蚁垤《罗摩衍那》 · 篇 2.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.4.1
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ॥ २.४.१ ॥
百姓离去之后,国王再与大臣们商议,于是这位明于决断的君王作出了决定。
2.4.2
श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः।
रामो राजीवपत्राक्षो युवराज इति प्रभुः ॥ २.४.२ ॥
明日正是吉祥的普舍星日;明日我的儿子莲花目的罗摩便应被立为太子,国王如是说。
2.4.3
अथान्तर्गृहमाविश्य राजा दशरथस्तदा।
सूतमामन्त्रयामास रामं पुनरिहानय ॥ २.४.३ ॥
于是国王十车王进入内宫,召来御者说:“再把罗摩带到这里来。”
2.4.4
प्रतिगृह्य तु तद्वाक्यं सूतः पुनरुपाययौ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ २.४.४ ॥
御者领受了这道命令,便迅速返回罗摩的住所,要再次把罗摩请来。
2.4.5
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः।
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ २.४.५ ॥
守门人禀告罗摩说御者又来了;罗摩听闻后,因他的到来而心生疑虑。
2.4.6
प्रवेश्य चैनं त्वरितो रामो वचनमब्रवीत्।
यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ॥ २.४.६ ॥
罗摩请他进来,急切地说:“你再来的目的是什么,请完整地告诉我。”
2.4.7
तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति।
श्रुत्वा प्रमाणं तत्र त्वं गमनायेतराय वा ॥ २.४.७ ॥
于是御者对他说:「国王想见你。你听了之后,自己决定去还是不去。」
2.4.8
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ २.४.८ ॥
他再次前往王宫,去拜见人主。
2.4.9
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।
प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ २.४.९ ॥
达舍罗陀王听说罗摩已到,想说一件至上的喜讯,便让他进入宫中。
2.4.10
प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥ २.४.१० ॥
罗怙家的光辉者一踏入宫殿,便远远望见父亲,俯身行礼,双手合十而立。
2.4.11
प्रणमन्तं तमुत्थाप्य सम्परिष्वज्य भूमिपः।
प्रदिश्य चासनं चास्मै रामं च पुनरब्रवीत् ॥ २.४.११ ॥
国王扶起叩拜的他,紧紧拥抱,指定座位给他,然后又对罗摩说道。
2.4.12
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा यथेप्सिताः।
अन्नवद्भिः क्रतुशतैर्यथेष्टं भूरिदक्षिणैः ॥ २.४.१२ ॥
"罗摩,我已年老,寿命已长。我随心享受了种种乐事,并以充足的食物和丰厚的布施,按自己的心愿举行了数百次祭祀。"
2.4.13
जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।
दत्तमिष्टमधीतं च मया पुरुषसत्तम ॥ २.४.१३ ॥
人中最优者啊!今日我在世间得到了你这位我所钟爱、无与伦比的儿子。我布施过,举行过祭祀,也研习过吠陀。
2.4.14
अनुभूतानि चेष्टानि मया वीर सुखान्यपि।
देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽऽत्मनः ॥ २.४.१४ ॥
英雄啊!我在所行之事中也享受过欢乐。我已还清了对诸神、仙人、祖先和婆罗门的债务,对自己的债务也是如此。
2.4.15
न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ २.४.१५ ॥
除了为你举行加冕之外,我已没有任何职责要尽。因此,我所要告诉你的,你应当为我去做。
2.4.16
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ॥ २.४.१६ ॥
今日所有臣民都希望你成为人间之主。因此,我的儿子,我将为你举行太子的灌顶。
2.4.17
अपि चाद्याशुभान् राम स्वप्नान् पश्यामि राघव।
सनिर्घाता दिवोल्काश्च पतन्ति हि महास्वनाः ॥ २.४.१७ ॥
还有,罗摩啊,罗怙之裔啊,今日我看见不祥的梦;伴随着霹雳,流星从天空坠落,发出巨响。
2.4.18
अवष्टब्धं च मे राम नक्षत्रं दारुणग्रहैः।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ २.४.१८ ॥
罗摩啊,我的本命星宿已被凶恶的行星所侵扰;占星师宣告,太阳、火星与罗睺正在逼迫它。
2.4.19
प्रायेण च निमित्तानामीदृशानां समुद्भवे।
राजा हि मृत्युमाप्नोति घोरां चापदमृच्छति ॥ २.४.१९ ॥
通常在此类凶兆出现时,君王会遭遇死亡,陷入可怕的灾难。
2.4.20
तद् यावदेव मे चेतो न विमुह्यति राघव।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २.४.२० ॥
因此,罗怙之子啊,趁我的心尚未迷乱,你就应当即刻受灌顶;因为众生的心意是善变的。
2.4.21
अद्य चन्द्रोऽभ्युपगमत् पुष्यात् पूर्वं पुनर्वसुम्।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ २.४.२१ ॥
今日月亮已先于补纳婆苏而趋近补沙星宿;明日占星者必会宣告补沙星宿的吉合。
2.4.22
तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्।
श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ २.४.२२ ॥
那时便在补沙星宿下受灌顶吧;我的心似乎催促我快些。啊,焚灭敌人者,明日我便将你立为太子。
2.4.23
तस्मात् त्वयाद्यप्रभृति निशेयं नियतात्मना।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २.४.२३ ॥
因此,从今日起,你当以克制的心,与你的妻子一同,卧于吉祥草之席,禁食度过此夜。
