Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 3.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.18.1

तां तु शूर्पणखां रामः कामपाशावपाशिताम्।
स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ॥ ३.१८.१ ॥

罗摩则先微笑着,出于自愿,以温和的言语,对被欲望之索缠住的首婆那卡说道。

3.18.2

कृतदारोऽस्मि भवति भार्येयं दयिता मम।
त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥ ३.१८.२ ॥

善良的女子,我已经成家;这是我心爱的妻子。对于像你这样的女子来说,作为共夫之妻实在太痛苦了。

3.18.3

अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः।
श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥ ३.१८.३ ॥

这是我的幼弟,名叫罗什曼那:品性良善,相貌俊美,光彩照人,尚未娶妻,且勇武有力。

3.18.4

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः।
अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ॥ ३.१८.४ ॥

他尚未娶妻,正想娶妻,年轻俊美;他将成为与你的容貌相配的丈夫。

3.18.5

एनं भज विशालाक्षि भर्तारं भ्रातरं मम।
असपत्ना वरारोहे मेरुमर्कप्रभा यथा ॥ ३.१८.५ ॥

宽眸的女子,请侍奉我这位兄弟般的丈夫吧;纤腰的女子,像太阳的光辉伴随须弥山一样,没有共夫之妻地生活吧。

3.18.6

विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ ३.१८.६ ॥

随后她突然离开罗摩,对罗什曼那说道。

3.18.7

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी।
मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ॥ ३.१८.७ ॥

这样的容貌与我正相配,美丽的人啊。与我同行,你将在檀陀迦林中到处快乐地漫游。

3.18.8

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः।
ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥ ३.१८.८ ॥

罗刹女如此说罢,言辞娴熟的苏弥陀之子罗什曼那微笑着对首帕那卡说了一番得体的话。

3.18.9

कथं दासस्य मे दासी भार्या भवितुमिच्छसि।
सोऽहमार्येण परवान् भ्रात्रा कमलवर्णिनि ॥ ३.१८.९ ॥

我本是奴仆,你作为我的女奴,又怎能想成为我的妻子呢?莲色的人啊,我受制于我尊贵的兄长。

3.18.10

समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी।
आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ॥ ३.१८.१० ॥

广目之人啊,请做富足而心愿已成的尊贵者之次妻吧——欢欣而容颜无瑕。

3.18.11

एतां विरूपामसतीं करालां निर्णतोदरीम्।
भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ ३.१८.११ ॥

抛弃这个丑陋、不贞、可怖、腹部凹陷的年老妻子,他必将只钟爱你。

3.18.12

को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि।
मानुषीषु वरारोहे कुर्याद् भावं विचक्षणः ॥ ३.१८.१२ ॥

美色的人啊,美臀的人啊!舍弃这样绝妙的容貌,哪个明智的男子会把情意投向凡间女子呢?

3.18.13

मन्यते तद्वचः सत्यं परिहासाविचक्षणा ॥ ३.१८.१३ ॥

她分辨不出玩笑,便以为他的话是真的。

3.18.14

सा रामं पर्णशालायामुपविष्टं परंतपम्।
सीतया सह दुर्धर्षमब्रवीत् काममोहिता ॥ ३.१८.१४ ॥

她被欲望迷惑,对坐在树叶小屋中与悉多在一起的罗摩说话,他是敌人的克星,不可战胜。

3.18.15

इमां विरूपामसतीं करालां निर्णतोदरीम्।
वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे ॥ ३.१८.१५ ॥

你紧抱着这个丑陋、不贞、可怖、腹部凹陷的老妻,并不怎么看重我。

3.18.16

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्।
त्वया सह चरिष्यामि निःसपत्ना यथासुखम् ॥ ३.१८.१६ ॥

现在就在你眼前,我要吃掉这个人间女子;然后我将与你同行,没有对手,随心所欲。

3.18.17

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा।
अभ्यगच्छत् सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ ३.१८.१७ ॥

说完这话,她目如火把,极度愤怒,朝鹿眼的悉多扑去,如大流星坠向罗诃尼星。

3.18.18

तां मृत्युपाशप्रतिमामापतन्तीं महाबलः।
विगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ॥ ३.१८.१८ ॥

那扑来的如死亡绳索般的女子被大力的罗摩抓住,罗摩愤怒地对罗什曼那说道。

3.18.19

क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन।
न कार्यः पश्य वैदेहीं कथंचित् सौम्य जीवतीम् ॥ ३.१८.१९ ॥

萨乌弥特里啊,绝不可与这些残忍卑劣的罗刹开玩笑。看啊,善良的人,维德赫诃(悉多)仍然以某种方式活着。

3.18.20

इमां विरूपामसतीमतिमत्तां महोदरीम्।
राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥ ३.१८.२० ॥

人中之虎啊,你应当毁掉这个丑陋、淫荡、极度狂乱、大腹的罗刹女的容貌。

3.18.21

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः।
उद्धृत्य खड्गं चिच्छेद कर्णनासे महाबलः ॥ ३.१८.२१ ॥

罗摩在旁注视,罗什曼那闻言大怒,拔剑斩下了她的耳朵和鼻子,这位大力者。

3.18.22

निकृत्तकर्णनासा तु विस्वरं सा विनद्य च।
यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ ३.१८.२२ ॥

耳朵和鼻子被割去的恐怖的首爾帕那卡,高声哀号,沿着来时的路逃入了森林。

3.18.23

सा विरूपा महाघोरा राक्षसी शोणितोक्षिता।
ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥ ३.१८.२३ ॥

那丑陋、极为可怖的罗刹女,满身鲜血,如雨季的云一般发出种种吼声。

3.18.24

सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ ३.१८.२४ ॥

血流不止,形象可怖,高举双臂,咆哮着走进了大森林。

3.18.25

ततस्तु सा राक्षससङ्घसंवृतं
खरं जनस्थानगतं विरूपिता।
उपेत्य तं भ्रातरमुग्रतेजसं
पपात भूमौ गगनाद् यथाशनिः ॥ ३.१८.२५ ॥

于是她被罗刹群众所围绕,来到驻守在人居地的哈罗身前,身形残损的她在这位威光猛烈的兄长面前跌倒在地,犹如天降霹雳。

3.18.26

ततः सभार्यं भयमोहमूर्च्छिता
सलक्ष्मणं राघवमागतं वनम्।
विरूपणं चात्मनि शोणितोक्षिता
शशंस सर्वं भगिनी खरस्य सा ॥ ३.१८.२६ ॥

于是哈罗之妹因恐惧与昏乱而昏迷,身上沾满鲜血,将罗怙之子与妻子、罗什曼那一同来到林中时,如何残害自己的事,全都述说了出来。