蚁垤《罗摩衍那》 · 篇 4.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.38.1
प्रतिगृह्य च तत् सर्वमुपायनमुपाहृतम्।
वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ॥ ४.३८.१ ॥
他接受了所有带来的礼物,安慰了所有猴子,然后让他们离去。
4.38.2
विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः।
मेने कृतार्थमात्मानं राघवं च महाबलम् ॥ ४.३८.२ ॥
他送走了完成任务的成千上万只猴子,认为自己和大力的罗怙后裔(罗摩)都已达成所愿。
4.38.3
स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्।
अब्रवीत् प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ॥ ४.३८.३ ॥
罗什曼那使可怖之力的、猴群中最优秀的须羯哩婆欢喜,说出了谦恭的话语。
4.38.4
किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते।
तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् ॥ ४.३८.४ ॥
“温和的人啊,如果你愿意,就离开 Kiṣkindhā 吧。” 听了罗什曼那这番善言之后——
4.38.5
सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह।
एवं भवतु गच्छाम स्थेयं त्वच्छासने मया ॥ ४.३८.५ ॥
须羯哩婆十分欢喜,说道:“就这样吧,我们走。我会听从你的命令。”
4.38.6
तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्।
विसर्जयामास तदा ताराद्याश्चैव योषितः ॥ ४.३८.६ ॥
须羯哩婆对罗什曼那说了这些话之后,便送走了具吉祥相的罗什曼那,以及多罗等诸妇女。
4.38.7
एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्।
तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः ॥ ४.३८.७ ॥
须羯罗大声呼喊:“来吧!”那些优秀的猴子听到他的话,很快便赶来了。
4.38.8
बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः।
तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः ॥ ४.३८.८ ॥
凡是有资格见到女眷的猴子都合掌站立。于是光彩如日如王的须羯罗对前来的他们说道。
4.38.9
उपस्थापयत क्षिप्रं शिबिकां मम वानराः।
श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः ॥ ४.३८.९ ॥
“诸位猴子,快把我的轿子抬来!”那些英勇迅捷的猴子听到他的命令,
4.38.10
समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्।
तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ॥ ४.३८.१० ॥
他们把那赏心悦目的轿子抬到近前。猴王看到抬来的轿子,
4.38.11
लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्।
इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ॥ ४.३८.११ ॥
“罗什曼,请快上车。”须羯罗对苏弥陀罗之子(罗什曼)如此说完,便登上了如太阳般耀眼的金色车乘。
4.38.12
बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः।
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ ४.३८.१२ ॥
他与罗什曼一同登上那辆由众多猴子拉着的车,头顶上撑着一把白色的华盖。
4.38.13
शुक्लैश्च वालव्यजनैर्धूयमानैः समन्ततः।
शंखभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः ॥ ४.३८.१३ ॥
四周挥动着白色牦牛尾拂尘,伴随着海螺与鼓声,并受到游吟诗人的赞颂。
4.38.14
निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्।
स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः ॥ ४.३८.१४ ॥
苏格里婆获得至高的王权威仪后出发,身边有数百只勇猛的猴子,许多手持兵器。
4.38.15
परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः।
स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ॥ ४.३८.१५ ॥
他被众猴围绕,前往罗摩所在之处;抵达那处为罗摩所常驻的殊胜之地时,
4.38.16
अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः।
आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत् ॥ ४.३८.१६ ॥
威光赫赫的苏格里婆与罗什曼那一同从轿中下来;随后走近罗摩,合掌站立。
4.38.17
कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा।
तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम् ॥ ४.३८.१७ ॥
他合掌站立时,众猴也一样;罗摩看着他,如同看着池中闭合的莲花。
