蚁垤《罗摩衍那》 · 篇 3.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.60.1
भृशमाव्रजमानस्य तस्याधो वामलोचनम्।
प्रास्फुरच्चास्खलद् रामो वेपथुश्चास्य जायते ॥ ३.६०.१ ॥
他急速前行时,左眼剧烈跳动;罗摩脚下一绊,身体开始颤抖。
3.60.2
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः।
अपि क्षेमं तु सीताया इति वै व्याजहार ह ॥ ३.६०.२ ॥
他一再注意到那些不祥的征兆,说道:“悉多安好吗?”
3.60.3
त्वरमाणो जगामाथ सीतादर्शनलालसः।
शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ ३.६०.३ ॥
渴望见到悉多,他急忙前行;看到空无一人的住所,他的心中焦躁不安。
3.60.4
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः।
तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ॥ ३.६०.४ ॥
罗怙族的喜悦者疾步四处奔走,仿佛失了神志,到处环视那草屋的所在。
3.60.5
ददर्श पर्णशालां च सीतया रहितां तदा।
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥ ३.६०.५ ॥
那时他看见树叶搭成的草屋已没有悉多,失去光彩,残破荒凉,如同寒季的莲池。
3.60.6
रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम्।
श्रिया विहीनं विध्वस्तं संत्यक्तं वनदैवतैः ॥ ३.६०.६ ॥
仿佛与树木一同哭泣:花朵凋谢,鹿与鸟已不见;失去光彩,残破,被林中神灵抛弃。
3.60.7
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्।
दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ॥ ३.६०.७ ॥
看到散落的鹿皮和吉祥草,抛弃的草席,以及空荡荡的草屋旧址,他一次又一次地悲叹。
3.60.8
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति।
निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥ ३.६०.८ ॥
她或许被劫走了,或许死了,或许失散了,或许被吞食了;又或许她因恐惧而躲藏起来,或是躲进了森林寻求庇护。
3.60.9
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः।
अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ ३.६०.९ ॥
她或许去采摘花果了;或许去了莲花池,或许为取水而去了河边。
3.60.10
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्।
शोकरक्तेक्षणः श्रीमानुन्मत्त इव लक्ष्यते ॥ ३.६०.१० ॥
他竭力寻找,却在林中找不到心爱的妻子;他双眼因悲痛而通红,那位光辉的人看起来像是疯了一般。
3.60.11
वृक्षाद् वृक्षं प्रधावन् स गिरींश्चापि नदीनदम्।
बभ्राम विलपन् रामः शोकपङ्कार्णवप्लुतः ॥ ३.६०.११ ॥
罗摩从一棵树跑到另一棵树,在山间、河流和溪流边悲叹,四处徘徊,沉没在悲痛与泥淖的大海之中。
3.60.12
अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया।
कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ ३.६०.१२ ॥
啊,甘巴树!你可曾见过我那钟爱甘巴花的爱人?甘巴树啊,如果你知道,就告诉我那面容秀美的悉多吧。
3.60.13
स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्।
शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी ॥ ३.६०.१३ ॥
菩提树啊,若你见过她,请告诉我:她容光如嫩芽,身着黄色丝衣,乳房如同木橘果实一般。
3.60.14
अथवार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्।
जनकस्य सुता तन्वी यदि जीवति वा न वा ॥ ३.६०.१४ ॥
或者,阿周那啊,请告诉我那位你心爱、也为阿周那所爱的女子:遮那迦之女,身形纤细——她是否还活着。
3.60.15
ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्।
लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ ३.६०.१५ ॥
啊,ककुभ树,你必定认识那位大腿如ककुभ树一般的摩提利;这棵树满缀藤蔓、嫩芽与繁花,确实光彩照人。
3.60.16
भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि।
एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ ३.६०.१६ ॥
蜜蜂歌咏的树木之王啊,你确实是最好的树;这棵提拉卡树必定认识那位为提拉卡所钟爱的女子。
3.60.17
अशोक शोकापनुद शोकोपहतचेतनम्।
त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥ ३.६०.१७ ॥
啊,阿输迦,驱散忧愁者,请为我这心被忧伤所伤的人成就你的名字——速让我见到我的爱人。
3.60.18
यदि ताल त्वया दृष्टा पक्वतालोपमस्तनी।
कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ ३.६०.१८ ॥
啊,多罗树,若你见过那乳房如熟透的多罗果的女子,请告诉我那美腰的女子——如果你对我还有一丝怜悯。
3.60.19
यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा।
प्रियां यदि विजानासि निःशङ्क कथयस्व मे ॥ ३.६०.१९ ॥
啊,莲子树!若你见过我那容光如赡部金般的爱人,或你认识她,便毫不犹豫地告诉我。
3.60.20
अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम्।
कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया ॥ ३.६०.२० ॥
啊,迦尼迦罗树,你花开得如此灿烂!若你见过那位喜爱迦尼迦罗、贞善的爱人,请告诉我。
3.60.21
चूतनीपमहासालान् पनसान् कुरवान् धवान्।
दाडिमानपि तान् गत्वा दृष्ट्वा रामो महायशाः ॥ ३.६०.२१ ॥
大名鼎鼎的罗摩走到芒果、尼波、大娑罗、波罗蜜、库罗婆、达婆和石榴树旁,观看它们。
3.60.22
बकुलानथ पुन्नागांश्चन्दनान् केतकांस्तथा।
पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥ ३.६०.२२ ॥
接着,他又向菩库罗、补那伽、檀香和科塔卡树发问,罗摩在林中显得迷乱而癫狂。
3.60.23
अथवा मृगशावाक्षीं मृग जानासि मैथिलीम्।
मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ ३.६०.२३ ॥
或者,啊,鹿啊!你可认识那眼睛如小鹿的摩图女(悉多)?她的目光如鹿一般;我的爱人或许正与母鹿在一起。
3.60.24
गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत्।
तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ ३.६०.२४ ॥
啊,象啊!若你见过那鼻子和大腿如象一般的她,我想你认识她;请告诉我,啊,象中之王。
3.60.25
शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना।
मैथिली मम विस्रब्धः कथयस्व न ते भयम् ॥ ३.६०.२५ ॥
老虎啊,若你见过我那月面般的爱妻摩ithili,请无畏地说吧,你无需害怕。
3.60.26
किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे।
वृक्षैराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ ३.६०.२६ ॥
爱妻啊,你为何奔逃?莲花眼的人啊,我确实看见了你。你为何躲在树木之中,不回答我呢?
3.60.27
तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि।
नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे ॥ ३.६०.२७ ॥
停下,停下,美腰的人啊!你对我没有怜悯吗?你太爱嬉戏了,为何要忽视我?
3.60.28
पीतकौशेयकेनासि सूचिता वरवर्णिनि।
धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥ ३.६०.२८ ॥
美貌的人啊,你那黄色的丝绸衣裳泄露了你的身份;你奔跑之时,我也已看见了你。若你对我尚有情谊,就停下吧。
3.60.29
नैव सा नूनमथवा हिंसिता चारुहासिनी।
कृच्छ्रं प्राप्तं न मां नूनं यथोपेक्षितुमर्हति ॥ ३.६०.२९ ॥
她必定不是;或许那位笑容甜美的人被人伤害了。在我身处苦难之时,她绝不应当如此忽视我。
3.60.30
व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः।
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥ ३.६०.३० ॥
显然,那位少女已被食肉的罗刹吃掉了;她的四肢被撕裂,我心爱的人已与我永别。
3.60.31
नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम्।
पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३.६०.३१ ॥
她那牙齿与嘴唇秀美、鼻子端正、耳环精美、如同满月般的面容,必定已被罗刹抓去,失去了光彩。
3.60.32
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयकोचिता।
कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ ३.६०.३२ ॥
那如金色champaka花般光泽、适合戴项链、柔美秀丽的脖颈,属于那正在哀泣的爱人,已被罗刹吞食。
3.60.33
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ।
भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ ३.६०.३३ ॥
那双手臂柔嫩如嫩芽,摇动挥舞,指尖颤抖,连同手掌、饰物和臂钏,必定已被罗刹吞食。
3.60.34
मया विरहिता बाला रक्षसां भक्षणाय वै।
सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा ॥ ३.६०.३४ ॥
那位与我分离的少女,竟仿佛只为供罗刹吞食而存在;如同被商队抛弃一般,这个有许多亲人的人被吞食了。
3.60.35
हा लक्ष्मण महाबाहो पश्यसे त्वं प्रियां क्वचित्।
हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः ॥ ३.६०.३५ ॥
“哎呀,罗什曼那,大臂者!你可曾在何处见到我的爱人?哎呀爱人,善良的人,你去了哪里?哎呀悉多!”——如此反复不停。
3.60.36
इत्येवं विलपन् रामः परिधावन् वनाद् वनम्।
क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात् ॥ ३.६०.३६ ॥
罗摩如此哀叹,从这林子奔向那林子;有时急速地游荡,有时猛然地旋转徘徊。
3.60.37
क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः।
स वनानि नदीः शैलान् गिरिप्रस्रवणानि च।
काननानि च वेगेन भ्रमत्यपरिसंस्थितः ॥ ३.६०.३७ ॥
有时他看起来像疯了一般,一心寻找他的爱人。他急速地穿行于森林、河流、山岳、山泉与林园之间,从不停留在一处。
3.60.38
तदा स गत्वा विपुलं महद् वनं
परीत्य सर्वं त्वथ मैथिलीं प्रति।
अनिष्ठिताशः स चकार मार्गणे
पुनः प्रियायाः परमं परिश्रमम् ॥ ३.६०.३८ ॥
于是他走进广阔的大森林,遍历其中的每一处。因对迈提利的希望未能实现,他又为寻找爱人付出了极大的努力。