Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.22.1

वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्।
आदावेव तु सुग्रीवं ददर्शानुजमग्रतः ॥ ४.२२.१ ॥

瓦利环顾四周,气息微弱而缓慢,首先看见了他面前的弟弟须羯哩婆。

4.22.2

तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्।
आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत् ॥ ४.२२.२ ॥

瓦利以清晰的话语,亲切地呼唤已获胜利的猴王须羯哩婆,说了这番话。

4.22.3

सुग्रीव दोषेण न मां गन्तुमर्हसि किल्बिषात्।
कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात् ॥ ४.२२.३ ॥

须羯哩婆啊,你不应因这过错而让我离开这罪孽——我被未来与心智的迷惑强行拖拽。

4.22.4

युगपद् विहितं तात न मन्ये सुखमावयोः।
सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा ॥ ४.२२.४ ॥

亲爱的弟弟,我想我们二人并非同时注定幸福;兄弟之间应有的情谊却变成了另一番模样。

4.22.5

प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्।
मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम् ॥ ४.२२.५ ॥

今日你便获得这些林中猴子的王国;也要知道,今日我也将前往毗婆娑之子(阎摩)的居所。

4.22.6

जीवितं च हि राज्यं च श्रियं च विपुलां तथा।
प्रजहाम्येष वै तूर्णमहं चागर्हितं यशः ॥ ४.२२.६ ॥

生命、王国与广大的荣华,我现在便舍弃;我无可指摘的声名,我也很快就舍弃了。

4.22.7

अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद् वचः।
यद्यप्यसुकरं राजन् कर्तुमेव त्वमर्हसि ॥ ४.२२.७ ॥

在此情形下,英雄啊,我要说的话,国王啊,虽然不易做到,你也理应去做。

4.22.8

सुखार्हं सुखसंवृद्धं बालमेनमबालिशम्।
बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम् ॥ ४.२२.८ ॥

看这位安伽达,他配得上幸福,在安逸中长大,虽是孩童却不愚钝,满面泪水地倒卧在地上。

4.22.9

मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसम्।
मया हीनमहीनार्थं सर्वतः परिपालय ॥ ४.२२.९ ॥

请全面守护这个比我的生命更亲爱的儿子,他如同我亲生的骨肉,虽与我分离,却不缺任何东西。

4.22.10

त्वमप्यस्य पिता दाता परित्राता च सर्वशः।
भयेष्वभयदश्चैव यथाहं प्लवगेश्वर ॥ ४.२२.१० ॥

猴王啊,你也是他的父亲、供养者,全面的庇护者,在危险中给予无畏,正如我一样。

4.22.11

एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः।
रक्षसां च वधे तेषामग्रतस्ते भविष्यति ॥ ४.२२.११ ॥

这位塔拉的光荣之子,勇武与你相当,在诛灭那些罗刹之时,他将走在你的前面。

4.22.12

अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे।
करिष्यत्येष तारेयस्तेजस्वी तरुणोऽङ्गदः ॥ ४.२२.१२ ॥

塔拉之子安伽达,强壮、光辉、年轻,在战场上施展勇武之后,将建立与他相称的功业。

4.22.13

सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये।
औत्पातिके च विविधे सर्वतः परिनिष्ठिता ॥ ४.२२.१३ ॥

苏舍那之女此女,于事务的微妙裁断及种种征兆之事,皆无所不精。

4.22.14

यदेषा साध्विति ब्रूयात् कार्यं तन्मुक्तसंशयम्।
नहि तारामतं किंचिदन्यथा परिवर्तते ॥ ४.२२.१४ ॥

若她说「善」,则可毫无疑虑地行此事,因为塔拉的意见从不会有任何改变。

4.22.15

राघवस्य च ते कार्यं कर्तव्यमविशङ्कया।
स्यादधर्मो ह्यकरणे त्वां च हिंस्यादमानितः ॥ ४.२२.१५ ॥

你当毫不迟疑地完成罗怙之后(罗摩)的事务;若不去做,便是非法,而受辱之人将会伤害你。

4.22.16

इमां च मालामाधत्स्व दिव्यां सुग्रीव काञ्चनीम्।
उदारा श्रीः स्थिता ह्यस्यां सम्प्रजह्यान्मृते मयि ॥ ४.२२.१६ ॥

苏羯里婆啊,戴上这条神圣的金项链吧;其中有高贵的吉祥天女(Śrī)居住,我死后,她便会离去。

4.22.17

इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्।
हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट् ॥ ४.२२.१७ ॥

波利因手足之情如此相告,须羯利婆便放下喜悦,又变得沮丧,如同被罗睺所蚀的月亮。

4.22.18

तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः।
जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम् ॥ ४.२२.१८ ॥

