Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.45.1

अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।
अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ २.४५.१ ॥

敬爱伟大而真正勇武的罗摩的人们,在他动身前往林中流放时跟随在他身后。

2.45.2

निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि।
नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २.४५.२ ॥

国王被迫折返,但出于朋友之义,他们竟不肯回头,依旧跟随罗摩的车驾。

2.45.3

अयोध्यानिलयानां हि पुरुषाणां महायशाः।
बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः ॥ २.४५.३ ॥

对居住在阿逾陀的人们来说,大名远扬的罗摩具备诸般美德,如满月般令人喜爱。

2.45.4

स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा।
कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ २.४५.४ ॥

尽管百姓恳求,俱卢族的罗摩仍为践行父亲的誓言,径直走向森林。

2.45.5

अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।
उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव ॥ २.४५.५ ॥

罗摩满怀深情地注视着他们,仿佛用眼睛饮尽他们,像对待自己的子女一样亲切地对百姓说话。

2.45.6

या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।
मत्प्रियार्थं विशेषेण भरते सा विधीयताम् ॥ २.४५.६ ॥

阿逾陀居民对我的深厚情谊与尊敬,为了我所珍视的人,请特别施于婆罗多吧。

2.45.7

स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।
करिष्यति यथावद् वः प्रियाणि च हितानि च ॥ २.४५.७ ॥

他品行吉祥,是增添吉祢衣欢喜的人。他会按时为你们做令人喜悦、有益的事。

2.45.8

ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।
अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ २.४५.८ ॥

他智慧年长而年纪轻,性情温和,具备勇力与德行。他将是你们相称的主君,能驱除恐惧。

2.45.9

स हि राजगुणैर्युक्तो युवराजः समीक्षितः।
अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ २.४५.९ ॥

他具备王者之德,已被选为太子。即便如我这样的智者也说,你们应当遵从主君的命令。

2.45.10

न संतप्येद् यथा चासौ वनवासं गते मयि।
महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ २.४५.१० ॥

我去林中流放之后,你们应当使他(大王)不致悲伤;出于想让我欢喜的心愿,你们也应当这样照顾大王。

2.45.11

यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्।
तथा तथा प्रकृतयो रामं पतिमकामयन् ॥ २.४५.११ ॥

十车王之子罗摩越是唯依法而行,民众就越是希望罗摩成为他们的主君。

2.45.12

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।
चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम् ॥ २.४५.१२ ॥

罗摩被泪水遮掩,神情哀戚,与苏弥德罗一同前行,仿佛在牵引那些被其德行所缚的城中居民。

2.45.13

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।
वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ २.४५.१३ ॥

那些在知识、年龄与气力上皆已年高的再生者,因年迈而头颤,自远处说出了这番话。

2.45.14

वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः।
निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ॥ २.४५.१४ ॥

哦,载着罗摩的迅捷良马啊!回去吧,不可前行;要对你们的主人怀有善意。

2.45.15

कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।
यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः ॥ २.४५.१५ ॥

马啊,凡有耳之物皆能听闻,尤其是你们;所以请回去吧,我们的恳求已经告知于你们。

2.45.16

धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।
उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम् ॥ २.४५.१६ ॥

依法,他是心灵纯净的英雄,持守吉祥而坚定的誓愿;你们的主人当被乘载,而不该被驱逐出城、送往森林。

2.45.17

एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।
अवेक्ष्य सहसा रामो रथादवततार ह ॥ २.४५.१७ ॥

罗摩见那些老年婆罗门悲苦哀叹,便突然从车上下来。

2.45.18

पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।
संनिकृष्टपदन्यासो रामो वनपरायणः ॥ २.४५.१८ ॥

于是罗摩与悉多、罗什曼那一同步行,步履相近,心意专注于森林。

2.45.19

द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः।
न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ २.४५.१९ ॥

爱好良善品行的罗摩怀着悲悯之眼,看着那些徒步的婆罗门,无法乘车将他们抛下。

2.45.20

गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः।
ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥ २.४५.२० ॥

婆罗门们看到罗摩离去,心中惊慌,极为悲伤,便对罗摩说了这些话。

2.45.21

ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति।
द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी ॥ २.४५.२१ ॥

你敬重婆罗门,整个婆罗门的威德都跟随着你;愿那些被婆罗门扛在肩上的圣火也跟随你。

2.45.22

वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः।
पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये ॥ २.४५.२२ ॥

请看我们这些从婆阇羯伯耶祭祀中产生的伞盖,它们像雨季末的云朵一样跟随在你身后。

2.45.23

अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते।
एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः ॥ २.४५.२३ ॥

你没有伞盖,被阳光炙烤,我们将用这些来自婆阇羯伯耶祭祀的伞盖为你遮荫。

2.45.24

या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।
त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २.४५.२४ ॥

孩子,我们的心一直遵循吠陀的咒语,如今为了你,却变得要追随林中的流放了。

2.45.25

हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्।
वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २.४५.२५ ॥

住在我们心中的吠陀是我们至高的财富;而凭借良好品行而受到守护的妻子,也将留在家中。

2.45.26

पुनर्न निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः।
त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम् ॥ २.४५.२६ ॥

关于你的离去,不应再另作决定;你的善念是向着法的。立于法道之人,又会有什么害处呢?

2.45.27

याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।
शिरोभिर्निभृताचार महीपतनपांसुलैः ॥ २.४५.२७ ॥

我们恳求你回来——以白如天鹅的白发之头,啊,行为克制之人,以及因跪地而沾满尘土的头颅。

2.45.28

बहूनां वितता यज्ञा द्विजानां य इहागताः।
तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ २.४५.२८ ॥

此地来了许多再生族人举行的盛大祭祀;亲爱的孩子,它们的完成取决于你的归来。

2.45.29

भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च।
याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय ॥ २.४५.२९ ॥

此地一切有动与不动的生灵都怀有虔敬;当它们恳求时,你应向那些虔诚的人展示你的虔敬。

2.45.30

अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।
उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ २.४५.३० ॥

它们无力跟随你,因强风而高高摇摆,几欲连根拔起,仿佛在哀号。

2.45.31

निश्चेष्टाहारसंचारा वृक्षैकस्थाननिश्चिताः।
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥ २.४५.३१ ॥

它们静止不动,放弃了觅食与飞翔,各自停在一棵树上,连鸟儿也向那位怜悯一切众生的人祈求。

2.45.32

एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।
ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ २.४५.३२ ॥

当那些鸟儿这样哭喊着转身返回时,那里的黑暗仿佛在阻拦罗ghava。

2.45.33

ततः सुमन्त्रोऽपि रथाद् विमुच्य
श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।
पीतोदकांस्तोयपरिप्लुताङ्गा-
नचारयद् वै तमसाविदूरे ॥ २.४५.३३ ॥

于是苏曼特罗也从车上解下疲惫的马匹,迅速将它们调转方向,饮水,用水洗净身体,并让它们在离黑暗不远处吃草。