Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 2.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.5.1

संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने।
पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ २.५.१ ॥

明日行われる灌頂について羅摩に指示したのち、王は祭官ヴァシシュタを呼び、このように言った。

2.5.2

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन।
श्रेयसे राज्यलाभाय वध्वा सह यतव्रत ॥ २.५.२ ॥

行きなさい、苦行を宝とする人よ。今日、カークツトゥ族の羅摩に妻とともに断食させなさい。繁栄と王位獲得のために、誓いに堅い人よ。

2.5.3

तथेति च स राजानमुक्त्वा वेदविदां वरः।
स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ २.५.३ ॥

「そのとおりにしましょう」と王に告げ、ヴェーダに通じた者の中で最もすぐれた尊きヴァシシュタ自身が、羅摩の住まいへ向かった。

2.5.4

उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम्।
ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः ॥ २.५.४ ॥

真言に通じ、真言の術に熟達した英雄羅摩に断食をさせるため、誓いを固く守る人は、馬を繋いだ優れた梵の戦車に乗った。

2.5.5

स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्।
तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ २.५.५ ॥

白い雲の塊のように輝く羅摩の住まいに着くと、聖仙の中で最もすぐれた人は、車に乗ったまま三つの中庭を通って入っていった。

2.5.6

तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमम्।
मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥ २.५.६ ॥

来られた聖仙を敬うため、罗摩はあたかも急ぎ、慌てるように、住まいから出て行った。ふさわしい敬意を捧げようとして。

2.5.7

अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः।
ततोऽवतारयामास परिगृह्य रथात् स्वयम् ॥ २.५.७ ॥

そこでラーマは急ぎ足で賢者の車のそばへ行き、自ら彼を支えて車から降ろさせた。

2.5.8

स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च।
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥ २.५.८ ॥

家の祭司はラーマが謙虚なのを見て、彼と語らい、喜ばせ、愛されるべきラーマを喜ばせながら、このように言った。

2.5.9

प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि।
उपवासं भवानद्य करोतु सह सीतया ॥ २.५.९ ॥

ラーマよ、あなたの父は喜んでいる。あなたは王国を得るからだ。今日、シーターとともに断食を守りなさい。

2.5.10

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ २.५.१० ॥

明朝、あなたの父である人主ダシャラタは、ナフシャがヤヤーティにしたように、愛情をもってあなたを皇太子に灌頂するでしょう。

2.5.11

इत्युक्त्वा स तदा राममुपवासं यतव्रतः।
मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः ॥ २.५.११ ॥

こう言うと、その清浄で誓いに堅固な司祭は、マントラに従って、ラーマをヴァイデーヒーのシーターとともに断食させた。

2.5.12

ततो यथावद् रामेण स राज्ञो गुरुरर्चितः।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ २.५.१२ ॥

そこでラーマによって正しく敬われた王の師は、カクトゥスタ族のラーマに別れを告げ、ラーマの住居から去った。

2.5.13

सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः।
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ २.५.१३ ॥

そこでは、穏やかに語る友人たちと共に座していたラーマもまた彼らに敬われ、やがて皆に別れを告げて内へ入った。

2.5.14

हृष्टनारीनरयुतं रामवेश्म तदा बभौ।
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ २.५.१४ ॥

そのとき、喜びに満ちた男女で溢れたラーマの館は、酔った鳥の群れと咲き誇る蓮の花をもつ湖のように輝いた。

2.5.15

स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्।
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ २.५.१५ ॥

王宮に似たラーマの館から出たヴァシシュタは、人々で埋め尽くされた道を目にした。

2.5.16

वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।
बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ॥ २.५.१६ ॥

アヨーディヤーの王道は四方とも群れをなす人々で埋まって狭くなり、好奇心の強い人々に取り囲まれた。

2.5.17

जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा।
बभूव राजमार्गस्य सागरस्येव निःस्वनः ॥ २.५.१७ ॥

群衆の波が打ち合う歓喜の声に包まれ、王道の喧騒はそのとき大海のうなりのようになった。

2.5.18

सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी।
आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा ॥ २.५.१८ ॥

その日、アヨーディヤーの通りは水が打たれ掃き清められ、花環で飾られ、高くそびえる家々には旗がかかげられていた。

2.5.19

तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः।
रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः ॥ २.५.१९ ॥

その時、女性と子供たちで満ちたアヨーディヤーの人々は、太陽の昇りを待つように、ラーマの即位を切望していた。

2.5.20

प्रजालंकारभूतं च जनस्यानन्दवर्धनम्।
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २.५.२० ॥

民の飾りであり、人々の喜びを増すアヨーディヤーの大祭を、人々は見たくてたまらなかった。

2.5.21

एवं तज्जनसम्बाधं राजमार्गं पुरोहितः।
व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ २.५.२१ ॥

こうして祭官は人で溢れる王道を、群衆を分けるようにゆっくりと王宮へ向かった。

2.5.22

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २.५.२२ ॥

白い雲の峰のような宮殿に登り、ブリハスパティがインドラに会うように、王と会見した。

2.5.23

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।
पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत् ॥ २.५.२३ ॥

彼の到着を見て、王は王座を離れ、自分の思いどおりに事が成されたかを尋ね、彼は成就したと報告した。

2.5.24

तेन चैव तदा तुल्यं सहासीनाः सभासदः।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २.५.२४ ॥

その時、共に座していた会議の人々も、彼とともに席から立ち上がり、祭官を敬った。

2.5.25

गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्।
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २.५.२५ ॥

師の許しを得て、王はその群衆を解散させ、獅子が山の洞窟に入るように内宮へ入った。

2.5.26

तदग्र्यवेषप्रमदाजनाकुलं
महेन्द्रवेश्मप्रतिमं निवेशनम्।
व्यदीपयंश्चारु विवेश पार्थिवः
शशीव तारागणसंकुलं नभः ॥ २.५.२६ ॥

最上の装いの女性たちに満ち、インドラの館に似たその住まいへ、王は美しく輝かせながら入った。星々の群れで満ちた空に月が入るように。