Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 2.98

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.98.1

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः।
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २.९८.१ ॥

力ある王子バラタは、徒歩の者の中で最もすぐれた人として、軍を留めたのち、年長者の作法に従ってカークツstha(ラーマ)のもとへ行こうと望んだ。

2.98.2

निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २.९८.२ ॥

軍が指示どおりに留まるや、バラタは謙虚に、弟のシャトルグナにこの言葉を告げた。

2.98.3

क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः।
लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २.९८.३ ॥

おお善き人よ、君は速やかに、人々の一団とこれらの猟師とともに、この森をあらゆる方角から捜すべきだ。

2.98.4

गुहो ज्ञातिसहस्रेण शरचापासिधारिणा।
समन्वेषतु काकुत्स्थावस्मिन् परिवृतः स्वयम् ॥ २.९८.४ ॥

グハが、弓矢と剣を持つ千人の親族とともに、自らも取り囲まれて、この森で二人のカークツstha(ラーマとラクシュマナ)をよく捜しますように。

2.98.5

अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥ २.९८.५ ॥

大臣、市民、年長者、バラモンたちとともに、私自身が徒歩で、彼らに囲まれて、この森全体を歩き回ろう。

2.98.6

यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।
वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २.९८.६ ॥

ラーマ、あるいは大力のラクシュマナ、あるいは大いなる幸運を持つヴァイデーヒー(シーター)に会うまで、私に安らぎはないだろう。

2.98.7

यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्।
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २.९८.७ ॥

月のように輝く吉祥の顔、蓮の花びらのような目をもつ兄を見るまで、私に安らぎは訪れない。

2.98.8

यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ।
शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २.९८.८ ॥

王者のしるしを備えた兄の両足を頭に戴くまで、私に安らぎは訪れない。

2.98.9

यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः।
अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ॥ २.९८.९ ॥

王位にふさわしい兄が祖先の王国に即き、灌頂の水に濡れるまで、私に安らぎは訪れない。

2.98.10

सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम्।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २.९८.१० ॥

ラクシュマナは実に願いを果たした。月のように清らかで、蓮の目をもち、大いに輝くラーマの顔を見ているのだから。

2.98.11

कृतकत्या महाभागा वैदेही जनकात्मजा।
भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति ॥ २.९८.११ ॥

大いなる福をもち、為すべきを成し遂げたジャナカの娘ヴァイデーヒーは、海に至るまでの大地の主である夫に従っている。

2.98.12

सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥ २.९८.१२ ॥

山の王に似た麗しいチトラクータ山。そこにカークトゥスタの末裔ラーマが住み、ナンダナの園にクベーラが住むがごとくである。

2.98.13

कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।
यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥ २.९८.१३ ॥

猛獣の棲むこの険しい森に、武器を持つ者の中で最も優れた、大いなる威光のラーマが住んでいる。

2.98.14

एवमुक्त्वा महातेजा भरतः पुरुषर्षभः।
पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥ २.९८.१४ ॥

こう言って、偉大な光輝を持つ、人中の雄牛、大腕のバラタは、徒歩で広大な森へと入っていった。

2.98.15

स तानि द्रुमजालानि जातानि गिरिसानुषु।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ २.९८.१५ ॥

弁舌に優れた彼は、山の斜面に生い茂り、梢に花を咲かせた木々の群れの間を進んでいった。

2.98.16

समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्तिः ॥ २.९८.१६ ॥

近いので、その根元が見える——よってこれは重複ではない。

2.98.17

तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः।
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ २.९८.१७ ॥

それを見て、栄光あるバラタは親族とともに茫然となった。ラーマがここにいると知り、水の彼岸に着いたかのように。

2.98.18

स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्।
गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २.९८.१८ ॥

チトラクータ山にある、聖なる人々が訪れるラーマの庵のことを聞くと、その大いなる人物は軍をそこに留め置き、グハとともに急ぎ出発した。