2.4.24
सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २.४.२४ ॥
愿你的朋友们小心警戒,今日从四面八方护卫你;因为这样的大事之中,常会生出许多阻碍。
2.4.25
विप्रोषितश्च भरतो यावदेव पुरादितः।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २.४.२५ ॥
只要婆罗多远离都城,此刻便是你灌顶即位的恰当时机,这是我的看法。
2.4.26
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २.४.२६ ॥
的确,你的弟弟婆罗多恪守善人的品行:他追随兄长,心怀正法,慈悲为怀,克制诸根。
2.4.27
किं नु चित्तं मनुष्याणामनित्यमिति मे मतम्।
सतां च धर्मनित्यानां कृतशोभि च राघव ॥ २.४.२७ ॥
罗怙之子啊,我认为人心无常,即使是恒守正法、以善行庄严自身的善人之心,亦复如此。
2.4.28
इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने।
व्रजेति रामः पितरमभिवाद्याभ्ययाद् गृहम् ॥ २.४.२८ ॥
听到这番话,并获准于明日举行灌顶,罗摩向父亲行礼,父亲说“去吧”,他便回到了自己的住所。
2.4.29
प्रविश्य चात्मनो वेश्म राज्ञाऽऽदिष्टेऽभिषेचने।
तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ ॥ २.४.२९ ॥
罗摩回到自己的住所,国王既已下令灌顶,他便立刻出来,前往母亲的内宫。
2.4.30
तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्।
वाग्यतां देवतागारे ददर्शायाचतीं श्रियम् ॥ २.४.३० ॥
罗摩在那里看见母亲身着丝衣,沉默而庄重,在神庙中俯身,祈求吉祥(室利)。
2.4.31
प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा।
सीता चानयिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ २.४.३१ ॥
须弥多罗已先行到达那里,罗什曼那亦然;悉多也被请来了,因听到罗摩受灌顶的喜讯。
2.4.32
तस्मिन् कालेऽपि कौसल्या तस्थावामीलितेक्षणा।
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥ २.४.३२ ॥
那时,考莎厘亚也闭着眼睛站立着,由须弥多罗、悉多和罗什曼那服侍着。
2.4.33
श्रुत्वा पुष्ये च पुत्रस्य यौवराज्येऽभिषेचनम्।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ २.४.३३ ॥
听闻儿子在补湿星宿之日受封为太子,她便以调息专注冥想至上神补陀罗那。
2.4.34
तथा सनियमामेव सोऽभिगम्याभिवाद्य च।
उवाच वचनं रामो हर्षयंस्तामिदं वरम् ॥ २.४.३४ ॥
罗摩走近正在守持戒律的母亲,行礼之后,以喜悦之语对她说了这番美好的话。
2.4.35
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि।
भविता श्वोऽभिषेको मे यथा मे शासनं पितुः ॥ २.४.३५ ॥
母亲,父亲已任命我担负护佑百姓的职责;依父亲的命令,明天将为我举行灌顶。
2.4.36
सीतयाप्युपवस्तव्या रजनीयं मया सह।
एवमुक्तमुपाध्यायैः स हि मामुक्तवान् पिता ॥ २.४.३६ ॥
今夜我也应与悉多一同斋戒;师长们如此说,父亲也亲口对我这样说了。
2.4.37
यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने।
तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ २.४.३७ ॥
凡适于明日灌顶的吉祥之事,今日都为我和毗提诃(悉多)去办理吧。
2.4.38
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम्।
हर्षबाष्पाकुलं वाक्यमिदं राममभाषत ॥ २.४.३८ ॥
考莎厘雅闻此,久所期盼,喜极而泣,哽咽着对罗摩说出了这些话。
2.4.39
वत्स राम चिरं जीव हतास्ते परिपन्थिनः।
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ २.४.३९ ॥
爱子罗摩啊,愿你长寿,愿你的敌人被消灭。你既蒙吉祥,请使我的亲族和苏弥特拉欢喜。
2.4.40
कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक।
येन त्वया दशरथो गुणैराराधितः पिता ॥ २.४.४० ॥
啊!我在吉祥的星宿之下生下了你,孩子,你以德行使父亲十车王欢喜。
2.4.41
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे।
येयमिक्ष्वाकुराजश्रीः पुत्र त्वां संश्रयिष्यति ॥ २.४.४१ ॥
啊!我的忍耐没有白费!莲花眼的孩子,伊刹婆迦王朝的这份王权光华将投靠于你。
2.4.42
इत्येवमुक्तो मात्रा तु रामो भ्रातरमब्रवीत्।
प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥ २.४.४२ ॥
母亲如此说后,罗摩看着合掌恭敬而坐的弟弟,仿佛微笑着对他说道。
2.4.43
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्।
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ २.४.४३ ॥
罗什曼那啊,你与我一同统治这片大地吧。你是我的第二个内在自我,吉祥女神(室利)now就在你面前。
2.4.44
सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानिच।
जीवितं चापि राज्यं च त्वदर्थमभिकामये ॥ २.४.४४ ॥
苏弥special之子啊,你应享受王权之果所带来的种种心愿之乐。为了你,我甚至期望我的生命与王国。
2.4.45
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च।
अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम् ॥ २.४.४५ ॥
罗摩对罗什曼那如此说罢,向两位母亲行礼,辞别悉多,便回到了自己的住所。