Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 5.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.27.1

इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्च्छिताः।
काश्चिज्जग्मुस्तदाख्यातुं रावणस्य दुरात्मनः ॥ ५.२७.१ ॥

シーターにこう言われると、怒りに打ち震えた数人のラークシャシーたちは、その言葉を邪悪な魂のラーヴァナに報告しに去っていった。

5.27.2

ततः सीतामुपागम्य राक्षस्यो भीमदर्शनाः।
पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन् ॥ ५.२७.२ ॥

すると恐ろしい姿のラークシャシーたちがシーターに近づき、同じ一つの目的で再び荒々しく不吉な言葉を投げかけた。

5.27.3

अद्येदानीं तवानार्ये सीते पापविनिश्चये।
राक्षस्यो भक्षयिष्यन्ति मांसमेतद् यथासुखम् ॥ ५.२७.३ ॥

「卑しき女シーターよ、悪意を抱く者よ!今日このうちに、ラークシャシーたちはおまえのこの肉を好きなだけ喰らうだろう。」

5.27.4

सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा।
राक्षसी त्रिजटा वृद्धा प्रबुद्धा वाक्यमब्रवीत् ॥ ५.२७.४ ॥

あの卑しい女たちにシーターが脅されているのを見て、そのとき目覚めた老いたラークシャシーのトリジャターが、この言葉を口にした。

5.27.5

आत्मानं खादतानार्या न सीतां भक्षयिष्यथ।
जनकस्य सुतामिष्टां स्नुषां दशरथस्य च ॥ ५.२७.५ ॥

「卑しき女たちよ、おまえたち自身を喰らうがいい。シーターを喰らうことはできぬ。彼女はジャナカの愛しい娘であり、ダシャラタの嫁なのだから。」

5.27.6

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।
राक्षसानामभावाय भर्तुरस्या भवाय च ॥ ५.२७.६ ॥

「今日、私は恐ろしく身の毛もよだつ夢を見た。それはラークシャサたちの滅亡と、この女の夫の繁栄を告げるものだ。」

5.27.7

एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्च्छिताः।
सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः ॥ ५.२७.७ ॥

トリジャターにこう言われると、怒りに打ちのめされた羅刹女たちは、しかし怯えて、トリジャターにこの言葉を言った。

5.27.8

कथयस्व त्वया दृष्टः स्वप्नोऽयं कीदृशो निशि।
तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम् ॥ ५.२७.८ ॥

夜にあなたが見た夢がどのようなものだったか話しなさい。羅刹女たちの口から出たその言葉を聞いて。

5.27.9

उवाच वचनं काले त्रिजटा स्वप्नसंश्रितम्।
गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम् ॥ ५.२७.९ ॥

そのときトリジャターは、ちょうどよい時に夢について次の言葉を語った。象牙で作られた、神聖な、空中を進む輿である。

5.27.10

युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः।
शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः ॥ ५.२७.१० ॥

千頭の馬につながれたその輿に、ラグハヴァ自身が乗り込み、白い花輪と衣をまとい、ラクシュマナとともにやって来た。

5.27.11

स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता।
सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता ॥ ५.२७.११ ॥

そして今日、夢の中で私はシーターが白い衣に包まれ、海に囲まれた白い山の上に座っているのを見た。

5.27.12

रामेण संगता सीता भास्करेण प्रभा यथा।
राघवश्च पुनर्दृष्टश्चतुर्दन्तं महागजम् ॥ ५.२७.१२ ॥

ラーマと結ばれたシーターは、太陽とその輝きのようであった。そして再び私はラーガヴァを四本の牙を持つ大象の上に見た。

5.27.13

आरूढः शैलसंकाशं चकास सहलक्ष्मणः।
ततस्तु सूर्यसंकाशौ दीप्यमानौ स्वतेजसा ॥ ५.२७.१३ ॥

山のような象に乗り、ラクシュマナと共に輝いていた。そのとき太陽のような二人が、己の輝きで燦然と光り輝いていた。

5.27.14

शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ।
ततस्तस्य नगस्याग्रे ह्याकाशस्थस्य दन्तिनः ॥ ५.२७.१४ ॥

