ヴァールミーキのラーマーヤナ · サルガ 4.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.27.1
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्।
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् ॥ ४.२७.१ ॥
スグリーヴァが即位し、猿が洞窟に入ったのち、ラーマは弟とともにプラスラヴァナ山へ来た。
4.27.2
शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम्।
नानागुल्मलतागूढं बहुपादपसंकुलम् ॥ ४.२७.२ ॥
虎や鹿の鳴き声が響き、恐ろしい咆哮をあげる獅子に囲まれ、様々な茂みや蔓に覆われ、多くの木々が密生している。
4.27.3
ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्।
मेघराशिनिभं शैलं नित्यं शुचिकरं शिवम् ॥ ४.२७.३ ॥
熊や猿、ゴープッチャ、猫が常に訪れ、雲の塊のようで、いつも清め、吉祥をもたらす山である。
4.27.4
तस्य शैलस्य शिखरे महतीमायतां गुहाम्।
प्रत्यगृह्णीत वासार्थं रामः सौमित्रिणा सह ॥ ४.२७.४ ॥
その山の頂にある大きく広い洞窟を、ラーマはソウミトリ(ラクシュマナ)とともに住まいとして受け入れた。
4.27.5
कृत्वा च समयं रामः सुग्रीवेण सहानघः।
कालयुक्तं महद्वाक्यमुवाच रघुनन्दनः ॥ ४.२७.५ ॥
スグリーヴァと盟約を結んだのち、罪なきラーマ、ラグ家の喜びは、季節にふさわしい重要な言葉を語った。
4.27.6
विनीतं भ्रातरं भ्राता लक्ष्मणं लक्ष्मिवर्धनम्।
इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥ ४.२७.६ ॥
謙虚な弟で栄光を増すラクシュマナに、兄(ラーマ)は言った。この山の洞窟は美しく広々としており、ここでは風もほどよく吹いている。
4.27.7
अस्यां वत्स्याम सौमित्रे वर्षरात्रमरिंदम।
गिरिशृङ्गमिदं रम्यमुत्तमं पार्थिवात्मज ॥ ४.२७.७ ॥
スミトラーの子よ、敵を制する者よ、ここで雨季の夜を過ごそう。王子よ、この山頂は麗しく、このうえなく優れている。
4.27.8
श्वेताभिः कृष्णताम्राभिः शिलाभिरुपशोभितम्।
नानाधातुसमाकीर्णं नदीदर्दुरसंयुतम् ॥ ४.२७.८ ॥
この山は白・黒・銅赤色の岩に飾られ、さまざまな鉱石に満ち、川と蛙に彩られている。
4.27.9
विविधैर्वृक्षषण्डैश्च चारुचित्रलतायुतम्।
नानाविहगसंघुष्टं मयूरवरनादितम् ॥ ४.२७.९ ॥
この山は多様な木立と美しい色とりどりの蔓に彩られ、多くの鳥の声に満ち、見事な孔雀の鳴き声が響き渡る。
4.27.10
मालतीकुन्दगुल्मैश्च सिन्दुवारैः शिरीषकैः।
कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् ॥ ४.२७.१० ॥
この山はマーラティーとクンダの灌木、またシンドゥヴァーラ、シリーシャ、カダンバ、アルジュナ、サルジャの木々が花開き、飾られている。
4.27.11
इयं च नलिनी रम्या फुल्लपङ्कजमण्डिता।
नातिदूरे गुहाया नौ भविष्यति नृपात्मज ॥ ४.२७.११ ॥
王子よ、開いた蓮で飾られたこの美しい蓮池は、私たちの洞窟からそう遠くないだろう。
4.27.12
प्रागुदक्प्रवणे देशे गुहा साधु भविष्यति।
पश्चाच्चैवोन्नता सौम्य निवातेयं भविष्यति ॥ ४.२७.१२ ॥
北東へ傾斜した場所に、この洞窟はよいものとなろう。穏やかな者よ、その後方は高くなっており、風から守られるだろう。
4.27.13
