蚁垤《罗摩衍那》 · 篇 2.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.91.1
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥ २.९१.१ ॥
那时,仙人决定让吉凯伊之子婆罗多留在那里,便邀请他接受款待。
2.91.2
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥ २.९१.२ ॥
婆罗多说:“在林中所能做到的洗足水、迎宾礼和款待,您已经都做到了。”
2.91.3
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥ २.९१.३ ॥
于是婆罗堕遂如微笑般对婆罗多说:“我知道你充满深情;无论何物,只要能让你满意,你便满足吧。”
2.91.4
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥ २.९१.४ ॥
人主啊,我想为你的这支军队准备一顿饭;这会使我欢喜,而你也配得上。
2.91.5
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥ २.९१.५ ॥
人中之雄啊,你为何将军队留在远处而来到这里?为何不与军队一同前来?
2.91.6
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ २.९१.६ ॥
婆罗多合掌对那位苦行者说:“尊者啊,我没有与军队同来,是因为畏惧您啊。”
2.91.7
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥ २.९१.७ ॥
尊贵的圣人啊,国王或王子应当时常小心地使苦行者远离感官的对象。
2.91.8
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥ २.९१.८ ॥
尊贵的圣人啊,主要的骑兵、步卒和发狂的良象覆盖了广阔的大地,跟随着我。
2.91.9
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेक एव समागतः ॥ २.९१.९ ॥
为了使他们不伤害树木、水源、土地以及修行处的叶屋,我独自前来。
2.91.10
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥ २.९१.१० ॥
“让军队到这里来”,大仙如此命令,婆罗多于是安排军队前来。
2.91.11
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ २.९१.११ ॥
他走进火堂,饮水、拭面之后,为了款待的礼仪而召唤毗首羯摩。
2.91.12
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१२ ॥
我召唤毗首羯摩和特瓦什特里。我想要行款待之礼,请在那里为我安排。
2.91.13
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ २.९१.१३ ॥
我邀请三位世界守护者以及以因陀罗为首的诸神;我愿在此为他们款待。请为我安排此事。
2.91.14
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥ २.९१.१४ ॥
愿东流之河与西流之河,无论在地上还是天空,今日都全部来到此处。
2.91.15
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ २.९१.१५ ॥
愿有的河流淌迈勒耶酒,有的淌精心酿制的苏罗酒,其余的淌如甘蔗汁般清凉的水。
2.91.16
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥ २.९१.१६ ॥
我邀请诸天神与乾闼婆——毗首跋苏、诃诃与呼呼——同样也邀请阿普沙罗斯、女神与女性乾闼婆,所有人。
2.91.17
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥ २.९१.१७ ॥
घृताची、विश्वाची、मिश्रकेशी、阿兰布沙、那伽檀陀、赫玛与希玛——居于山岳所成之处的诸女。
2.91.18
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥ २.९१.१८ ॥
凡侍奉因陀罗与梵天的诸女,我都邀请,连同多布鲁及其随从。
2.91.19
वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥ २.९१.१९ ॥
愿那位于俱卢之地、以衣饰与叶片装点、以天女为果实、永恒存在的毗沙门(俱毗罗)神林来到此处。
2.91.20
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ २.९१.२० ॥
愿吉祥的月神苏摩在此为我备下上好的食物:可嚼的、可食的、可吮的、可舔的,种类繁多,数量充足。
2.91.21
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥ २.९१.२१ ॥
从树上飘落的奇妙花环,如酒等饮品,以及各种肉食。
2.91.22
एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २.९१.२२ ॥
这位以定力与无比光辉著称的仙人,凭借苦行之力,以合乎音韵与声调规则的言辞这样说道。
2.91.23
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २.९१.२३ ॥
他心中默念观想,面向东方,合掌而立,那些天神便一一地来到他的面前。
2.91.24
मलयं दर्दुरं चैव ततः स्वेदनुदऽ ऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २.९१.२४ ॥
于是,来自摩罗耶山与达尔杜罗山、能拭去汗水的微风拂过他身,轻柔适度地吹动;它悦人心意,令人舒适,也吉祥。
2.91.25
ततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २.९१.२५ ॥
于是密集的天界花雨降下,四面八方都听到了天鼓的声音。
2.91.26
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २.९१.२६ ॥
吉祥的微风吹拂,天女群起舞,天神与乾闼婆歌唱,琵琶之音悠然响起。
2.91.27
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोऺच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २.९१.२७ ॥
那声音传遍天空与大地,进入众生的耳中;它柔和、均匀,具备节奏的韵律之美。
2.91.28
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृसुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २.९१.२८ ॥
当那令世人耳目愉悦的天界之音止息后,他看见了婆罗多的大军,其布置犹如毗首羯磨的创造。
2.91.29
बभूव हि समा भूमिः समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥ २.९१.२९ ॥
四面方圆五由旬之内,大地变得平坦,并被许多草地覆盖,宛如蓝色的琉璃宝石。
2.91.30
तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ २.९१.३० ॥