白い花輪と衣をまとった二人がジャーナキーのそばに立った。その後、その山の頂で、空に立つその象の上に。

5.27.15

भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता।
भर्तुरङ्कात् समुत्पत्य ततः कमललोचना ॥ ५.२७.१५ ॥

夫に抱かれたジャーナキーは、その肩にもたれかかっていた。やがて蓮華眼の女性は、夫の膝から跳び上がった。

5.27.16

चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती।
ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः।
सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः ॥ ५.२७.१६ ॥

私は月と太陽を見た。そして彼女がそれを手で拭っているのを見た。その後、その二人の王子とともに、あの立派な象の上に、広い目のシーターと共に、彼はランカーの上に立っていた。

5.27.17

पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्।
इहोपयातः काकुत्स्थः सीतया सह भार्यया ॥ ५.२७.१७ ॥

カクトゥスタ(ラーマ)ご自身が、白い牡牛に繋がれ八頭の馬で引かれた戦車に乗り、妻のシーターと共にここへ来られたのだ。

5.27.18

शुक्लमाल्याम्बरधरो लक्ष्मणेन सहागतः।
ततोऽन्यत्र मया दृष्टो रामः सत्यपराक्रमः ॥ ५.२७.१८ ॥

白い花輪と衣をまとい、ラクシュマナと共に来られた。そしてまた別の所で、真の勇猛を持つラーマを私は見た。

5.27.19

लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान्।
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसंनिभम् ॥ ५.२७.१९ ॥

勇者はラクシュマナとその兄、そしてシーターと共に、太陽のように輝く神聖な空飛ぶ車プシュパカに乗った。

5.27.20

उत्तरां दिशमालोच्य प्रस्थितः पुरुषोत्तमः।
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ॥ ५.२७.२० ॥

北の方角を見やって、人中最上の人は出立された。このように夢の中で私は、ヴィシュヌの武勇を持つラーマを見た。

5.27.21

लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया।
न हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ॥ ५.२७.२१ ॥

大いなる威光のラーマは、弟ラクシュマナと妻シーターと共にあり、神々にも阿修羅にも打ち負かすことはできない。

5.27.22

राक्षसैर्वापि चान्यैर्वा स्वर्गः पापजनैरिव।
रावणश्च मया दृष्टो मुण्डस्तैलसमुक्षितः ॥ ५.२७.२२ ॥

ラークシャサや他の罪人によって天界が奪われるかのように。そして私はラーヴァナを見た — 頭を剃られ、油を塗られて。

5.27.23

रक्तवासाः पिबन्मत्तः करवीरकृतस्रजः।
विमानात् पुष्पकादद्य रावणः पतितः क्षितौ ॥ ५.२७.२३ ॥

赤い衣をまとい、酒に酔い、夾竹桃の花輪をつけたラーヴァナは、今日プシュパカ空車から地に墜ちた。

5.27.24

कृष्यमाणः स्त्रिया मुण्डो दृष्टः कृष्णाम्बरः पुनः।
रथेन खरयुक्तेन रक्तमाल्यानुलेपनः ॥ ५.२७.२४ ॥

女に引きずられ、頭を剃られ、黒い衣を着たラーヴァナを私は再び見た — ロバに引かれた車に乗り、赤い花輪と香油をつけて。

5.27.25

पिबंस्तैलं हसन्नृत्यन् भ्रान्तचित्ताकुलेन्द्रियः।
गर्दभेन ययौ शीघ्रं दक्षिणां दिशमास्थितः ॥ ५.२७.२५ ॥

油を飲み、笑い、踊りながら、混乱した心と乱れた感覚のまま、彼はロバに乗って南の方角へ急いで去った。

5.27.26

पुनरेव मया दृष्टो रावणो राक्षसेश्वरः।
पतितोऽवाक्शिरा भूमौ गर्दभाद् भयमोहितः ॥ ५.२७.२६ ॥

私は再び羅刹王ラーヴァナを見た。恐怖に心を奪われ、ロバから頭を下にして地面に落ちていた。

5.27.27

सहसोत्थाय सम्भ्रान्तो भयार्तो मदविह्वलः।
उन्मत्तरूपो दिग्वासा दुर्वाक्यं प्रलपन् बहु ॥ ५.२७.२७ ॥

