蚁垤《罗摩衍那》 · 篇 4.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.54.1
तथा ब्रुवति तारे तु ताराधिपतिवर्चसि।
अथ मेने हृतं राज्यं हनूमानङ्गदेन तत् ॥ ४.५४.१ ॥
塔拉如此说话时,她光辉如星主(月亮),哈奴曼于是认为那王国已被angada夺去。
4.54.2
बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्।
चतुर्दशगुणं मेने हनूमान् वालिनः सुतम् ॥ ४.५४.२ ॥
Hanumān认为具备八支智慧、拥有四种力量的伐利之子,比常人强十四倍。
4.54.3
आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः।
शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया ॥ ४.५४.३ ॥
不断被光辉、力量和勇武充满,如同白半月之初的月亮,以光彩渐渐增长。
4.54.4
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः।
शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम् ॥ ४.५४.४ ॥
智慧如同布里哈斯帕蒂,勇武如同其父,侍奉塔拉,正如舍罗侍奉因陀罗。
4.54.5
भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदः।
अभिसंधातुमारेभे हनूमानङ्गदं ततः ॥ ४.५४.५ ॥
精通一切学问的哈奴曼,便开始争取因为侍奉主君而疲惫的安伽陀。
4.54.6
स चतुर्णामुपायानां तृतीयमुपवर्णयन्।
भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा ॥ ४.५४.६ ॥
他讲述四种策略中的第三种——离间之计,以其言辞之丰富,使所有那些猴子彼此分裂。
4.54.7
तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्।
भीषणैर्विविधैर्वाक्यैः कोपोपायसमन्वितैः ॥ ४.५४.७ ॥
当他们全部被离间之后,他便以充满愤怒与计谋的可怕而多样的言辞恐吓安伽达。
4.54.8
त्वं समर्थतरः पित्रा युद्धे तारेय वै ध्रुवम्।
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ ४.५४.८ ॥
塔拉之子啊,在战斗中你确实比你的父亲更有能力,也能像父亲一样牢固地执掌猴子的王国。
4.54.9
नित्यमस्थिरचित्ता हि कपयो हरिपुंगव।
नाज्ञाप्यं विषहिष्यन्ति पुत्रदारं विना त्वया ॥ ४.५४.९ ॥
猴子中的英杰啊,猴子心志总是不定;没有你,除了儿子和妻子,它们不会忍受你的命令。
4.54.10
त्वां नैते ह्यनुरञ्जेयुः प्रत्यक्षं प्रवदामि ते।
यथायं जाम्बवान् नीलः सुहोत्रश्च महाकपिः ॥ ४.५४.१० ॥
这些人不会真心归附你——我坦率地告诉你——正如这位贤者、尼罗与大猴苏霍特拉并不归附一样。
4.54.11
नह्यहं ते इमे सर्वे सामदानादिभिर्गुणैः।
दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ४.५४.११ ॥
这些人你都无法凭借安抚、赠予等美德,或凭武力,将他们从须羯里夺走。
4.54.12
विगृह्यासनमप्याहुर्दुर्बलेन बलीयसा।
आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ ४.५४.१२ ॥
人们说,与强者争斗,甚至会失去王位;因此,想要自保的弱者不应当争斗。
4.54.13
यां चेमां मन्यसे धात्रीमेतद् बिलमिति श्रुतम्।
एतल्लक्ष्मणबाणानामीषत् कार्यं विदारणम् ॥ ४.५४.१३ ॥
你以为这大地只是一个洞穴,正如你所听说的;但罗什曼那的箭只需稍稍将它劈开。
4.54.14
स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा।
लक्ष्मणो निशितैर्बाणैर्भिन्द्यात् पत्रपुटं यथा ॥ ४.५४.१४ ॥
往昔因陀罗掷出霹雳,所成甚微;罗什曼那以锐利的箭矢刺穿它,犹如刺穿一对树叶。
4.54.15
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः।
वज्राशनिसमस्पर्शा गिरीणामपि दारकाः ॥ ४.५४.१५ ॥
罗什曼那有许多这样的箭,其触感如同雷霆霹雳,连山岳也能劈开。
4.54.16
अवस्थानं यदैव त्वमासिष्यसि परंतप।
तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ ४.५४.१६ ॥
啊,灼烧敌人者!你一旦留在此处,所有决意已定的猴众都会离弃你。
4.54.17
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः।
खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ ४.५४.१७ ॥
他们时时思念妻子儿女,常怀忧虑,饥饿困顿,被痛苦的卧榻折磨,将从背后离你而去。
4.54.18
स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः।
तृणादपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि ॥ ४.५४.१८ ॥
你失去了朋友与真心关怀你的亲族,将会极度惊恐,即使是一根草,即使是一件颤动之物。
4.54.19
न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः।
अपवृत्तं जिघांसन्तो महावेगा दुरासदाः ॥ ४.५४.१९ ॥
即使你转身逃跑,罗什曼那的可怕箭矢也绝不会放过你;它们速度极快,难以抵挡,即便是转身逃走的人,它们也渴望将其射杀。
4.54.20
अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्।
आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ ४.५४.२० ॥
我们将你谦卑地带到他面前,然后须羯哩婆会依次将你重新安置于王位之上。
4.54.21
धर्मराजः पितृव्यस्ते प्रीतिकामो दृढव्रतः।
शुचिः सत्यप्रतिज्ञश्च स त्वां जातु न नाशयेत् ॥ ४.५४.२१ ॥
你的伯父,正法之王,渴望亲情,坚守誓言,纯洁而信守诺言,他绝不会毁灭你。
4.54.22
प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम्।
तस्यापत्यं च नास्त्यन्यत् तस्मादङ्गद गम्यताम् ॥ ४.५४.२२ ॥
他也希望你母亲的安康,他为她而活;他没有其他子嗣。因此,安加达,我们走吧。