那里生出了木苹果、菩提蜜、波罗蜜、柠檬、余甘和芒果等树,树上结满了果实作为装饰。
2.91.31
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥ २.९१.३१ ॥
来自北方俱卢的,是一片充满神圣享受的森林;还有一条被众多河岸环绕的神河也来了。
2.91.32
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥ २.९१.३२ ॥
四进厅堂的明亮建筑,象舍与马厩,挤满豪宅与宫殿的地方,以及华美的门楼。
2.91.33
सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ २.९१.३३ ॥
王宫中还有如白云般的门楼,形似神圣的花环,并洒满神圣的芳香。
2.91.34
चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥ २.९१.३४ ॥
方形而不拥挤,备有床榻、坐具与车辆;满是各种神圣的滋味,备有神圣的饮食与衣物;各式饭食皆已备好,器皿洁净清洗。
2.91.35
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥ २.९१.३५ ॥
在那座装满珍宝、备有各式座位、华丽而铺着上好卧榻的居所,大臂的吉迦伊之子婆罗多在大仙允许后走了进去。
2.91.36
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ २.९१.३६ ॥
所有大臣连同祭司都跟随他前行;看到那居所的布置,他们心中充满了喜悦。
2.91.37
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥ २.९१.३७ ॥
婆罗多与大臣们一起,像国王一样走近那神圣的王座、羽扇和华盖。
2.91.38
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत् सचिवासने ॥ २.९१.३८ ॥
婆罗多向罗摩的座位致敬并俯身行礼,然后拿起牦牛尾拂尘,坐在大臣的座位上。
2.91.39
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ २.९१.३९ ॥
众大臣与祭司按次序就座;随后,将领与首席谋士也依次坐下。
2.91.40
ततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ २.९१.४० ॥
随后,依照婆罗堕闍的命令,顷刻之间,那些泥水如乳的河流来到婆罗多面前。
2.91.41
तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ २.९१.४१ ॥
那些河流的两岸有用淡黄泥土涂抹的美丽神圣住所,是梵天恩赐所成。
2.91.42
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ २.९१.४२ ॥
就在同一瞬间,梵天所派遣、身佩神圣饰物的两万名女子到来了。
2.91.43
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ २.९१.४३ ॥
二十万名女子由俱毗罗派遣而来,身饰金、宝石、珍珠与珊瑚。
2.91.44
याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ २.९१.४४ ॥
被她们迷住的人看似癫狂;二十万阿普萨拉斯群从难陀那而来。
2.91.45
नारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ २.९१.४५ ॥
那罗陀、顿布鲁与高帕——这些如日光般耀目的乾闼婆王,在婆罗多面前歌唱。
2.91.46
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥ २.९१.४६ ॥
阿兰布沙、弥瑟罗刹希、本达利迦与婆摩那,应婆罗堕遮之命而舞,婆罗多啊。
2.91.47
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ २.९१.४७ ॥
诸天所有的花鬘,以及支多罗探林中的花鬘,因婆罗堕遮的威力在普拉雅伽显现。
2.91.48
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥ २.९१.४८ ॥
木苹果树化为鼓手,毗毗陀迦树化为钹手,无花果树(菩提树)化为舞者——因婆罗堕遮之命。
2.91.49
ततः सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥ २.९१.४९ ॥
于是沙罗树、多罗树、提婆迦树与夜摩罗树欢喜地聚集于彼处,它们化为驼背者与侏儒而来。
2.91.50
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः ।
मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥ २.९१.५० ॥
舍利娑树、余甘子树与阎浮树,以及林中其他的树;茉莉藤、末利藤、茉莉花藤,以及林中其他的藤蔓,也都来到那里。
2.91.51
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् ।
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ २.९१.५१ ॥
她们化作女子,在婆罗堕遮的净修林中说道:“诸天啊,饮酒的神祇们,请饮用吧,还有乳粥;若你们饥饿,就吃那些洁净的肉食,想吃多少吃多少。”
2.91.52
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ २.९१.५२ ॥
在美丽的河岸上,她们以油涂抹并为之沐浴;七八名女子合力为每一位男子沐浴。
2.91.53
संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ २.९१.५३ ॥
眼睛美丽的女子们一边按摩,一边聚集而来;那些肢体美好的女子互相擦拭,并劝人饮酒。
2.91.54
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥ २.९१.५४ ॥
马、象、驴、骆驼,以及善牛之后裔即母牛,它们的牧者都依照规定喂养了它们。
2.91.55
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ २.९१.५५ ॥
强大的仆从用甘蔗和蜜拌爆米喂养伊刹婆库最优秀战士的坐骑,并鼓励它们。
2.91.56
नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥ २.९१.५६ ॥
那里没有系马的人,没有驯良的马,没有象,也没有驭象人;那充满醉意与狂欢的人群在那里闪耀着光彩。
2.91.57
तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥ २.९१.५७ ॥
那些士兵满足了一切欲望,涂抹着红檀香,身边伴随着天女群,说出了这些话。
2.91.58
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ २.९१.५८ ॥
我们不去阿逾陀,也不去檀陀迦林。愿婆罗多平安,也愿罗摩同样安乐。
2.91.59
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ २.९१.५९ ॥
无依无靠的人们得到了那个决定,说出了这些话。
2.91.60
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥ २.९१.६० ॥
欢欣无比的数千名婆罗多的追随者在那里高声喧呼,说道:“这真是天堂!”