听了波利的话,心便平静;他行事恰当、毫不懈怠,得到许可后,便接过那条金项链。

4.22.19

तां मालां काञ्चनीं दत्त्वा दृष्ट्वा चैवात्मजं स्थितम्।
संसिद्धः प्रेत्यभावाय स्नेहादङ्गदमब्रवीत् ॥ ४.२२.१९ ॥

他将那条金花环交付,见儿子安伽达站立在前,已决意赴死,便怀着爱意对安伽达说道。

4.22.20

देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये।
सुखदुःखसहः काले सुग्रीववशगो भव ॥ ४.२२.२० ॥

今日当遵循时地,忍受喜欢与不喜欢之事,承受苦乐,适时顺从须羯哩婆。

4.22.21

यथा हि त्वं महाबाहो लालितः सततं मया।
न तथा वर्तमानं त्वां सुग्रीवो बहु मन्यते ॥ ४.२२.२१ ॥

啊,大臂者!我一直如此疼爱你,然而以你目前的行为,须羯哩婆并不十分重视你。

4.22.22

नास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम।
भर्तुरर्थपरो दान्तः सुग्रीववशगो भव ॥ ४.२२.२२ ॥

啊,降伏敌人者!不要走他敌人的道路;专心于主人的利益,克制自己,顺从须羯哩婆。

4.22.23

न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते।
उभयं हि महादोषं तस्मादन्तरदृग् भव ॥ ४.२२.२३ ॥

既不应过度表现亲情,也不应缺乏亲情;二者都是大过失。因此,你应当洞察内里。

4.22.24

इत्युक्त्वाथ विवृत्ताक्षः शरसम्पीडितो भृशम्।
विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः ॥ ४.२२.२४ ॥

说完这些,他被箭重创,双目上翻,露出可怖的牙齿,生命离他而去。

4.22.25

ततो विचुक्रुशुस्तत्र वानरा हतयूथपाः।
परिदेवयमानास्ते सर्वे प्लवगसत्तमाः ॥ ४.२२.२५ ॥

于是那里失去首领的猴子们哭喊起来;哀号之中,这些最优秀的跳跃者全都痛哭。

4.22.26

किष्किन्धा ह्यद्य शून्या च स्वर्गते वानरेश्वरे।
उद्यानानि च शून्यानि पर्वताः काननानि च ॥ ४.२२.२६ ॥

如今基什根陀已空无一人,因为猴王已升天;园林空荡,山岳与森林也都空寂。

4.22.27

हते प्लवगशार्दूले निष्प्रभा वानराः कृताः।
यस्य वेगेन महता काननानि वनानि च ॥ ४.२२.२७ ॥

跳跃者中的猛虎已被杀害,猴子们便失去了光彩;因他巨大的速度,连林木与森林都为之颤动。

4.22.28

पुष्पौघेणानुबद्ध्यन्ते करिष्यति तदद्य कः।
येन दत्तं महद् युद्धं गन्धर्वस्य महात्मनः ॥ ४.२२.२८ ॥

如今谁还会用成堆的鲜花将它们缠绕起来?曾与那伟大的乾闼婆进行大战的人,如今又在哪里?

4.22.29

गोलभस्य महाबाहोर्दश वर्षाणि पञ्च च।
नैव रात्रौ न दिवसे तद् युद्धमुपशाम्यति ॥ ४.२२.२९ ॥

与大臂的哥罗婆的那场战斗持续了十五年;无论夜间还是白天,那场战斗都未曾停息。

4.22.30

ततः षोडशमे वर्षे गोलभो विनिपातितः।
तं हत्वा दुर्विनीतं तु वाली दंष्ट्राकरालवान्।
सर्वाभयंकरोऽस्माकं कथमेष निपातितः ॥ ४.२२.३० ॥

到第十六年,哥罗婆被击倒;杀了那个狂妄者之后,以獠牙般利齿而可怖的婆利,我们所有人的恐惧者,这一位却怎会被击倒?

4.22.31

हते तु वीरे प्लवगाधिपे तदा
प्लवङ्गमास्तत्र न शर्म लेभिरे।
वनेचराः सिंहयुते महावने
यथा हि गावो निहते गवां पतौ ॥ ४.२२.३१ ॥

那位英雄、跳跃者之主被杀之后,那里的猴子们再也找不到安宁;就像在群狮出没的大森林里,牛群失去了它们的首领公牛,便无法安定。

4.22.32

ततस्तु तारा व्यसनार्णवप्लुता
मृतस्य भर्तुर्वदनं समीक्ष्य सा।
जगाम भूमिं परिरभ्य वालिनं
महाद्रुमं छिन्नमिवाश्रिता लता ॥ ४.२२.३२ ॥

于是,陷入灾难之海的多罗看见亡夫的面容,拥抱着婆梨倒在地上,就像缠绕在被砍倒的大树上的藤蔓。