Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.61

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.61.1

ततस्तद् दारुणं कर्म दुष्करं सहसा कृतम्।
आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा ॥ ४.६१.१ ॥

于是他向仙人讲述了自己突然所做的那可怕而艰难的行为,以及追逐太阳的全部经过。

4.61.2

भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः।
परिश्रान्तो न शक्नोमि वचनं परिभाषितुम् ॥ ४.६१.२ ॥

尊者!我身负伤痕,羞愧难当,感官慌乱,疲惫不堪,无法把话说完整。

4.61.3

अहं चैव जटायुश्च संघर्षाद् गर्वमोहितौ।
आकाशं पतितौ दूराज्जिज्ञासन्तौ पराक्रमम् ॥ ४.६१.३ ॥

我与贾塔尤因争斗而被傲慢迷惑,想要试探自己的勇力,便从远方的天空坠落下来。

4.61.4

कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्।
रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४.६१.४ ॥

我们在凯拉什峰顶,于众仙人面前打赌:必须追随太阳直到那座大山,直到它落下。

4.61.5

अप्यावां युगपत् प्राप्तावपश्याव महीतले।
रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ॥ ४.६१.५ ॥

我们二人同时到达,看见大地上一座座彼此分开的城市,大小如车轮。

4.61.6

क्वचिद् वादित्रघोषश्च क्वचिद् भूषणनिःस्वनः।
गायन्तीः स्माङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ४.६१.६ ॥

这里那里传来乐器的声响,这里那里传来饰物的叮当;我们看见许多身着红衣的女子在歌唱。

4.61.7

तूर्णमुत्पत्य चाकाशमादित्यपदमास्थितौ।
आवामालोकयावस्तद् वनं शाद्वलसंस्थितम् ॥ ४.६१.७ ॥

我们二人迅速跃上天空,立于太阳之路,俯瞰那片位于草地上的森林。

4.61.8

उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः।
आपगाभिश्च संवीता सूत्रैरिव वसुंधरा ॥ ४.६१.८ ॥

大地仿佛被石头覆盖,堆满了巨石;被河流环绕的大地,仿佛被丝线缠绕。

4.61.9

हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहागिरिः।
भूतले सम्प्रकाशन्ते नागा इव जलाशये ॥ ४.६१.९ ॥

雪山、温底耶山与大山须弥山在大地上闪耀,如同水池中的龙蛇。

4.61.10

तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः।
समाविशत मोहश्च ततो मूर्च्छा च दारुणा ॥ ४.६१.१० ॥

那时我们二人汗如雨下,疲惫与恐惧随之而来;接着迷乱侵入,又陷入可怕的昏厥。

4.61.11

न च दिग् ज्ञायते याम्या न चाग्नेयी न वारुणी।
युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ ४.६१.११ ॥

我既不辨南方,也不辨东南,更不辨西方;仿佛在劫末,那固定的世界被火焚烧击打一般。

4.61.12

मनश्च मे हतं भूयश्चक्षुः प्राप्य तु संश्रयम्।
यत्नेन महता ह्यस्मिन् मनः संधाय चक्षुषी ॥ ४.६१.१२ ॥

我的心神再次受挫,但目光找到了依托;我以极大的努力,将心神与双目凝定于此。

4.61.13

यत्नेन महता भूयो भास्करः प्रतिलोकितः।
तुल्यपृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ ४.६१.१३ ॥

我费了很大力气再次望见太阳;太阳在我们看来有大地那么大。

4.61.14

जटायुर्मामनापृच्छ्य निपपात महीं ततः।
तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ ४.६१.१४ ॥

迦吒游未经询问我便坠落在地;我看见他,便迅速从天空放下了自己。

4.61.15

पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत।
प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम् ॥ ४.६१.१५ ॥

迦吒游被我的翅膀护住,没有烧焦;但因我的疏忽,我在那里被彻底烧毁,从空中之路坠落。

4.61.16

आशङ्के तं निपतितं जनस्थाने जटायुषम्।
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ ४.६१.१६ ॥

我担心迦吒游也在罗刹国的人烟处坠落了;而我则因双翅烧焦而麻木,坠落在温底耶山上。

4.61.17

राज्याच्च हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च।
सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः ॥ ४.६१.१७ ॥

我失去了王国、兄弟、双翼与勇力,一心只想死去,我将从山峰之巅坠落。