Vedyatra वेदयात्रा
Search

Vālmīki Rāmāyaṇa · Sarga 2.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

2.84.1

ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् ।
निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥ २.८४.१ ॥

Then, seeing the army encamped on the bank of the Gaṅgā, the king of the Niṣādas hastily spoke to his kinsmen.

2.84.2

महती इयम् अतः सेना सागर आभा प्रदृश्यते ।
न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥ २.८४.२ ॥

This vast army, here, appears like the ocean; even when I reflect in my mind, I cannot perceive its end.

2.84.3

यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः ।
स एष हि महा कायः कोविदार ध्वजो रथे ॥ २.८४.३ ॥

Surely Bharata, ill-intentioned, has come himself; this one, indeed, great of body, with the kovidāra banner on his chariot, is he.

2.84.4

बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति ।
अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥ २.८४.४ ॥

He will either bind us or kill us; and Rāma, son of Daśaratha, banished from the kingdom by his father, he too he will do the same to.

2.84.5

सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् ।
भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥ २.८४.५ ॥

Desiring the prosperous and very rare royal fortune of that king, Bharata, son of Kaikeyī, resolves to destroy it.

2.84.6

भर्ता चैव सखा चैव रामः दाशरथिर् मम ।
तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥ २.८४.६ ॥

Rāma, son of Daśaratha, is both my lord and my friend. For his sake, ready in arms, stand right here on the marshy shore of the Gaṅgā.

2.84.7

तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् ।
बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥ २.८४.७ ॥

Let all the Dāśas stay, resting on the bank of the Gaṅgā river — the river's guardians, strong, eating meat, roots and fruits.

2.84.8

नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् ।
सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥ २.८४.८ ॥

He strongly urged that five hundred boats, a hundred boatmen in each of a hundred groups, and the armed young men should stand ready.

2.84.9

यदा तुष्टः तु भरतः रामस्य इह भविष्यति ।
सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥ २.८४.९ ॥

When Bharata has been satisfied with Rāma here, this auspicious army will cross the Gaṅgā today.

2.84.10

अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥ २.८४.१० ॥

Guha, the lord of the Niṣādas, advanced toward Bharata.

2.84.11

तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् ।
भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥ २.८४.११ ॥

Seeing him approach, the mighty son of the charioteer (Sumantra), who knew courtesy, announced it to Bharata in a courteous manner.

2.84.12

एष ज्ञाति सहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥ २.८४.१२ ॥

Surrounded by a thousand kinsmen, this chief — skilled, elder in the Daṇḍaka forest — is also a friend of your brother.

2.84.13

तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः ।
असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥ २.८४.१३ ॥

Therefore, O Kākutstha, let Guha, lord of the Niṣādas, see you, for he surely knows where Rāma and Lakṣmaṇa are.

2.84.14

एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् ।
उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥ २.८४.१४ ॥

Hearing this auspicious word from Sumantra, Bharata quickly said, "Let Guha see me."

2.84.15

लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः ।
आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीत् ॥ २.८४.१५ ॥

Having obtained permission, delighted and surrounded by his kinsmen, Guha came humbly to Bharata and spoke these words.

2.84.16

निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् ।
निवेदयामः ते सर्वे स्वके दाश कुले वस ॥ २.८४.१६ ॥

This forest-grove is yours, and we too are yours, though we were deprived of your company. All of us respectfully request you: dwell in our own family of fishermen.

2.84.17

अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् ।
आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥ २.८४.१७ ॥

Roots and fruits gathered and brought by the Niṣādas are here; fresh and dried meat, and great quantities of wild foods of every kind.

2.84.18

आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् ।
अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ २.८४.१८ ॥

I hope your well-fed army will stay here this night; honored with many kinds of hospitality, you will depart tomorrow with your army.