彼は突然立ち上がり、慌てふためき、恐怖に苛まれ、酔いに惑い、狂人の姿で裸のまま、多くの粗暴な言葉をつぶやいていた。

5.27.28

दुर्गन्धं दुःसहं घोरं तिमिरं नरकोपमम्।
मलपङ्कं प्रविश्याशु मग्नस्तत्र स रावणः ॥ ५.२७.२८ ॥

悪臭に満ち、耐え難く、恐ろしく、暗く、地獄のような汚泥の沼に入り、ラーヴァナはすぐにそこに沈んでしまった。

5.27.29

प्रस्थितो दक्षिणामाशां प्रविष्टोऽकर्दमं ह्रदम्।
कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥ ५.२७.२९ ॥

南の方角へ出発し、彼は泥のない池に入った。そこでは赤い衣をまとった女性が、十頭のラーヴァナの首に縄を結びつけて引きずっていた。

5.27.30

काली कर्दमलिप्तांगी दिशं याम्यां प्रकर्षति।
एवं तत्र मया दृष्टः कुम्भकर्णो महाबलः ॥ ५.२७.३० ॥

泥にまみれた体の黒い女が、彼を南の方角へ引きずっていた。このようにして私はそこで、大力のクンバカルナをも見た。

5.27.31

रावणस्य सुताः सर्वे मुण्डास्तैलसमुक्षिताः।
वराहेण दशग्रीवः शिशुमारेण चेन्द्रजित् ॥ ५.२७.३१ ॥

ラーヴァナの息子たちは皆、頭を剃り油を塗っていた。十頸のラーヴァナは猪に、インドラジットは海豚に乗っていた。

5.27.32

उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्।
एकस्तत्र मया दृष्टः श्वेतच्छत्रो विभीषणः ॥ ५.२७.३२ ॥

クンバカルナはラクダに乗って南へ向かった。そこで私は一人を見た──白い日傘を掲げたヴィビーシャナを。

5.27.33

शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः।
शङ्खदुन्दुभिनिर्घोषैर्नृत्तगीतैरलंकृतः ॥ ५.२७.३३ ॥

白い花輪と衣をまとい、白い香を塗り、ほら貝と太鼓の響き、歌舞に飾られていた。

5.27.34

आरुह्य शैलसंकाशं मेघस्तनितनिःस्वनम्।
चतुर्दन्तं गजं दिव्यमास्ते तत्र विभीषणः ॥ ५.२७.३४ ॥

山のごとく、雷雲のような咆哮をあげる四牙の神象に乗り、ヴィビーシャナはそこに座している。

5.27.35

चतुर्भिः सचिवैः सार्धं वैहायसमुपस्थितः ॥ ५.२७.३५ ॥

四人の大臣とともに、ヴィビーシャナが空路から現れた。

5.27.36

समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः।
पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम् ॥ ५.२७.३६ ॥

赤い花輪と赤い衣をまとい酒を飲む羅刹たちの大きな集いが催され、歌と楽器の音が響いていた。

5.27.37

लङ्का चेयं पुरी रम्या सवाजिरथकुञ्जरा।
सागरे पतिता दृष्टा भग्नगोपुरतोरणा ॥ ५.२७.३७ ॥

馬と戦車と象に満ちた美しいラーンカー城市が、海に落ちて横たわっているのが見え、その城門と楼門は砕けていた。

5.27.38

लङ्का दृष्टा मया स्वप्ने रावणेनाभिरक्षिता।
दग्धा रामस्य दूतेन वानरेण तरस्विना ॥ ५.२७.३८ ॥

夢の中で、ラーヴァナに守られたラーンカーを私は見た。それはラーマの使者である勇猛な猿によって焼かれた。

5.27.39

पीत्वा तैलं प्रमत्ताश्च प्रहसन्त्यो महास्वनाः।
लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः ॥ ५.२७.३९ ॥

油を飲んで酔い、大声で笑う羅刹の女たちは皆、灰に乾いたラーンカーにいた。

5.27.40

कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः।
रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदम् ॥ ५.२७.४० ॥

