Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.49.1

अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्।
परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः ॥ ४.४९.१ ॥

那时,大智慧的安伽陀虽已疲惫,却缓缓平复气息,对所有猴众说了这番话。

4.49.2

वनानि गिरयो नद्यो दुर्गाणि गहनानि च।
दरी गिरिगुहाश्चैव विचिताः सर्वमन्ततः ॥ ४.४९.२ ॥

森林、山岭、河流、险峻与密林之地、洞穴与山间幽谷,四面八方都已搜遍。

4.49.3

तत्र तत्र सहास्माभिर्जानकी न च दृश्यते।
तथा रक्षोऽपहर्ता च सीतायाश्चैव दुष्कृती ॥ ४.४९.३ ॥

我们一起到处寻找,却不见耶那其(悉多),也找不到那个掳走悉多的恶行罗刹。

4.49.4

कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः।
तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः ॥ ४.४९.४ ॥

我们已耽误了很久,而且须陀罗(须羯利婆)号令严厉。因此,你们大家一起四面搜寻吧。

4.49.5

विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्।
विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम् ॥ ४.४९.५ ॥

抛开懈怠、悲伤与涌上来的睡意,继续搜寻吧,让我们能见到生于遮那伽的女儿悉多。

4.49.6

अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्।
कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम् ॥ ४.४९.६ ॥

不灰心、善于应变、心志不可屈服——据说这些能成就事业,所以我这样说。

4.49.7

अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः।
खेदं त्यक्त्वा पुनः सर्वं वनमेव विचिन्वताम् ॥ ४.४९.७ ॥

愿林中居民仍搜寻这片艰险的森林;抛开疲倦,再把整片森林搜寻一遍。

4.49.8

अवश्यं कुर्वतां तस्य दृश्यते कर्मणः फलम्।
परं निर्वेदमागम्य नहि नोन्मीलनं क्षमम् ॥ ४.४९.८ ॥

行动者必定能见到行动的果实;但陷入绝望并不合适,因为那无法开启双眼。

4.49.9

सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः।
भेतव्यं तस्य सततं रामस्य च महात्मनः ॥ ४.४९.९ ॥

须羯罗婆是一位易怒的国王,刑罚严厉,诸位猴子啊;应当时刻畏惧他,也应畏惧大德罗摩。

4.49.10

हितार्थमेतदुक्तं वः क्रियतां यदि रोचते।
उच्यतां हि क्षमं यत् तत् सर्वेषामेव वानराः ॥ ४.४९.१० ॥

这是为了你们的利益而说的;如果你们喜欢,就照做吧。诸位猴子啊,应说出对所有人都合宜的话。

4.49.11

अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः।
उवाच व्यक्तया वाचा पिपासाश्रमखिन्नया ॥ ४.४९.११ ॥

甘陀摩陀那听了安伽陀的话,以清晰的声音说道,他因口渴和疲劳而困顿。

4.49.12

सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह।
हितं चैवानुकूलं च क्रियतामस्य भाषितम् ॥ ४.४९.१२ ॥

安伽陀所说的话实在适合你们;他的言辞有益且顺耳,请照他的话去做吧。

4.49.13

पुनर्मार्गामहे शैलान् कन्दरांश्च शिलांस्तथा।
काननानि च शून्यानि गिरिप्रस्रवणानि च ॥ ४.४९.१३ ॥

让我们再次搜寻群山、洞穴和岩石,荒僻的森林以及山间的泉流。

4.49.14

यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना।
विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि संगताः ॥ ४.४९.१४ ॥

按照大度的须羯里所指示的,你们众人齐心搜寻所有这些地方,包括森林与山中的险要之处。

4.49.15

ततः समुत्थाय पुनर्वानरास्ते महाबलाः।
विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम् ॥ ४.४९.१५ ॥

那些大力的猴子再次起身,向遍布温狄耶山林的南方漫游而去。

4.49.16

ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्।
शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः ॥ ४.४९.१६ ॥

那些猴子登上了如秋云般壮丽的银山,那山有诸多山峰与洞穴。

4.49.17

तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च।
विचिन्वन्तो हरिवराः सीतादर्शनकांक्षिणः ॥ ४.४९.१७ ॥

那里有一片美丽的罗陀树林和七叶树林;渴望见到悉多的众猴中的佼佼者在那里搜寻。

4.49.18

तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः।
न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम् ॥ ४.४९.१८ ॥

众猴登上山顶,疲惫不堪,却未能见到罗摩的爱妃、正妻毗提诃。

4.49.19

ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम्।
अध्यारोहन्त हरयो वीक्षमाणाः समन्ततः ॥ ४.४९.१९ ॥

众猴望见那座洞穴众多的山峦映入眼帘,四面张望,便攀登上去。

4.49.20

अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः।
स्थिता मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः ॥ ४.४९.२० ॥

随后他们下到地面,疲惫不堪、心神沮丧,在那里靠着一棵树根站了片刻。

4.49.21

ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः।
पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम् ॥ ४.४९.२१ ॥

他们片刻间稍稍安定,疲劳也略有缓解,便再次准备好搜寻整个南方。

4.49.22

हनुमत्प्रमुखास्तावत् प्रस्थिताः प्लवगर्षभाः।
विन्ध्यमेवादितः कृत्वा विचेरुश्च समन्ततः ॥ ४.४९.२२ ॥

以哈努曼为首的那些猴中雄杰启程出发;以温底耶山为起点,他们四处奔走搜寻。