蚁垤《罗摩衍那》 · 篇 2.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.80.1
अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः ।
स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥ २.८०.१ ॥
随后,熟悉地形、精通测绳之术的人,专心本职的勇士,挖掘者和操作器械者也都前行。
2.80.2
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः ।
तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥ २.८०.२ ॥
监督工程的总工匠、精通器械的人、木匠、修路者和伐木工也都前行。
2.80.3
कूप काराः सुधा कारा वम्श कर्म कृतः तथा ।
समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥ २.८०.३ ॥
挖井者、涂灰抹泥者、做竹器者以及能干的检查者也都前行。
2.80.4
स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् ।
अशोभत महा वेगः सागरस्य इव पर्वणि ॥ २.८०.४ ॥
那庞大的人群欢欣地奔向那个地方,以巨大的气势闪耀,如同满月潮涨时的大海。
2.80.5
ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः ।
करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥ २.८०.५ ॥
他们依次轮到自己的职守,精通修路之术,携带各式器具,走在前面出发了。
2.80.6
लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च ।
जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥ २.८०.६ ॥
藤蔓、灌木丛、树桩与石块,那些人一并清除,砍伐各种树木,开辟出道路。
2.80.7
अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् ।
केचित् कुठारैः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥ २.८०.७ ॥
在没有树木的地方,有人种树;有人则用斧头、凿子和镰刀在这里那里砍伐。
2.80.8
अपरे वीरण स्तम्बान् बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥ २.८०.८ ॥
另有一些极为强壮的人拔掉了维罗那草丛,并在各处平整了险峻之地和崎岖的地面。
2.80.9
अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् ।
निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥ २.८०.९ ॥
另一些人用泥土填平了水井和宽大的洼坑,还有人将四周低洼之处整平。
2.80.10
बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा ।
बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥ २.८०.१० ॥
于是人们捆绑应当捆绑的,彻底碾碎应当碾碎的,打破应当打破的——在那些地方,他们都这样做。
2.80.11
अचिरेण एव कालेन परिवाहान् बहु उदकान् ।
चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥ २.८०.११ ॥
不久之间,他们修建了许多形状各异、能输送大量水流的水道,宛如大海一般。
2.80.12
निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥ २.८०.१२ ॥
在无水之地,他们让人挖掘了许多种类的优良水井,并以台座(vedikā)加以装饰。
2.80.13
ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः ।
मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥ २.८०.१३ ॥
那条路铺着灰泥地面,树木盛开,回荡着醉鸟的鸣叫,并以旗幡装饰。
2.80.14
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः ।
बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥ २.८०.१४ ॥
洒着檀香水,装饰着各色花朵,军队的道路光彩夺目,宛如通往天界的道路。
2.80.15
आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः ।
रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥ २.८०.१५ ॥
下令之后,依照命令任命的官员被安置在风景优美、盛产甘甜果实的地方。
2.80.16
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः ।
भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥ २.८०.१६ ॥
他们又用饰物装点了为大德婆罗多选定的营地,它本身就像一件饰物般光彩夺目。
2.80.17
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥ २.८०.१७ ॥
在吉祥的星宿与吉时,懂得此道的人为大德婆罗多设立了营地。
2.80.18
बहु पाम्सु चयाः च अपि परिखा परिवारिताः ।
तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥ २.८०.१८ ॥
营地四周有许多土堆和壕沟;如因陀罗之闩般的柱子与精美的门楼使其增色。
2.80.19
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः ।
पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥ २.८०.१९ ॥
所有大道皆以连绵的宫殿相接,环绕着楼台与城墙,饰以旗幡,建造精良。
2.80.20
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः ।
समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥ २.८०.२० ॥
那些高耸的住所仿佛伸展入天空,檐角与楼阁相接,光彩犹如帝释天的城市。
2.80.21
जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् ।
शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥ २.८०.२१ ॥
抵达遮那毗河,两岸树林繁茂,水清而凉,大鱼众多。
2.80.22
सचन्द्र तारा गण मण्डितम् यथा ।
नभः क्षपायाम् अमलम् विराजते ।
नर इन्द्र मार्गः स तथा व्यराजत ।
क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥ २.८०.२२ ॥
犹如夜晚清朗的天空,饰以明月与群星而熠熠生辉,那条王道也同样光彩照人,井然有序而令人赏心悦目,由巧匠精心建造。