ヴァールミーキのラーマーヤナ · サルガ 3.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.27.1
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः।
राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत् ॥ ३.२७.१ ॥
ラーマへと向かうカラに、軍の司令官である羅刹トリシラスが近づき、このように言った。
3.27.2
मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात्।
पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥ ३.२७.२ ॥
私に任せてください、私は勇敢です。あなたは無謀さを捨てて引き返してください。戦いで倒れた大腕のラーマを御覧ください。
3.27.3
प्रतिजानामि ते सत्यमायुधं चाहमालभे।
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥ ३.२७.३ ॥
真実をもってあなたに誓い、武器に触れて言う。すべての羅刹にとって死に値するラーマを、私は必ず殺す。
3.27.4
अहं वास्य रणे मृत्युरेष वा समरे मम।
विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव ॥ ३.२७.४ ॥
私が彼にとって戦場での死となるか、あるいは彼が私にとって戦での死となるか。戦いへの意気を一時抑えて、見届ける者となれ。
3.27.5
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि।
मयि वा निहते रामं संयुगाय प्रयास्यसि ॥ ३.२७.५ ॥
ラーマが殺されて喜ぶなら、おまえはジャナスタナへ行くだろう。あるいは私が殺されたなら、戦いのためにラーマのもとへ行くだろう。
3.27.6
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः।
गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ ३.२७.६ ॥
死を望む心に駆られ、トリシラスに説得されたカラは、「行け、戦え」と許しを得て、ラーマ(ラグハヴァ)へと向かっていった。
3.27.7
त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता।
अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः ॥ ३.२७.७ ॥
三頭のトリシラスは馬をつないだ輝く戦車に乗り、戦場でラーマへと突進した。三つの峰を持つ山のように。
3.27.8
शरधारासमूहान् स महामेघ इवोत्सृजन्।
व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः ॥ ३.२७.८ ॥
大雲のように矢の奔流を降り注がせ、水に濡れた太鼓のような音を響かせた。
3.27.9
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः।
धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥ ३.२७.९ ॥
迫りくる羅刹トリシラスを見て、ラーガヴァは弓で迎え撃ち、鋭い矢を振るった。
3.27.10
स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा।
सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव ॥ ३.२७.१० ॥
そのときラーマとトリシラスの間に激しい戦いが起こった。非常に力強い獅子と象が争うように。
3.27.11
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः।
अमर्षी कुपितो रामः संरब्ध इदमब्रवीत् ॥ ३.२७.११ ॥
そのときトリシラスの三本の矢で額を打たれたラーマは、耐えかねて激怒し、このように言った。
3.27.12
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्।
पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः ॥ ३.२७.१२ ॥
ああ!武勇に秀でたこの羅刹の力はこれほどか。花のような矢で私の額が傷ついたとは。
3.27.13
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान्।
एवमुक्त्वा सुसंरब्धः शरानाशीविषोपमान् ॥ ३.२७.१३ ॥
私の弓の弦から放たれた矢も受け取れ。そう言って、激怒した彼は毒蛇のような矢を放った。
3.27.14
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश।
चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः ॥ ३.२७.१४ ॥
怒ったラーマは、トリシラスの胸に十四本の矢を放ち、先端の曲がった四本の矢で彼の馬を倒した。
3.27.15
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः।
अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ॥ ३.२७.१५ ॥
輝くラーマは彼の四頭の馬を倒し、八本の矢で御者を戦車の座から射落とした。
3.27.16
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्।
ततो हतरथात् तस्मादुत्पतन्तं निशाचरम् ॥ ३.२७.१६ ॥
ラーマは一本の矢で彼の高く掲げられた旗を断ち切った。そして戦車を失い跳び上がった羅刹に、
3.27.17
चिच्छेद रामस्तं बाणैर्हृदये सोऽभवज्जडः।
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ॥ ३.२७.१७ ॥
ラーマは矢で彼の胸を射抜き、彼は呆然とした。無限の本性をもつラーマは怒りに満ち、その羅刹に矢を放った。
3.27.18
शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः।
स धूमशोणितोद्गारी रामबाणाभिपीडितः ॥ ३.२७.१८ ॥
彼は三本の迅速な矢で三つの頭を落とした。煙と血を吐き、ラーマの矢に苛まれて、彼は倒れた。
3.27.19
न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः।
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ॥ ३.२७.१९ ॥
戦場に立っていた夜の徘徊者は、まず既に倒れた者たちの上に倒れ伏した。その後、生き残った、カラ(ハラ)に頼っていた羅刹たちは散り散りに敗走した。
3.27.20
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव।
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन्।
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ ३.२७.२० ॥
彼らは虎に怯えた鹿のように逃げ、踏みとどまらなかった。逃げる者たちを見たカラは怒って引き返し、急いで、ラーフが月に襲いかかるように、ラーマへと襲いかかった。