ヴァールミーキのラーマーヤナ · サルガ 4.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.4.1
ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः।
श्रुत्वा मधुरभावं च सुग्रीवं मनसा गतः ॥ ४.४.१ ॥
そこでハヌマーンは「務めを果たした者」というその言葉に喜び、心の中でスグリーヴァの穏やかな人柄を悟った。
4.4.2
भाव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः।
यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम् ॥ ४.४.२ ॥
偉大なスグリーヴァに王位が訪れることは確かである。務めを果たす者がここに来て、この務めもすでに近づいているからだ。
4.4.3
ततः परमसंहृष्टो हनूमान् प्लवगोत्तमः।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ ४.४.३ ॥
そこでたいそう喜んだ猿の中の最良者ハヌマーンは、弁舌に長けて、ラーマにこれらの言葉を告げた。
4.4.4
किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्।
आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥ ४.४.४ ॥
弟御と共に、パンパーの森で彩られ、様々な猛獣や獣に満ちたこの恐ろしく通行の難しい森へ、何のためにおいでになったのですか。
4.4.5
तस्य तद् वचनं श्रुत्वा लक्ष्मणो रामचोदितः।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ ४.४.५ ॥
その言葉を聞いて、ラーマに促されたラクシュマナは、ダシャラタの子である偉大なラーマを紹介した。
4.4.6
राजा दशरथो नाम द्युतिमान् धर्मवत्सलः।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभिपालयन् ॥ ४.४.६ ॥
ダシャラタという王がおられた。輝きに満ち、法を愛し、四姓をそれぞれの法に従って常に守護していた。
4.4.7
न द्वेष्टा विद्यते तस्य स तु द्वेष्टि न कंचन।
स तु सर्वेषु भूतेषु पितामह इवापरः ॥ ४.४.७ ॥
彼には敵がなく、誰をも憎まない。すべての生き物に対して、彼はもう一人の祖父(ブラフマー)のようである。
4.4.8
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ ४.४.८ ॥
これは彼の長男で、人々にはラーマの名で知られている。彼はアグニシュトーマなどの祭祀を、豊かな布施とともに行った。
4.4.9
शरण्यः सर्वभूतानां पितुर्निर्देशपारगः।
ज्येष्ठो दशरथस्यायं पुत्राणां गुणवत्तरः ॥ ४.४.९ ॥
彼はすべての生き物の拠り所であり、父の命令を完全に成し遂げた者である。ダシャラタの長男であるこの人は、息子たちの中で最も徳高い。
4.4.10
राजलक्षणसंयुक्तः संयुक्तो राज्यसम्पदा।
राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः ॥ ४.४.१० ॥
王者の相と王国の富を備えた彼は、王国を追われ、私とともに森に住むためにここへ来た。
4.4.11
भार्यया च महाभाग सीतयानुगतो वशी।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ ४.४.११ ॥
大いなる幸運の人よ、妻シーターを伴い、自制し大いに輝くラーマが従っている。日の終わりに陽がその光とともにあるように。
4.4.12
अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ ४.४.१२ ॥
私は彼の弟で、その徳ゆえに従者となった者である。感謝の心あり、多くを知る彼の名はラクシュマナである。
4.4.13
सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः।
ऐश्वर्येण विहीनस्य वनवासे रतस्य च ॥ ४.४.१३ ॥
幸福と大いなる敬意にふさわしく、本性は万物の利益に向かう人。王権を失ったが、森での暮らしを喜ぶ。
4.4.14
रक्षसापहृता भार्या रहिते कामरूपिणा।
तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता ॥ ४.४.१४ ॥
人里離れた所で、望む姿になれる羅刹が彼の妻を奪い去った。その羅刹が誰なのか、誰の妻を奪ったのか、知られていない。
4.4.15
दनुर्नाम दितेः पुत्रः शापाद् राक्षसतां गतः।
आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥ ४.४.१५ ॥
ディティの子ダヌは呪いによって羅刹となった。彼が、有能な猿族の王スグリーヴァの名を告げたのである。
4.4.16
स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्।
एवमुक्त्वा दनुः स्वर्गं भ्राजमानो दिवं गतः ॥ ४.४.१६ ॥
その大いなる勇者が、君の妻を奪った者を知るだろう。こう言い残して、ダヌは輝きながら天へ去った。
4.4.17
एतत् ते सर्वमाख्यातं याथातथ्येन पृच्छतः।
अहं चैव च रामश्च सुग्रीवं शरणं गतौ ॥ ४.४.१७ ॥
君が真実に尋ねたので、これらすべてを語った。私もラーマも、スグリーヴァに庇護を求めたのだ。
4.4.18
एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ ४.४.१८ ॥
かつて世界の主であった彼は、財を施し最上の名声を得たが、今やスグリーヴァを主君・庇護者として望んでいる。
