蚁垤《罗摩衍那》 · 篇 3.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.58.1
स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः।
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ ३.५८.१ ॥
达舍罗陀之子、心怀正法的罗摩见到悲伤落寞的罗什曼那,便问他为何没有与维德赫希同来。
3.58.2
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह।
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ ३.५८.२ ॥
罗什曼那啊,当我前往檀荼迦森林时跟随我的维德赫希在哪里?你竟撇下她来到这里。
3.58.3
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः।
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ ३.५८.३ ॥
我失去王位、落魄地在檀荼迦森林中流浪,那与我共担忧愁、腰肢纤细的维德赫希在哪里?
3.58.4
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ ३.५८.४ ॥
英雄啊,没有她我连片刻也无法活下去。那与我生命相依、如天神之女的悉多在哪里?
3.58.5
पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण।
विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ ३.५८.५ ॥
罗什曼那啊,没有那如金光般的遮那伽之女,即便是诸天的主宰之位,乃至大地的王权,我也不愿要。
3.58.6
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम।
कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति ॥ ३.५८.६ ॥
维德赫希比我的生命还亲爱,她是否仍然活着?英雄啊,我的流放岂不会徒劳无功?
3.58.7
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि।
कच्चित् सकामा कैकेयी सुखिता सा भविष्यति ॥ ३.५८.७ ॥
苏弥special之子啊,若我因悉多而死,你也离去,那么吉凯伊能否心愿得偿而快乐?
3.58.8
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी।
उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम् ॥ ३.५८.८ ॥
失去儿子的苦行女考莎利亚,会温和地侍奉吉凯伊吗?吉凯伊已得子、得国、心愿成就。
3.58.9
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः।
संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ ३.५८.९ ॥
若毗提诃(悉多)尚在,我便再回到苦行林;若她已遭不测,罗什曼,我便舍弃性命。
3.58.10
यदि मामाश्रमगतं वैदेही नाभिभाषते।
पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ ३.५८.१० ॥
若我回到苦行林,毗提诃(悉多)不与我说话——她从前总是笑着迎到我面前——罗什曼啊,我便将毁灭。
3.58.11
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा।
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥ ३.५८.११ ॥
罗什曼啊,告诉我:毗提诃(悉多)还活着吗?还是你疏忽之时,罗刹把这位苦行女吃掉了?
3.58.12
सुकुमारी च बाला च नित्यं चादुःखभागिनी।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ ३.५८.१२ ॥
毗提诃(悉多)娇柔年少,从不知愁苦,如今与我分离,心中必定忧伤,正在悲叹。
3.58.13
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना।
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ ३.५८.१३ ॥
那狡诈、心肠极恶的罗刹大声呼喊“罗什曼那!”,确实也使你心生恐惧。
3.58.14
श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ ३.५८.१४ ॥
我想毗提诃(悉多)听到了与我声音相似的那声音,她惊恐之下急忙派你来看我,于是你来了。
3.58.15
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ ३.५८.१५ ॥
然而你在森林中抛弃了悉多,确实做了极痛苦的事,给了残忍的罗刹报复的机会。
3.58.16
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः।
तैः सीता निहता घोरैर्भविष्यति न संशयः ॥ ३.५८.१६ ॥
因哀悼羯罗而悲痛的食肉罗刹,必定已让那些可怖之徒杀害了悉多,毫无疑问。
3.58.17
अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन।
किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ ३.५८.१७ ॥
唉!我已完全陷入灾祸之中,啊,灭敌者!如今我该怎么办呢?我担心这样的境遇正等着我。
3.58.18
आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ ३.५८.१८ ॥
他与罗什曼那一同急速来到了人住地。
3.58.19
विगर्हमाणोऽनुजमार्तरूपं
क्षुधाश्रमेणैव पिपासया च।
विनिःश्वसन् शुष्कमुखो विषण्णः
प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ ३.५८.१९ ॥
他责备因饥渴疲惫而痛苦的弟弟,深深叹息,面容干枯,郁郁不乐地到达住处,看到那里空无一人。
3.58.20
स्वमाश्रमं स प्रविगाह्य वीरो
विहारदेशाननुसृत्य कांश्चित्।
एतत्तदित्येव निवासभूमौ
प्रहृष्टरोमा व्यथितो बभूव ॥ ३.५८.२० ॥
这位英雄进入自己的修行处,在一些游憩之所寻找,心想'就是这里',毛发竖起,在住处感到痛苦。