4.38.18
वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत्।
पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम् ॥ ४.३८.१८ ॥
庞大的猴军见到苏格里婆便欢喜;罗摩看见这位猴王以头伏于脚下,便将他扶起。
4.38.19
प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे।
परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत् ॥ ४.३८.१९ ॥
罗伽婆以爱意和极大的敬重拥抱了他;这位法性之人拥抱之后说道:“坐下吧。”
4.38.20
निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः।
धर्ममर्थं च कामं च काले यस्तु निषेवते ॥ ४.३८.२० ॥
罗摩看见他坐在地上,便说道:“凡在适当的时候修习法、利与欲者——”
4.38.21
विभज्य सततं वीर स राजा हरिसत्तम।
हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते ॥ ४.३८.२१ ॥
勇士啊,猴中最优秀者!那位国王若总是分配这些,舍弃法与利,只追求欲望——
4.38.22
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते।
अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः ॥ ४.३८.२२ ॥
他就像在树梢上睡着的人,跌落之后才醒来。专注于消灭敌人、乐于聚集朋友的人——
4.38.23
त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते।
उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन ॥ ४.३८.२३ ॥
享受三种目标之果的国王与法相应。灭敌者啊,努力的时机已经到来。
4.38.24
संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः।
एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत् ॥ ४.३८.२४ ॥
啊,猩红者之主,应与猴众和大臣们共同仔细商议。被如此说后,须羯哩婆对罗摩说了这番话。
4.38.25
प्रणष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्।
त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया ॥ ४.३८.२५ ॥
大臂者啊,因你的恩典,我重新获得了失去的荣耀、名声与猴族永久的王国。
4.38.26
तव देव प्रसादाच्च भ्रातुश्च जयतां वर।
कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषकः ॥ ४.३८.२६ ॥
神啊,胜利者中最优秀的人!凡不报答你与你兄弟之恩的人,在人间必定受人指责。
4.38.27
एते वानरमुख्याश्च शतशः शत्रुसूदन।
प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान् ॥ ४.३८.२७ ॥
灭敌者啊,这些猴族首领成百上千地来到了,那些强者还带来了大地上的所有猴子。
4.38.28
ऋक्षाश्च वानराः शूरा गोलाङ्गूलाश्च राघव।
कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः ॥ ४.३८.२८ ॥
罗怙之后啊,熊与猴子,还有勇猛的牛尾猴都来了;他们熟悉茂密的森林与险阻之地,外貌可怖。
4.38.29
देवगन्धर्वपुत्राश्च वानराः कामरूपिणः।
स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव ॥ ४.३८.२९ ॥
罗怙之后啊,那些神与乾闼婆之子、能随意变化形貌的猴族,各自被自己的军队簇拥,正在路上前行。
4.38.30
शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा।
अयुतैश्चावृता वीर शङ्कुभिश्च परंतप ॥ ४.३८.३० ॥
灭敌者啊,他们被数以百计、数十万、千万、亿万、阿由多与舜苦的猴众所环绕。
4.38.31
अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः।
समुद्राश्च परार्धाश्च हरयो हरियूथपाः ॥ ४.३८.३१ ॥
数以千万计、亿计的猴子,中等与末等的猴子,如海洋般数以千亿(parārdha)计的猴子,以及猴群的首领们。
4.38.32
आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः।
मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः ॥ ४.३८.३२ ॥
国王啊,他们将前来,勇武堪比因陀罗,形如云朵与山峰,居所在须弥山与温底耶山。
4.38.33
ते त्वामभिगमिष्यन्ति राक्षसं योद्धुमाहवे।
निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम् ॥ ४.३८.३३ ॥
他们将来到你面前,在战场上与罗刹作战;在战斗中杀死罗波那后,他们必将迎回迈提利。
4.38.34
ततः समुद्योगमवेक्ष्य वीर्यवान्
हरिप्रवीरस्य निदेशवर्तिनः।
बभूव हर्षाद् वसुधाधिपात्मजः
प्रबुद्धनीलोत्पलतुल्यदर्शनः ॥ ४.३८.३४ ॥
于是,勇猛的地王之子见到听从猴英雄中之翘楚须羯哩婆号令的大军已作好准备,心中充满喜悦,容貌变得如盛开的青莲一般。