4.4.19
सीता यस्य स्नुषा चासीच्छरण्यो धर्मवत्सलः।
तस्य पुत्रः शरण्यश्च सुग्रीवं शरणं गतः ॥ ४.४.१९ ॥
その義理の娘はシーターであり、庇護者で法を愛する方であった。その息子もまた庇護者であるが、スグリーヴァの庇護を求めて来た。
4.4.20
सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा।
गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥ ४.४.२० ॥
全世界の法の魂、かつての庇護者、私の師であるラーガヴァ、その方がスグリーヴァの庇護を求めて来られたのだ。
4.4.21
यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः।
स रामो वानरेन्द्रस्य प्रसादमभिकांक्षते ॥ ४.४.२१ ॥
その恩寵によってこれらの民が常に喜ぶであろう方、そのラーマが猿王の恩寵を望んでおられる。
4.4.22
येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः।
मानिताः सततं राज्ञा सदा दशरथेन वै ॥ ४.४.२२ ॥
地上のすべての徳を備えた王たちは、いつもその方によって絶えず敬われた——まさにダシャラタ王によって、常に。
4.4.23
तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः।
सुग्रीवं वानरेन्द्रं तु रामः शरणमागतः ॥ ४.४.२३ ॥
彼の長子は三界に名高い。そのラーマ自身が猿王スグリーヴァの庇護を求めて来られた。
4.4.24
शोकाभिभूते रामे तु शोकार्ते शरणं गते।
कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः ॥ ४.४.२४ ॥
悲しみに打ちのめされ、憂いに苦しむラーマが庇護を求めて来られた。スグリーヴァは配下の将たちとともに、その方に恩寵を施すべきである。
4.4.25
एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्।
हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ ४.४.२५ ॥
このように哀れに涙を流して語るサウミトリ(ラクシュマナ)に、弁舌に巧みなハヌマーンはこの言葉を述べた。
4.4.26
ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः।
द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥ ४.४.२६ ॥
このように知恵に恵まれ、怒りを克服し感覚を制御した人々は、猿王に見えるべき人である。幸いにも、あなた方は彼の御前に来られた。
4.4.27
स हि राज्याश्च विभ्रष्टः कृतवैरश्च वालिना।
हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम् ॥ ४.४.२७ ॥
彼は王国を失い、ヴァーリンと敵対し、妻を奪われ、森で怯えて暮らし、兄によってひどく虐げられている。
4.4.28
करिष्यति स साहाय्यं युवयोर्भास्करात्मजः।
सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥ ४.४.२८ ॥
太陽の子スグリーヴァはあなた方お二人を助けるでしょう。そして私たちとともにシーターの捜索に加わるでしょう。
4.4.29
इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा।
बभाषे साधु गच्छामः सुग्रीवमिति राघवम् ॥ ४.४.२९ ॥
このように述べて、ハヌマーンは優しく甘い声で言った。「よろしい。ラーガヴァを連れてスグリーヴァのもとへ行こう。」
4.4.30
एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ ४.४.३० ॥
このように語るハヌマーンを、義の心をもつラクシュマナは相応しく敬い、ラーガヴァにこの言葉を述べた。
4.4.31
कपिः कथयते हृष्टो यथायं मारुतात्मजः।
कृत्यवान् सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥ ४.४.३१ ॥
喜んだ猿は言った。「風の子がその務めを果たして戻ってきた。ラーガヴァよ、あなたは目的を成し遂げられた。」
4.4.32
प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते।
नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥ ४.४.३२ ॥
彼の顔と様子は晴れやかで、明らかに喜びをもって話している。英雄であり風の子であるハヌマーンは、偽りを語らない。
4.4.33
ततः स सुमहाप्राज्ञो हनूमान् मारुतात्मजः।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ ४.४.३३ ॥
そこで非常に賢い風の子ハヌマーンは、その二人の英雄ラーガヴァを連れて猿の王のもとへ行った。
4.4.34
भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥ ४.४.३४ ॥
托鉢僧の姿を捨て猿の姿をとって、その猿の中の象は二人の英雄を背に乗せて出発した。
4.4.35
स तु विपुलयशाः कपिप्रवीरः
पवनसुतः कृतकृत्यवत् प्रहृष्टः।
गिरिवरमुरुविक्रमः प्रयातः
स शुभमतिः सह रामलक्ष्मणाभ्याम् ॥ ४.४.३५ ॥
広大な名声をもつ、猿の英雄の中の第一人者、風の子は、務めを果たしたかのように大いに喜び、偉大な勇者にして善き心の彼は、ラーマとラクシュマナとともに最高の山へと出発した。