蚁垤《罗摩衍那》 · 篇 2.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.90.1
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः ।
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥ २.९०.१ ॥
诸人中的雄杰望见婆罗堕遮的修行处,尚距一克罗舍,便令全军止步,与大臣们一同前行。
2.90.2
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः ।
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२ ॥
知法者放下兵器与随从,身着两件丝绸衣裳,让家中的祭司婆私瑟陀走在前面,徒步而行。
2.90.3
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः ।
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३ ॥
于是,为了拜见婆罗堕遮,罗怙后裔(罗摩)令那些大臣止步,随着祭司前行。
2.90.4
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः ।
सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ २.९०.४ ॥
婆罗堕遮见到婆私瑟陀,这位大苦行者立即从座位起身,对弟子们说:“快拿阿尔哈雅来。”
2.90.5
वसिष्ठसाहचर्य्यादिति भावः ॥ २.९०.५ ॥
其意是:此敬礼是因与婆私瑟陀的相伴而施予的。
2.90.6
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।
आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥ २.९०.६ ॥
他先奉上阿尔哈雅与洗足之水,随后又奉上果物,然后依次问候家族的安好。
2.90.7
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।
जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७ ॥
尽管他知道十车王的行为,但在阿逾陀的民众、军队、府库、朋友和大臣之中,他并未提及国王。
2.90.8
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८ ॥
婆悉吒与婆罗多询问他的安好:身体、圣火、树木、弟子,以及鹿与鸟的情况。
2.90.9
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः ।
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९ ॥
大苦行者婆罗堕遂应允曰“如是”,并对被罗怙后裔之情所缚的婆罗多说了这番话。
2.90.10
किमिहागमने कार्य्यं तव राज्यं प्रशासतः ।
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः ॥ २.९०.१० ॥
你统治着王国,为何来到这里?请将一切告诉我,因为我的心尚未平静。
2.90.11
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११ ॥
乔莎雅所生的,摧毁敌人、增添欢喜的那位,他与兄弟和妻子一同被长久流放到森林中。
2.90.12
नियुक्तः स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशाः ।
वनवासी भवेतीह समाः किल चतुर्दश ॥ २.९०.१२ ॥
这位大名远扬的人,受一名女子的唆使,被父亲下令:“在此作林中居民十四年。”
2.90.13
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३ ॥
你是否想在此对那无罪之人犯下罪过,想要毫无阻碍地享有他弟弟的王国?
2.90.14
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह ।
पर्य्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥ २.९०.१४ ॥
被如此询问后,婆罗多回答婆罗堕遮,他双眼含泪,因悲伤而语声哽咽。
2.90.15
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५ ॥
若连尊者也这样看待我,那我便毁了。我并不怀疑自己有何过失;请不要这样教训我。
2.90.16
न चैतदिष्टं माता मे यदवोचन्मदन्तरे ।
नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६ ॥
母亲在我不在时所说的话,并不合我的心意。我对此并不满足,那话我也没有接受。
2.90.17
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः ।
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७ ॥
而我前来,是为了向那人中虎者求得谅解,将他迎回阿逾陀,并向他的双足致敬。
2.90.18
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।
शंस मे भगवन् रामः क्व सम्प्रति महीपतिः ॥ २.९०.१८ ॥
看到我如此境况,请您施以恩惠。尊者,请告诉我,地上之主罗摩如今在何处?
2.90.19
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः ।
उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥ २.९०.१९ ॥
在瓦西斯塔等祭司的恳请下,尊者跋罗堕遂以慈悲之心对婆罗多说了这番话。
2.90.20
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२० ॥
人中之虎,生于罗怙族的你,这正合你的身份:敬重长辈,克制自我,追随善人。
2.90.21
जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति ।
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१ ॥
我知道这已在你心中;我问你,是为了使之坚定,并大大增益你的声名。
2.90.22
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।
असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२ ॥
我知道,知法的罗摩与悉多、罗什曼那一同,你的兄长,住在大山耆多罗句吒之上。
2.90.23
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः ।
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३ ॥
明日你将前往那个地方;今日请与大臣们留在此处。哦,大智慧者,通晓欲望与目的的人,请满足我这个愿望。
2.90.24
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतो ऽब्रवीद्वचः ।
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मजः ॥ २.९०.२४ ॥
于是,婆罗多以高贵的风度与可信的仪容说:“就这样吧。”这位王子便决定在那座修行林中住一夜。