蚁垤《罗摩衍那》 · 篇 4.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.58.1
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः।
सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः ॥ ४.५८.१ ॥
失去生存希望的猴子们如此悲切地说话,那只声音洪亮的大鹫含泪回答了猴子们。
4.58.2
यवीयान् स मम भ्राता जटायुर्नाम वानराः।
यमाख्यात हतं युद्धे रावणेन बलीयसा ॥ ४.५८.२ ॥
猴子们,你们所说的那位是我的弟弟,名叫迦吒由,他在战斗中被更强大的罗波那杀死。
4.58.3
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये।
नहि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥ ४.५८.३ ॥
因为我年老又没有翅膀,即使听到这些我也只能忍受;今天我没有力量为兄弟报仇雪恨。
4.58.4
पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ।
आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥ ४.५८.४ ॥
往昔弗栗多被杀之时,他与我都渴望胜利,飞向那被光芒环绕、熊熊燃烧的太阳。
4.58.5
आवृत्याकाशमार्गेण जवेन स्वर्गतौ भृशम्।
मध्यं प्राप्ते तु सूर्ये तु जटायुरवसीदति ॥ ४.५८.५ ॥
我们二人遮蔽天路,迅疾地升得很高;但当太阳到达天空正中时,迦吒由开始力竭。
4.58.6
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम्।
पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम् ॥ ४.५८.६ ॥
看到兄弟被太阳的光线灼烧、极为惊慌,我出于深情用双翼将他遮住。
4.58.7
निर्दग्धपत्रः पतितो विन्ध्येऽहं वानरर्षभाः।
अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये ॥ ४.५८.७ ॥
诸位猴中之雄!我的翅膀已被烧焦,坠落在毗陀山上。住在这里,我无法得知弟弟的消息。
4.58.8
जटायुषस्त्वेवमुक्तो भ्रात्रा सम्पातिना तदा।
युवराजो महाप्रज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ४.५८.८ ॥
当阁陀衍之兄桑帕提如此说时,大智慧的太子安伽达便回答道。
4.58.9
जटायुषो यदि भ्राता श्रुतं ते गदितं मया।
आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥ ४.५८.९ ॥
阁陀衍之兄,若你已听到我所说,且知道那罗刹的居所,就请告诉我们。
4.58.10
अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम्।
अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥ ४.५८.१० ॥
若你知道,请告诉我们那短视的罗刹中最卑劣的罗婆那是近是远。
4.58.11
ततोऽब्रवीन्महातेजा भ्राता ज्येष्ठो जटायुषः।
आत्मानुरूपं वचनं वानरान् सम्प्रहर्षयन् ॥ ४.५८.११ ॥
于是,阁陀衍的长兄,光辉伟大者,说出与自身相称的话语,使众猴大为欢喜。
4.58.12
निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवङ्गमाः।
वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ ४.५८.१२ ॥
诸位跳跃者啊!我是翅膀烧焦、气力已尽的秃鹫;然而仅凭言语,我将为罗摩提供最上等的帮助。
4.58.13
जानामि वारुणाँल्लोकान् विष्णोस्त्रैविक्रमानपि।
देवासुरविमर्दांश्च ह्यमृतस्य विमन्थनम् ॥ ४.५८.१३ ॥
我知晓婆罗那的诸界、毗湿奴的三步,也知晓天神与阿修罗的争斗,以及搅动甘露之事。
4.58.14
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया।
जरया च हृतं तेजः प्राणाश्च शिथिला मम ॥ ४.५८.१४ ॥
罗摩之事,本应由我先行完成;然而衰老夺去了我的精力,我的气息也已衰弱。
4.58.15
तरुणी रूपसम्पन्ना सर्वाभरणभूषिता।
ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ ४.५८.१५ ॥
我看见一位容貌美丽、身佩一切饰物的少女,正被恶毒的罗波那劫持而去。
4.58.16
क्रोशन्ती रामरामेति लक्ष्मणेति च भामिनी।
भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ॥ ४.५८.१६ ॥
那位美丽的女子高呼:“罗摩,罗摩!”“罗什曼那!”一面抛弃饰物,一面摇动身体。
4.58.17
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्।
असिते राक्षसे भाति यथा वा तडिदम्बुदे ॥ ४.५८.१७ ॥
她那上好的丝绸衣裳,如同山峰上的日光,映在那黑色的罗刹身上,又如乌云中的闪电。
4.58.18
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्।
श्रूयतां मे कथयतो निलयं तस्य रक्षसः ॥ ४.५८.१८ ॥
我想那位女子就是悉多,因为她屡次呼唤罗摩之名。现在请听我说那罗刹的居所。
4.58.19
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च।
अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ ४.५८.१९ ॥
毗室罗婆之子,实为毗沙门(俱毗罗)之兄,名为罗婆那的罗刹,居住在楞伽城中。
4.58.20
इतो द्वीपे समुद्रस्य सम्पूर्णे शतयोजने।
तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥ ४.५८.२० ॥
在此海之外,一座广达百由旬的岛上,矗立着由毗首羯磨所建的美丽楞伽城。
4.58.21
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः।
प्रासादैर्हेमवर्णैश्च महद्भिः सुसमाकृता ॥ ४.५८.२१ ॥
它以赡部那陀金制的城门、金色的台座,以及金色的宏伟宫殿装饰得十分华美。
4.58.22
प्राकारेणार्कवर्णेन महता च समन्विता।
तस्यां वसति वैदेही दीना कौशेयवासिनी ॥ ४.५८.२२ ॥
它被太阳般颜色的宏大城墙所环绕。毗提诃之女(悉多)在其中居住,悲苦憔悴,身着丝衣。
4.58.23
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता।
जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम् ॥ ४.५८.२३ ॥
在罗婆那的内宫中,被罗刹女们看守、严密守护的,是遮那迦王之女摩提利(悉多)。你们将在那里见到她。
4.58.24
लङ्कायामथ गुप्तायां सागरेण समन्ततः।
सम्प्राप्य सागरस्यान्तं सम्पूर्णं शतयोजनम् ॥ ४.५८.२४ ॥
楞伽被大海四面环绕守护。抵达那片广达百由旬的大海彼岸,便需渡过此海。
4.58.25
आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम्।
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः ॥ ४.५८.२५ ॥
到达南岸后,你们将见到罗波那。就在那里,迅速施展你们的勇武,跳跃者们。
4.58.26
ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ।
आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः ॥ ४.५८.२६ ॥
我以智慧看见,你们见过之后便会返回。第一条路属于鸣鸟,以及其他以谷物为食者。
4.58.27
द्वितीयो बलिभोजानां ये च वृक्षफलाशनाः।
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह ॥ ४.५८.२७ ॥
第二条路属于食祭物及树果的鸟。第三条路上,婆沙鸟前往,鹤鸟与鹗一同前往。
4.58.28
श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्।
बलवीर्योपपन्नानां रूपयौवनशालिनाम् ॥ ४.५८.२८ ॥
鹰走第四条路,秃鹫走第五条路,属于那些具有力量与勇气、容貌与青春的鸟。
4.58.29
षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा।
वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः ॥ ४.५८.२९ ॥
第六条路属于天鹅,乃毗那多耶(迦楼罗)的至高之行。我们的出生源自毗那多耶,啊,诸猴中的雄牛,我们众人皆然。
4.58.30
गर्हितं तु कृतं कर्म येन स्म पिशिताशिनः।
प्रतिकार्यं च मे तस्य वैरं भ्रातृकृतं भवेत् ॥ ४.५८.३० ॥
做出这件可耻之事的人,是食肉者。我必须向他报复;这份仇怨乃由兄长所起。
4.58.31
इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा।
अस्माकमपि सौपर्णं दिव्यं चक्षुर्बलं तथा ॥ ४.५८.३१ ॥
我站在这里便能看见罗波那与悉多。我们鹫族也有神圣的目力。
4.58.32
तस्मादाहारवीर्येण निसर्गेण च वानराः।
आयोजनशतात् साग्राद् वयं पश्याम नित्यशः ॥ ४.५८.३२ ॥
因此,诸猴啊,凭借食物之力与天性,我们每日都能望见百由旬乃至更远之处。
4.58.33
अस्माकं विहिता वृत्तिर्निसर्गेण च दूरतः।
विहिता वृक्षमूले तु वृत्तिश्चरणयोधिनाम् ॥ ४.५८.३३ ॥
我们的生计本就天性注定在远处(捕猎);而以足相搏者的生计则注定在树根之下。
4.58.34
उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः।
अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ ॥ ४.५८.३४ ॥
应当寻找渡过咸海的某种方法;然后前往见维德赫诃,你们将带着成功的使命而归。
4.58.35
समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्।
प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः ॥ ४.५८.३५ ॥
我希望你们带我前往婆楼那的居所——大海;在那里,我要为升入天界的高尚兄长献上水祭。
4.58.36
ततो नीत्वा तु तं देशं तीरे नदनदीपतेः।
निर्दग्धपक्षं सम्पातिं वानराः सुमहौजसः ॥ ४.५८.३६ ॥
随后,诸位威力强大的猴族将双翼焦黑的苏摩蒂带到那处,安置在河流与溪涧之主(大海)的岸边。
4.58.37
तं पुनः प्रापयित्वा च तं देशं पतगेश्वरम्।
बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते ॥ ४.५८.३७ ॥
众猴将鸟王再次送回那个地方,得知了消息,都十分欢喜。