クンバカルナをはじめとするこれら羅刹の最上位の者たちは皆、赤い衣を手に取り、牛糞の池に入った。

5.27.41

अपगच्छत पश्यध्वं सीतामाप्नोति राघवः।
घातयेत् परमामर्षी युष्मान् सार्धं हि राक्षसैः ॥ ५.२७.४१ ॥

立ち去れ!見よ、ラーghavaはシーターを得るだろう。激しく怒り、羅刹たちと共にお前たちを殺すだろう。

5.27.42

प्रियां बहुमतां भार्यां वनवासमनुव्रताम्।
भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः ॥ ५.२७.४२ ॥

森での流浪に従った、愛する、大いに敬われる妻が叱られ脅されたとしても、ラーghavaはそれを認めないだろう。

5.27.43

तदलं क्रूरवाक्यैश्च सान्त्वमेवाभिधीयताम्।
अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ ५.२७.४३ ॥

残酷な言葉はもう十分だ。慰めの言葉だけを語ろう。ヴァイデーヒーに懇願しよう。それが私の望みだ。

5.27.44

यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते।
सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम् ॥ ५.२७.४४ ॥

このような夢を見る悲しみの女は、多くの苦しみから解放され、この上ない喜びを得る。

5.27.45

भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया।
राघवाद्धि भयं घोरं राक्षसानामुपस्थितम् ॥ ५.२७.४५ ॥

羅刹女たちよ、叱られたとしても彼女に懇願せよ。話したいという思いに何の益があろうか。ラーガヴァによって羅刹たちに恐ろしい恐怖が迫っている。

5.27.46

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा।
अलमेषा परित्रातुं राक्षस्यो महतो भयात् ॥ ५.२७.४६ ॥

ジャナカの娘マイティリーは礼拝によって喜ぶ。羅刹女たちよ、この大きな恐怖からおまえたちを守れるのは彼女だけだ。

5.27.47

अपि चास्या विशालाक्ष्या न किंचिदुपलक्षये।
विरूपमपि चांगेषु सुसूक्ष्ममपि लक्षणम् ॥ ५.२७.४७ ॥

しかしこの大きな目の女の四肢には、何も不吉なものは見えない。最も微細な相さえ不利には見えない。

5.27.48

छायावैगुण्यमात्रं तु शङ्के दुःखमुपस्थितम्।
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥ ५.२७.४८ ॥

ただ影に欠陥があるのを見て、苦しみが降りかかったのではと疑う。苦しみに値しないこの女神は、空からやって来たのだ。

5.27.49

अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्।
राक्षसेन्द्रविनाशं च विजयं राघवस्य च ॥ ५.२७.४९ ॥

ヴァイデーヒーの目的が成就に近づき、羅刹の王の滅亡とラーガヴァの勝利が見える。

5.27.50

निमित्तभूतमेतत् तु श्रोतुमस्या महत् प्रियम्।
दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम् ॥ ५.२७.५० ॥

これは彼女が大きな喜びの知らせを聞く前兆である。彼女の目は蓮の花びらのように長く大きく、ぴくぴくと震えて見える。

5.27.51

ईषद्धि हृषितो वास्या दक्षिणाया ह्यदक्षिणः।
अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते ॥ ५.२७.५१ ॥

彼女の右肩は喜びにわずかに震え、突然ヴァイデーヒーの左腕の一本も震えている。

5.27.52

करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः।
वेपन् कथयतीवास्या राघवं पुरतः स्थितम् ॥ ५.२७.५२ ॥

象の鼻のような彼女の左の腿はこの上なく見事である。震えながら、目の前に立つラーガヴァのことを語っているかのようだ。

5.27.53

पक्षी च शाखानिलयं प्रविष्टः
पुनः पुनश्चोत्तमसान्त्ववादी।
सुस्वागतां वाचमुदीरयाणः
पुनः पुनश्चोदयतीव हृष्टः ॥ ५.२७.५३ ॥

枝に住むその鳥は何度も中に入り、このうえなく慰めの言葉を語り、喜びのあまりたびたび促しているかのようである。

5.27.54

ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता।
अवोचद् यदि तत् तथ्यं भवेयं शरणं हि वः ॥ ५.२७.५४ ॥

すると、その慎み深い若い女性は夫の勝利を喜び、言った。「もしそれが真実なら、私は本当にあなたがたの庇護となりましょう。」