蚁垤《罗摩衍那》 · 篇 2.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.44.1
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्।
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ २.४४.१ ॥
当最优秀的女子考莎雅如此哀悼时,安于法道的须弥多罗说出了这番合乎法道的话。
2.44.2
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः।
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २.४४.२ ॥
尊贵的夫人啊,你的儿子是具备良善品德的至高男子。你为何如此悲苦地哀号哭泣?
2.44.3
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ २.४४.३ ॥
尊贵的夫人啊,你那大力的儿子舍弃王位而去,正确地侍奉他那位崇高而诚实的父亲。
2.44.4
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये।
रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ २.४४.४ ॥
至上的罗摩安住于法道,贤者总是正确地践行此法,它在死后结出果实,因此永远不该为他悲伤。
2.44.5
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ २.४४.५ ॥
无瑕的罗什曼那对他始终保持最高的品行;他对一切众生都怀有慈悲,这正是那位崇高者所得的福报。
2.44.6
अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ २.४४.६ ॥
她虽习惯于安逸,却确实知道林居的苦楚,然而毗提诃公主仍追随你那位正直的儿子。
2.44.7
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः।
धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ २.४४.७ ॥
那位使荣耀之旗遍扬世间的主宰,为何未曾眷顾你那持守真实誓愿、本身即是法的爱子?
2.44.8
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्।
न गात्रमंशुभिः सूर्यः संतापयितुमर्हति ॥ २.४४.८ ॥
太阳清楚地知道罗摩的纯洁与至高的伟大,因而不敢以光线灼烧他的身体。
2.44.9
शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः।
राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ २.४४.९ ॥
无论何时,从林中吹来的温和宜人之风,冷暖得宜,将侍奉罗ghava。
2.44.10
शयानमनघं रात्रौ पितेवाभिपरिष्वजन्।
घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति ॥ २.४४.१० ॥
夜里入眠的无瑕罗摩,如父亲般拥抱他,驱散暑热的清凉月亮轻抚他,必使他欢喜。
2.44.11
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे।
दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ २.४४.११ ॥
梵天赐予神圣武器的那位大力者,在战场上看到提弥德瓦阇之子、檀那婆之主被杀。
2.44.12
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः।
असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते ॥ २.४४.१२ ॥
那位英勇的人中之杰,依凭自己双臂之力,无所畏惧,将在森林中居住,如同住在家中一般。
2.44.13
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः।
कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ २.४४.१३ ॥
凡进入其箭程之内的敌人都会灭亡,在他的统治之下,大地怎会不安稳呢?
2.44.14
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता।
निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति ॥ २.४४.१४ ॥
罗摩的吉祥、勇武与善良的品性,将在他结束林中居住之后,使他迅速重新获得自己的王国。
2.44.15
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः।
श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा ॥ २.४४.१५ ॥
他将成为太阳中的太阳、火中的火、主宰中的主宰;吉祥中的至上吉祥,荣耀中的荣耀,忍耐中的忍耐。
2.44.16
दैवतं देवतानां च भूतानां भूतसत्तमः।
तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे ॥ २.४४.१६ ॥
他是诸神的神明,是众生中最好的。女神啊,无论在森林还是城市,他身上有什么缺点呢?
2.44.17
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः।
क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते ॥ २.४४.१७ ॥
与大地、毗提诃(悉多)和吉祥天女这三者一同,人中之雄罗摩很快将被册立。
2.44.18
दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम्।
अयोध्यायां जनः सर्वः शोकवेगसमाहतः ॥ २.४४.१८ ॥
看到他离去,阿逾陀的所有人都被悲痛的洪流所击中,流下由悲伤而生的眼泪。
2.44.19
कुशचीरधरं वीरं गच्छन्तमपराजितम्।
सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम् ॥ २.४४.१९ ॥
身着吉祥草与树皮衣的英雄、不败者前行,吉祥天女如悉多般随他同行。对他而言,还有什么难得之物呢?
2.44.20
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्।
लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २.४४.२० ॥
持弓者中最优秀的罗什曼那亲自手持箭、剑与兵器走在他的前面。对他而言,还有什么难得之物呢?
2.44.21
निवृत्तवनवासं तं द्रष्टासि पुनरागतम्।
जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥ २.४४.२१ ॥
你将再次见到他,结束林中流放而归来。王后啊,舍弃忧伤与迷惑;我对你说的是真实。
2.44.22
शिरसा चरणावेतौ वन्दमानमनिन्दिते।
पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम् ॥ २.४४.२२ ॥
无瑕的女子啊,你将再次看见儿子以头礼拜这双足,吉祥的女子啊,如同升起的明月。
2.44.23
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्।
समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम् ॥ २.४४.२३ ॥
你将看见他再次进入,以盛大的荣耀受灌顶,你很快就会从眼中流出喜悦的泪水。
2.44.24
मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम्।
क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥ २.४४.२४ ॥
王后啊,不要悲伤;罗摩身上看不到任何不吉或苦难。你很快就会与悉多和罗什曼那一同见到儿子。
2.44.25
त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे।
कमिदानीमिदं देवि करोषि हृदि विक्लवम् ॥ २.४४.२५ ॥
无瑕的人啊,你本应安慰这整个民众。王后啊,你为何如今在心中怀有这般忧乱?
2.44.26
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः।
नहि रामात् परो लोके विद्यते सत्पथे स्थितः ॥ २.४४.२६ ॥
王后啊,你的儿子是罗怙婆(罗摩),你不应当悲伤。在这世间,没有谁比站在正道上的罗摩更高尚。
2.44.27
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्।
मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी ॥ २.४४.२७ ॥
看到你的儿子与朋友们恭敬地行礼,你很快就会洒下喜悦的泪水,如同雨季里的云线降下雨水。
2.44.28
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः।
कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ २.४४.२८ ॥
你那赐予恩惠的儿子已迅速重返阿瑜陀,他将以柔软而丰满的双手按摩你的双足。
2.44.29
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्।
मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम् ॥ २.४४.२९ ॥
你那英勇的儿子与朋友们一起行礼致敬,你将以喜悦的泪水浇灌他,如同云层浇灌高山。
2.44.30
आश्वासयन्ती विविधैश्च वाक्यै-
र्वाक्योपचारे कुशलानवद्या।
रामस्य तां मातरमेवमुक्त्वा
देवी सुमित्रा विरराम रामा ॥ २.४४.३० ॥
以种种言辞安慰罗摩之母,善于言辞而无瑕的王后苏弥陀,如此对罗摩之母说完,便沉默了。
2.44.31
निशम्य तल्लक्ष्मणमातृवाक्यं
रामस्य मातुर्नरदेवपत्न्याः।
सद्यः शरीरे विननाश शोकः
शरद्गतो मेघ इवाल्पतोयः ॥ २.४४.३१ ॥
闻听罗什曼那之母的话语,罗摩之母、王后的忧愁立刻从身上消散,如秋日少水的云彩消散一般。