गुहाद्वारे च सौमित्रे शिला समतला शिवा।
कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा ॥ ४.२७.१३ ॥
サウミトリよ、洞窟の入口には平らで吉祥な、黒く広い岩があり、砕けた黒い化粧料の山のようだ。
4.27.14
गिरिशृङ्गमिदं तात पश्य चोत्तरतः शुभम्।
भिन्नाञ्जनचयाकारमम्भोधरमिवोदितम् ॥ ४.२७.१४ ॥
親愛よ、北を見よ。この吉祥な山頂は、砕けた黒い化粧料の山のような形で、湧き上がった雲のようだ。
4.27.15
दक्षिणस्यामपि दिशि स्थितं श्वेतमिवाम्बरम्।
कैलासशिखरप्रख्यं नानाधातुविराजितम् ॥ ४.२७.१५ ॥
南の方角にそびえるそれは、白い空のようだ。カイラーサの頂に似て、様々な鉱物で輝いている。
4.27.16
प्राचीनवाहिनीं चैव नदीं भृशमकर्दमाम्।
गुहायाः परतः पश्य त्रिकूटे जाह्नवीमिव ॥ ४.२७.१६ ॥
洞窟の向こうを見よ。東へ流れ、泥の全くないあの川は、トリクータ山の上のガンジスのようだ。
4.27.17
चन्दनैस्तिलकैः सालैस्तमालैरतिमुक्तकैः।
पद्मकैः सरलैश्चैव अशोकैश्चैव शोभिताम् ॥ ४.२७.१७ ॥
それは白檀、ティラカ、サール、タマーラ、アティムクタカ、パドマカ、松、アショーカの木々で飾られている。
4.27.18
वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि।
हिन्तालैस्तिनिशैर्नीपैर्वेतसैः कृतमालकैः ॥ ४.२७.१८ ॥
ヴァーニーラ、ティミダ、バクラ、ケータカ、ヒンターラ、ティニシャ、ニーパ、ヴェータサ、クリタマーラカの木々にも満ちている。
4.27.19
तीरजैः शोभिता भाति नानारूपैस्ततस्ततः।
वसनाभरणोपेता प्रमदेवाभ्यलंकृता ॥ ४.२७.१९ ॥
岸辺に生い茂る様々な形の花々に飾られ、それはあちこちに輝く。衣と装身具をまとった女性のように、すっかり飾り立てられている。
4.27.20
शतशः पक्षिसङ्घैश्च नानानादविनादिता।
एकैकमनुरक्तैश्च चक्रवाकैरलंकृता ॥ ४.२७.२० ॥
数百の鳥の群れの様々な鳴き声に響き渡り、それぞれが自分の伴侶に寄り添う赤鴨(チャクラヴァーカ)に飾られている。
4.27.21
पुलिनैरतिरम्यैश्च हंससारससेविता।
प्रहसन्त्येव भात्येषा नानारत्नसमन्विता ॥ ४.२७.२१ ॥
非常に美しい砂州を持ち、白鳥や鶴が訪れるこの川は、まるで笑うかのように様々な宝石を備えて輝いている。
4.27.22
क्वचिन्नीलोत्पलैश्छन्ना भातिरक्तोत्पलैः क्वचित्।
क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः ॥ ४.२७.२२ ॥
ある所は青い睡蓮に覆われて輝き、ある所は赤い蓮に、またある所では白く神聖な睡蓮の蕾に飾られて見える。
4.27.23
पारिप्लवशतैर्जुष्टा बर्हिक्रौञ्चविनादिता।
रमणीया नदी सौम्य मुनिसङ्घनिषेविता ॥ ४.२७.२३ ॥
数百の水鳥が集い、孔雀や鶴の声が響くこの川は麗しい。優しき者よ、多くの聖者の群れが仕えている。
4.27.24
पश्य चन्दनवृक्षाणां पङ्क्तिः सुरुचिरा इव।
ककुभानां च दृश्यन्ते मनसैवोदिताः समम् ॥ ४.२७.२४ ॥
見よ、白檀の木々の列はなんと美しいことか。ククブハの木々も、まるで心から生じたかのように、ともに現れている。
4.27.25
अहो सुरमणीयोऽयं देशः शत्रुनिषूदन।
दृढं रंस्याव सौमित्रे साध्वत्र निवसावहे ॥ ४.२७.२५ ॥
ああ、この地は神々の住処のように実に麗しい。敵を滅ぼす者よ。スミトラーの子よ、ここで我ら二人は住んで大いに楽しもう。
