蚁垤《罗摩衍那》 · 篇 3.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.57.1
राक्षसं मृगरूपेण चरन्तं कामरूपिणम्।
निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत ॥ ३.५७.१ ॥
罗摩杀死了化作鹿形、能随意变化形貌的罗刹摩利遮,随即在路上迅速折返。
3.57.2
तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्।
क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥ ३.५७.२ ॥
他急切地想见到摩提利(悉多),正匆忙赶路时,身后忽然有豺狼以凄厉之声嚎叫。
3.57.3
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्।
चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥ ३.५७.३ ॥
他听出那豺狼可怕、令人毛骨悚然的嚎叫,心中惊疑,开始沉思。
3.57.4
अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥ ३.५७.४ ॥
我觉得这豺狼的叫声不祥。若非被罗刹吞噬,毗提诃(悉多)又怎会安然无恙?
3.57.5
मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्।
विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि ॥ ३.५७.५ ॥
摩利遮既已听得我的声音、记住了它,便可能化作鹿形,以我的声音呼喊;若罗什曼那听到了这呼声……
3.57.6
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥ ३.५७.६ ॥
苏弥德拉之子罗什曼那听到那呼声,便会离开摩提利,在她的催促下很快来到我身边。
3.57.7
राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः।
काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥ ३.५७.७ ॥
必定是罗刹们联合起来,意图杀害悉多;他们化作金鹿,把我从修行林中引走了。
3.57.8
दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः।
हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह ॥ ३.५७.८ ॥
他把我引到远处之后,中箭的罗刹摩利遮发出了这样的呼喊:“哎呀,罗什曼那,我被杀了!”
3.57.9
अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने।
जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ॥ ३.५७.९ ॥
你们二人在林中与我分离,能否平安?因为人住之地的缘故,我已与罗刹结下了仇怨。
3.57.10
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च।
इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ॥ ३.५७.१० ॥
“今日出现了许多可怖的凶兆”——罗摩如此思忖之际,听到了豺狼的嚎叫。
3.57.11
निवर्तमानस्त्वरितो जगामाश्रममात्मवान्।
आत्मनश्चापनयनं मृगरूपेण रक्षसा ॥ ३.५७.११ ॥
罗摩克制自持,急忙返回林中住所;他明白自己是被化作鹿形的罗刹引开的。
3.57.12
आजगाम जनस्थानं राघवः परिशङ्कितः।
तं दीनमानसं दीनमासेदुर्मृगपक्षिणः ॥ ३.५७.१२ ॥
罗怙之后满怀忧惧来到人住之地;心情沮丧的他身边,鹿与鸟类纷纷聚集而来。
3.57.13
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥ ३.५७.१३ ॥
它们从великодушного罗摩的左侧经过,发出可怕的叫声。罗怙之后见到这些极其可怕的凶兆,便急速返回自己的修行林。
3.57.14
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम्।
ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ॥ ३.५७.१४ ॥
这时他看见罗什曼那失去光彩地走来。随后不远处,罗什曼那与罗摩相会。
3.57.15
विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना।
स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम् ॥ ३.५७.१५ ॥
他自己也悲伤,见弟弟罗什曼那前来,便责备了这位分担忧愁的兄弟。
3.57.16
विहाय सीतां विजने वने राक्षससेविते।
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ॥ ३.५७.१६ ॥
罗怙之子的喜悦者将悉多留在这片罗刹出没的荒僻森林中,握住了罗什曼那的左手。
3.57.17
उवाच मधुरोदर्कमिदं परुषमार्तवत्।
अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम् ॥ ३.५७.१७ ॥
罗摩仿佛悲痛地说出了这些话语,言辞严厉,结果却甘甜:“啊,罗什曼那!你把她留在那里,所做之事实在可非议。”
3.57.18
सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति।
न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ॥ ३.५७.१८ ॥
“温和的人啊!你把悉多留在那里来到这里,她会平安吗?勇士啊!我毫不怀疑,遮那迦之女悉多已经……”
3.57.19
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः।
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥ ३.५७.१९ ॥
她或许已被林中游荡的罗刹毁灭或吞食;因为不祥的征兆于我面前层出不穷。
3.57.20
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे।
जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै ॥ ३.५७.२० ॥
啊,罗什曼那!愿我们能找到遮那卡之女悉多,她仍然活着且完全安好,啊,人中之虎!
3.57.21
यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम्।
वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम्।
अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल ॥ ३.५७.२१ ॥
鹿群与豺狼惊恐地嚎叫,鸟儿也从四面八方向那燃烧的方位啼叫——愿那位王女平安无事,啊,大力者!
3.57.22
इदं हि रक्षो मृगसंनिकाशं
प्रलोभ्य मां दूरमनुप्रयातम्।
हतं कथंचिन्महता श्रमेण
स राक्षसोऽभून्म्रियमाण एव ॥ ३.५७.२२ ॥
这个形似鹿的罗刹将我引诱到远方;我费尽力气才将他击倒,而他临死之时才显露出罗刹的真身。
3.57.23
मनश्च मे दीनमिहाप्रहृष्टं
चक्षुश्च सव्यं कुरुते विकारम्।
असंशयं लक्ष्मण नास्ति सीता
हृता मृता वा पथि वर्तते वा ॥ ३.५७.२३ ॥
我的心意沉郁而无喜悦,左眼也在跳动。啊,罗什曼那,毫无疑问,悉多不在这里——她或被劫走,或已死去,或在路上某处。