2.91.61
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।
समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥ २.९१.६१ ॥
士兵成千上万地舞蹈、欢笑、歌唱;他们佩戴花环,四处奔跑。
2.91.62
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ २.९१.६२ ॥
那些食用了如甘露般食物的人,看到那些天界的美食,又生出了想吃的念头。
2.91.63
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।
बभूवुस्ऺते भृशं दृप्ताः सर्वे चाहतवाससः ॥ २.९१.६३ ॥
成千上万的仆役、役工、妇女和士兵都极为欢欣,所有人都穿上了新衣。
2.91.64
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ।
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥ २.९१.६४ ॥
那里的象、驴、骆驼、牛、马和鹿与鸟都得到了很好的供养;没有一个人顾及别人。
2.91.65
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥ २.९१.६५ ॥
那里看不到任何一个没有白衣、饥饿、肮脏或头发被尘土弄乱的人。
2.91.66
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥ २.९१.६६ ॥
有山羊肉与野猪肉,堆积的上好香料,用果汁烹制的、带有香气与滋味的羹汤。
2.91.67
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥ २.९१.६७ ॥
四周到处是盛满白色食物、装饰着花旗的铁器,成千上万,众人见之皆惊叹。
2.91.68
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥ २.९१.६८ ॥
林边有盛满奶粥泥浆的水井,还有如愿之牛和滴落蜂蜜的树木。
2.91.69
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥ २.९१.६९ ॥
阶梯井中盛满迈雷耶酒,周围堆着烹煮得very熟的肉;热锅中有鹿肉、孔雀肉和鸡肉。
2.91.70
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥ २.९१.७० ॥
饮器有数千,烹锅有数十万,器皿有亿万,其中还有金制的器具。
2.91.71
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ २.९१.७१ ॥
锅、罐和碗中盛满了制作精良的凝乳,还有香气四溢、熟透的白木苹果。
2.91.72
ह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥ २.९१.७२ ॥
有盛满芒果汁的池塘,有盛满白色凝乳的,有盛满奶粥的,还有堆积如山的糖。
2.91.73
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥ २.९१.७३ ॥
在河流的圣水渡口,人们看到盛放在器皿中的各种膏泥、粉末、汤剂和沐浴用品。
2.91.74
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥ २.९१.७४ ॥
白色丝绸衣物、堆积的洁齿木枝以及白色檀香膏,都放在盒子里。
2.91.75
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥ २.९१.७५ ॥
还有擦拭光亮的铜镜、成堆的衣物、木屐与鞋履,成千上万双。
2.91.76
आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥ २.९१.७६ ॥
眼药膏盒、梳子、刷子、兵器与弓,各色护心甲,卧榻与座椅。
2.91.77
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥ २.९१.७७ ॥
装满清水用以洗涤驴、骆驼、象与马之足的池塘,以及有良好渡口、遍布莲花和青莲的湖泊。
2.91.78
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥ २.९१.७८ ॥
水色如天空般清澈、适宜沐浴,颜色如青金石般碧蓝,并堆有柔软的大麦草料。
2.91.79
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥ २.९१.७९ ॥
他们在那里四处看到了为牲畜准备的草料。
2.91.80
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥ २.९१.८० ॥
那些人看到大仙人如此款待薄卡多,惊叹这奇迹宛如梦境。
2.91.81
इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥ २.९१.८१ ॥
就这样,他们如同诸神在难陀园中一般欢乐,那一夜在婆罗堕遮的可爱林居中度过。
2.91.82
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥ २.९१.८२ ॥
辞别薄卡多遮之后,那些优美的女子、河流女神与乾闼婆,都循着来时的路返回了。
2.91.83
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥ २.९१.८३ ॥
同样,人们醉得厉害,身上涂抹着天界的沉香与檀香;同样,各式各样的天界妙花环散落四处,被人们踩烂了。