4.27.26
इतश्च नातिदूरे सा किष्किन्धा चित्रकानना।
सुग्रीवस्य पुरी रम्या भविष्यति नृपात्मज ॥ ४.२७.२६ ॥
ここからそう遠くない所に、奇妙な森を持つキシュキンダーがある。王子よ、そこはスグリーヴァの美しい都となるだろう。
4.27.27
गीतवादित्रनिर्घोषः श्रूयते जयतां वर।
नदतां वानराणां च मृदङ्गाडम्बरैः सह ॥ ४.२७.२७ ॥
勝者の中で最も優れた者よ、歌と楽器の響きが聞こえる。太鼓の轟きとともに、猿たちの吠え声も聞こえる。
4.27.28
लब्ध्वा भार्यां कपिवरः प्राप्य राज्यं सुहृद्वृतः।
ध्रुवं नन्दति सुग्रीवः सम्प्राप्य महतीं श्रियम् ॥ ४.२७.२८ ॥
妻を得て王国を手に入れ、友に囲まれた猿の中の勇者スグリーヴァは、大いなる栄華を得て、きっと喜んでいる。
4.27.29
इत्युक्त्वा न्यवसत् तत्र राघवः सहलक्ष्मणः।
बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ ॥ ४.२७.२९ ॥
こう言って、ラーガヴァはラクシュマナと共に、多くの見える洞窟のある茂みを持つプラスラヴァナ山に住んだ。
4.27.30
सुसुखे हि बहुद्रव्ये तस्मिन् हि धरणीधरे।
वसतस्तस्य रामस्य रतिरल्पापि नाभवत् ॥ ४.२७.३० ॥
その極めて快適で多くの物に富んだ山に住んでいても、ラーマはわずかな喜びすら感じなかった。
4.27.31
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्।
उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः ॥ ४.२७.३१ ॥
命よりも大切な、奪われた妻を思い出し、とりわけ地平線から昇る月を見て。
4.27.32
आविवेश न तं निद्रा निशासु शयनं गतम्।
तत्समुत्थेन शोकेन बाष्पोपहतचेतनम् ॥ ४.२७.३२ ॥
夜、床に横たわっても眠りは訪れず、その悲しみから生じた涙によって意識は曇っていた。
4.27.33
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्।
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयं वचः ॥ ४.२७.३३ ॥
嘆き悲しみ、常に悲嘆に沈むカクツトの裔(ラーマ)に、同じ悲しみを分かち合う弟ラクシュマナが慰めの言葉をかけた。
4.27.34
अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि।
शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते ॥ ४.२७.३४ ॥
もう十分です、勇士よ。苦悩に陥って、あなたは嘆くべきではありません。嘆く者の目的はすべて崩れ去るのです。それはあなたもご存じのはずです。
4.27.35
भवान् क्रियापरो लोके भवान् देवपरायणः।
आस्तिको धर्मशीलश्च व्यवसायी च राघव ॥ ४.२७.३५ ॥
あなたは世にあって行いに励み、神々に帰依しています。ラーガヴァよ、あなたは信仰深く、徳を重んじ、決意の固い方です。
4.27.36
न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः।
समर्थस्त्वं रणे हन्तुं विक्रमे जिह्मकारिणम् ॥ ४.२७.३६ ॥
決意のない者は、あの羅刹の敵、とりわけ、殺すことはできません。あなたは戦いにおいて勇猛によって、あの欺く者を殺すことができるのです。
4.27.37
समुन्मूलय शोकं त्वं व्यवसायं स्थिरीकुरु।
ततः सपरिवारं तं राक्षसं हन्तुमर्हसि ॥ ४.२७.३७ ॥
