世、施予的恩惠、学识、给予的布施、积累的情谊,都无法留住女子的心;她们确实是心思无常的。
2.39.24
साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते।
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ २.३९.२४ ॥
然而对于持守德行、诚实与学识的贞节女子而言,最高的洁净只在丈夫一人;唯有他最为尊贵。
2.39.25
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम्।
तव देवसमस्त्वेष निर्धनः सधनोऽपि वा ॥ २.३९.२५ ॥
被流放到森林的你的儿子,你不可轻视他;他对你而言如同神明,无论贫富。
2.39.26
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।
कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता ॥ २.३९.२६ ॥
悉多理解了她那关乎法与义的话语,合掌站在婆婆面前,说道:
2.39.27
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्।
अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ २.३९.२७ ॥
尊敬的夫人,您所教导我的,我都会照做。我知道应当如何对待丈夫,而且我也曾听闻过。
2.39.28
न मामसज्जनेनार्या समानयितुमर्हति।
धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा ॥ २.३९.२८ ॥
尊敬的夫人,任何恶人都无法使我与他同流。正如光辉不能离开月亮,我也不能背离法。
2.39.29
नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः।
नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ २.३९.२९ ॥
没有弦的琵琶不会弹响,没有轮的车子不存在;没有丈夫的女人不能幸福地兴旺,即使她是一百个儿子的母亲。
2.39.30
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ २.३९.३० ॥
父亲所给有限,兄长所给有限,儿子所给也有限;然而,哪个女人会不尊敬那赐予无限的丈夫呢?
2.39.31
साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा।
आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम् ॥ २.३९.३१ ॥
我如今处境如此,身为优秀之人,熟知上下之法。尊贵的夫人啊,我怎敢轻慢此事?对女子而言,丈夫便是神明。
2.39.32
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्।
शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम् ॥ २.३९.३२ ॥
听到悉多那些触动人心的话语,心地纯净的憍萨利亚忽然落泪,那泪水既出于悲伤,也出于喜悦。
2.39.33
तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम्।
रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ २.३९.३३ ॥
罗摩合掌注视着她,她在众母之中备受尊敬。至高正法之心的罗摩对母亲说了这番话。
2.39.34
अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम।
क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति ॥ २.३९.३४ ॥
母亲啊,不要悲伤;您将见到我的父亲。这次林中流放的终结也会很快到来。
2.39.35
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।
समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम् ॥ २.३९.३५ ॥
在你入睡之间,九年又五年将会过去;那时我完全归来,你将在此见到被好友环绕的我。
2.39.36
एतावदभिनीतार्थमुक्त्वा स जननीं वचः।
त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः ॥ २.३९.३६ ॥
罗摩对母亲说完这番话、阐明其中的含义后,环视了他的所有母亲,共有三百五十位。
2.39.37
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः।
धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ २.३९.३७ ॥
十车王之子同样以合掌之礼,向那些忧伤的母亲说了这番合于法的话。
2.39.38
संवासात् परुषं किंचिदज्ञानादपि यत् कृतम्।
तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः ॥ २.३९.३८ ॥
若因同住或出于无知,我曾对你们有过什么严厉之事,请你们原谅我;我恳请你们所有人。
2.39.39
वचनं राघवस्यैतद् धर्मयुक्तं समाहितम्।
शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः ॥ २.३९.३९ ॥
那些心被忧伤所伤的女子们,都听到了罗怙之子这番合于法、沉稳的话。
2.39.40
जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः।
मानवेन्द्रस्य भार्याणामेवं वदति राघवे ॥ २.३९.४० ॥
罗怙在如此说话时,那些国王的妻子们发出了如鹤鸟鸣叫般的哀号声。
2.39.41
मुरजपणवमेघघोषवद्
दशरथवेश्म बभूव यत् पुरा।
विलपितपरिदेवनाकुलं
व्यसनगतं तदभूत् सुदुःखितम् ॥ २.३९.४१ ॥
昔日如鼓、钹与雷云般轰鸣的十车王宫殿,如今充满哀号与悲叹,陷入灾难,变得极其悲伤。