蚁垤《罗摩衍那》 · 篇 2.92
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.92.1
ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१ ॥
随后,度过那一夜后,婆罗多与随从一同,受到款待,便心甘情愿地前往跋罗昙婆delta处。
2.92.2
तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२ ॥
见那人中之雄婆罗多合掌而来,已完成火供的仙人跋罗昙婆delta便对他说道。
2.92.3
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।
समग्रस्ते जनः कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३ ॥
你在我们这地方过得安稳吗?无罪者啊,你的随从都受到了妥善的款待吗?请告诉我。
2.92.4
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४ ॥
婆罗多合掌并深深行礼,对那位从静修处走出的至上光辉的仙人说道。
2.92.5
सुखोषितो ऽस्मि भगवन् समग्रबलवाहनः ।
तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५ ॥
尊者啊,我与全部军队和车辆都住得很安稳。您以一切所愿丰厚地款待了我和众大臣。
2.92.6
अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः ।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥ २.९२.६ ॥
没有疲劳与烦恼,食物充足,住处舒适,我们所有人,包括仆从在内,都住得非常舒适。
2.92.7
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७ ॥
尊者,最上的仙人,我恭敬地请求您:请以慈悲的目光看着我,我正前往兄长身边。
2.92.8
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ।
आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥ २.९२.८ ॥
精通法者啊,请告诉我那位正直的大德之人的净修林在哪里:走哪条路,有多远。
2.92.9
प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ २.९२.९ ॥
光明极盛、苦行极深的婆罗堕遂回答。
2.92.10
भरतार्द्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ २.९२.१० ॥
距离婆罗多约二十五里,在一片无人的森林中,有一座名为“画顶”的山,山谷与树林都十分秀美。
2.92.11
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११ ॥
到达其北侧山坡,便是曼达吉尼河,河岸为开花的树木所覆盖,周围是秀丽的花林。
2.92.12
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः ।
तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२ ॥
就在那条河与画顶山附近,亲爱的,有他们二人的叶屋;他们二人必定住在那里。
2.92.13
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३ ॥
请沿南路,或左右绕行,率领充满象、马与战车的大军前进,统帅啊。大福之人啊,届时你便会见到罗怙之后。
2.92.14
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४ ॥
王中之王的妃嫔听闻此行,虽有乘车的资格,仍弃车而下,将婆罗门团团围住。
2.92.15
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥ २.९२.१५ ॥
柯萨利雅身体颤抖、消瘦而悲苦,与王后苏弥special一起,在那里用双手抱住了仙人的双足。
2.92.16
असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६ ॥
因未遂之欲而被举世所责的吉迦伊,满怀羞愧,抱住了他的双足。
2.92.17
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७ ॥
她绕行致敬这位尊贵的大仙人后,便在婆罗多身旁不远处站立,神情悲戚。
2.92.18
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः ।
विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८ ॥
于是坚守誓愿的婆罗堕遮问婆罗多道:“罗怙之子啊,我想了解你诸位母亲的具体情况。”
2.92.19
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः ।
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥ २.९२.१९ ॥
婆罗堕阁如此问道,守法的婆罗多善于言辞,合掌说出了这些话。
2.92.20
यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२० ॥
尊者,您所见到的这位因悲痛和绝食而憔悴、神色哀伤的女子,乃是父王的正妃,如同女神一般。
2.92.21
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१ ॥
她便是考莎厘雅,她生育了罗摩——人中之虎,步伐如狮,正如阿底提生育了造物主达多。
2.92.22
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः ।
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२ ॥
她倚着他的左臂,神色忧伤地站立着,如同林中一株落尽繁花的迦尼迦罗树枝。
2.92.23
एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३ ॥
这位王后的两个儿子,是两位容貌如神的王子——罗什曼那与设睦祗那,二人都是真正勇猛的英雄。
2.92.24
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ॥ २.९२.२४ ॥
为了她,两位人中之虎离开此地,过着失去一切的生活;而失去王子们的达舍罗陀则升天而去。
2.92.25
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५ ॥
凯刻伊,被愤怒毁了智慧,傲慢,自负于美貌,贪求权势,虽有贵女之形,实非高贵之人。
2.92.26
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ २.९२.२६ ॥
你们要知道她是我的母亲;她残忍,心意邪恶。因为我看到她正是我这大灾难的根源。
2.92.27
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥ २.९२.२७ ॥
说完这话,人中猛虎薄罗多声音被泪水哽咽,双眼通红,像愤怒的蛇一样喘息。
2.92.28
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८ ॥
大智的大仙人婆罗堕遮对这样说话的薄罗多,以这些有意义的话作答。
2.92.29
न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९ ॥
薄罗多啊,你不应因过错而看待凯刻伊;罗摩的流放最终将带来幸福。
2.92.30
देवानां दानवानां च ऋषीणां भावितात्मनाम् ।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३० ॥
即使对诸天神、阿修罗和心灵纯净的仙人而言,罗摩此番流放也将带来利益。
2.92.31
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् ।
आमन्त्र्य भरतः सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१ ॥
婆罗多向他致敬,右绕而行,向军队告别后下令:「准备出发。」
2.92.32
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥ २.९२.३२ ॥
于是,他们套上装饰着黄金的神圣马匹和车辆,许多想要出发的各色人等登上了车。
2.92.33
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः ।
जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥ २.९२.३३ ॥
金色鞍具、高举旗帜的母象与公象,如夏末的雷云般轰鸣着出发了。
2.92.34
विविधान्यपि यानानि महान्ति च लघूनि च ।
प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥ २.९२.३४ ॥
各种大小、价值极高的车辆也启程了,步兵则只能徒步前行。
2.92.35
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः ।
रामदर्शनकांक्षिण्यः प्रययुर्मुदितास्तदा ॥ २.९२.३५ ॥
于是以憍萨罗为首的众妇人,渴望见到罗摩,欢欣地乘上最前面的车辆出发了。
2.92.36
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥ २.९२.३६ ॥
婆罗多乘上一顶华美的轿子,光彩如新月与初升的太阳,随从相伴,这位光辉的王子启程了。
2.92.37
सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥ २.९२.३७ ॥
这支庞大的军队,满是象、马与战车,启程出发。它遮蔽了南方天际,宛如升起的大云。
2.92.38
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः ।
गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८ ॥
穿越栖息着鹿与鸟的森林,沿着恒河的对岸,也经过山岭与河流,大军继续前进。
2.92.39
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥
这支军队,其鸟旗、战马与战士皆欢欣鼓舞,惊扰着鹿群与鸟群,进入那片大森林,在那里以婆罗多之军的面貌闪耀。