悲しみを根こそぎ抜き去り、決意を固めよ。そうすれば、あの羅刹を眷属もろともに討つことができよう。
4.27.38
पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्।
परिवर्तयितुं शक्तः किं पुनस्तं हि रावणम् ॥ ४.२७.३८ ॥
カークツトゥ(ラーマ)よ、海と森と山を伴うこの大地さえも覆すことができよう。まして、あのラーヴァナなど言うまでもない。
4.27.39
शरत्कालं प्रतीक्षस्व प्रावृट्कालोऽयमागतः।
ततः सराष्ट्रं सगणं रावणं तं वधिष्यसि ॥ ४.२७.३९ ॥
秋の季節を待て。今や雨季が来た。その時、王国と軍勢もろともにあのラーヴァナを討つであろう。
4.27.40
अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये।
दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् ॥ ४.२७.४० ॥
私は、あなたの眠っている勇気を目覚めさせよう。ちょうど適切な時に、燃え盛る供物によって灰に覆われた火を燃え立たせるように。
4.27.41
लक्ष्मणस्य हि तद् वाक्यं प्रतिपूज्य हितं शुभम्।
राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् ॥ ४.२७.४१ ॥
ラクシュマナの有益で吉祥な言葉を尊重し、ラーガヴァ(ラーマ)は親しい友にこのように語った。
4.27.42
वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च।
सत्यविक्रमयुक्तेन तदुक्तं लक्ष्मण त्वया ॥ ४.२७.४२ ॥
ラクシュマナよ、献身的で、慈しみ深く、有益で、真の勇気を備えた者が言うべきことを、あなたは言ったのだ。
4.27.43
एष शोकः परित्यक्तः सर्वकार्यावसादकः।
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् ॥ ४.२७.४३ ॥
あらゆる事業を挫くこの悲しみは捨てられた。武勇における妨げなき威光を私は奮い立たせる。
4.27.44
शरत्कालं प्रतीक्षिष्ये स्थितोऽस्मि वचने तव।
सुग्रीवस्य नदीनां च प्रसादमनुपालयन् ॥ ४.२७.४४ ॥
私は秋を待とう。あなたの言葉に堅く立ち、スグリーヴァと川々の好意を守りながら。
4.27.45
उपकारेण वीरस्तु प्रतिकारेण युज्यते।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥ ४.२७.४५ ॥
英雄は恩に報いることによってこそ、それと結ばれる。恩知らずで報いられない者は、徳ある人々の心を傷つける。
4.27.46
तदेव युक्तं प्रणिधाय लक्ष्मणः
कृताञ्जलिस्तत् प्रतिपूज्य भाषितम्।
उवाच रामं स्वभिरामदर्शनं
प्रदर्शयन् दर्शनमात्मनः शुभम् ॥ ४.२७.४६ ॥
ラクシュマナはそれこそ正しいと心に定め、合掌してその言葉を敬い、吉祥な姿を示しながら、自然に心地よい姿のラーマに語った。
4.27.47
यथोक्तमेतत् तव सर्वमीप्सितं
नरेन्द्र कर्ता नचिरात् तु वानरः।
शरत्प्रतीक्षः क्षमतामिमं भवान्
जलप्रपातं रिपुनिग्रहे धृतः ॥ ४.२७.४७ ॥
王よ、おっしゃる通り、その猿がまもなくあなたの望みをすべて果たすでしょう。秋を待ち、敵を討つことに堅く立つあなたは、この降りしきる雨にしばらく耐えてください。
4.27.48
नियम्य कोपं परिपाल्यतां शरत्
क्षमस्व मासांश्चतुरो मया सह।
वसाचलेऽस्मिन् मृगराजसेविते
संवर्तयन् शत्रुवधे समर्थः ॥ ४.२७.४८ ॥
怒りを抑え、秋を待ち受けなさい。獅子が集うこの住処の山で、私とともにこの四か月を耐え忍んでください。敵を討つ力をお持ちでも。