蚁垤《罗摩衍那》 · 篇 2.96
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.96.1
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।
निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ॥ २.९६.१ ॥
如此向弥提罗之女展示了山间的河流后,他坐在山原上,用肉食使悉多欢喜。
2.96.2
इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।
एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ २.९६.२ ॥
“这是洁净的,这是美味的,这是在火上煮得很好的”——正直的罗怙之后便这样与悉多一同留在那里。
2.96.3
तथा तत्रासतस्तस्य भरतस्योपयायिनः ।
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ॥ २.९६.३ ॥
他坐在那里时,逼近的婆罗多大军的尘土与喧声都显现出来,两者都触及天空。
2.96.4
एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः ।
अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ २.९६.४ ॥
与此同时,被那巨大的喧声惊吓和折磨的发狂象群首领,带着各自的象群向四面八方奔逃。
2.96.5
स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः ।
तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ॥ २.९६.५ ॥
罗怙之后听到军队所发出的那阵喧声,又看向所有四散奔逃的象群首领。
2.96.6
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।
उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ २.९६.६ ॥
看到它们奔逃,听到那声吼叫,罗摩对光辉灿烂的苏弥德罗之子罗什曼那说道。
2.96.7
हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ।
भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥ २.९६.७ ॥
哎呀,罗什曼那,看这里!苏弥special之子啊,可闻一阵轰鸣如惊雷般深沉的喧嚣之声。
2.96.8
गजयूथानि वा ऽरण्ये महिषा वा महावने ।
वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ २.९६.८ ॥
无论是森林中的象群,大林中的水牛,还是被狮子惊吓的鹿群,都突然向四面八方奔逃。
2.96.9
राजा वा राजमात्रो वा मृगयामटते वने ।
अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ॥ २.९६.९ ॥
苏弥特拉之子啊,你应当查明:是国王或王室官员在林中狩猎游荡,还是别的猛兽。
2.96.10
सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ २.९६.१० ॥
罗什曼那啊,这座山即使鸟类也难以穿越。你应当尽快弄清这一切的真相。
2.96.11
स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् ।
प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत ॥ २.९६.११ ॥
罗什曼那急忙攀上一棵开花的娑罗树,环顾四方,然后望向东方。
2.96.12
उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् ।
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः ॥ २.९६.१२ ॥
他面向北方远望,看见一支庞大的军队,车马象群挤满其间,并配有警觉的步兵。
2.96.13
तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् ।
शशंस सेनां रामाय वचनं चेदमब्रीत् ॥ २.९६.१३ ॥
他见那支军队满是马匹与象群,战车旗帜装饰其间,便向罗摩禀报,并说了这些话。
2.96.14
अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ।
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ २.९६.१४ ॥
请尊者熄灭火堆,让悉多进入山洞。把弓弦拉好,also准备好箭和铠甲。
2.96.15
तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।
अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ २.९६.१५ ॥
人中虎罗摩对罗什曼那说:"苏弥陀之子啊,仔细看看;你认为这支军队是谁的?"
2.96.16
एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ २.९६.१६ ॥
罗摩如此说后,罗什曼那怒气冲冲地回答,仿佛烈火要焚尽那支军队。
2.96.17
सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः ॥ २.९६.१७ ॥
薄罗陀,即吉开伊之子,欲独占王国,以为灌顶之事已然确定,正前来要杀我们二人。
2.96.18
एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते ।
विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे ॥ २.९६.१८ ॥
你看,这棵极为高大壮丽的树正闪耀;战车上,高耸树干的考维达罗树旗帜熠熠生辉。
2.96.19
भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् ।
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः ॥ २.९६.१९ ॥
这些人骑上快马,随意而来;骑在象背上的骑士欢欣鼓舞,熠熠生辉。
2.96.20
गृहीतधनुषौ चावां गिरिं वीरश्रयावहै ।
अथवेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ ॥ २.९६.२० ॥
我们二人拿起弓,前往英雄的庇护之山;或者就在这里披甲执械,严阵以待。
2.96.21
अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ॥ २.९६.२१ ॥
或许,那辆以拘维陀罗树为旗的战车,会在这场战斗中落入我们手中。
2.96.22
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ।
त्वया राघव सम्प्राप्तं सीतया च मया तथा ॥ २.९६.२२ ॥
罗怙家的人啊,因为婆罗多,你、悉多和我都遭受了这般大难,我还能见到婆罗多吗?
2.96.23
यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् ।
सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ॥ २.९६.२३ ॥
罗怙家的人啊,正因为他,你被剥夺了永恒的王位;英雄啊,这个敌人婆罗多已经到来,他确实应当由我诛杀。
2.96.24
भरतस्य वधे दोषं नाहं पश्यामि राघव ।
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ॥ २.९६.२४ ॥
罗怙家的人啊,我看不出诛杀婆罗多有什么过失;对于先前加害于人的人加以摒弃,并不被规定为不义。
2.96.25
पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ॥ २.९६.२५ ॥
罗怙之裔啊,若这位先前害你、已舍弃法(dharma)的婆罗多被杀,你便可统治整个大地。
2.96.26
अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका ।
मया पश्येत् सुदुःखार्त्ता हस्तिभग्नमिव द्रुमम् ॥ २.९६.२६ ॥
愿今日渴望王位的吉迦伊,看见她的儿子在战中被我所杀,正如极度悲伤之人看见被象折断的树。
2.96.27
कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् ।
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ २.९६.२७ ॥
我也要杀死吉迦伊,连同她的亲属和族人;愿今日大地从这大污点中解脱。
2.96.28
अद्येमं संयतं क्रोधमसत्कारं च मानद ।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ २.९६.२८ ॥
赐予尊荣者啊,今日我要将这压抑的愤怒与羞辱释放到敌军之中,如同在丛林中放火。
2.96.29
अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः ।
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ २.९६.२९ ॥
今日我将以利箭穿透敌人的身躯,让这片芥尔山(Citrakūṭa)的森林浸透鲜血。
2.96.30
शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा ।
श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया ॥ २.९६.३० ॥
愿猛兽拖走那些心脏被箭射穿的象与马,以及被我杀死的人。
2.96.31
शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे ।
ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ २.९६.३१ ॥
我将在大战中偿还对箭与弓的债务;杀死婆罗多及其军队之后,我必定还清债务,此事毫无疑问。