蚁垤《罗摩衍那》 · 篇 5.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.35.1
तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्।
उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ ५.३५.१ ॥
维德嘿听了猴中之杰所讲的罗摩故事后,以甜美的声音说出了这些安慰的话。
5.35.2
क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्।
वानराणां नराणां च कथमासीत् समागमः ॥ ५.३५.२ ॥
你与罗摩是如何相识的?你怎么认识罗什曼那?猴子与人类是如何相遇的?
5.35.3
यानि रामस्य चिह्नानि लक्ष्मणस्य च वानर।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ ५.३५.३ ॥
猴子啊,请再详细讲述罗摩和罗什曼那的特征,好让悲伤不要淹没我。
5.35.4
कीदृशं तस्य संस्थानं रूपं तस्य च कीदृशम्।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ ५.३५.४ ॥
他的体格和相貌是怎样的?他的大腿和手臂如何?也请告诉我关于罗什曼那的情况。
5.35.5
एवमुक्तस्तु वैदेह्या हनूमान् मारुतात्मजः।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ५.३५.५ ॥
维德嘿这样说后,风之子哈努曼开始如实地描述罗摩。
5.35.6
जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि।
भर्तुः कमलपत्राक्षि संस्थानं लक्ष्मणस्य च ॥ ५.३५.६ ॥
莲花瓣眼的维德嘿啊!你本已全都知道,幸而你向我询问丈夫与罗什曼那的体格。
5.35.7
यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।
लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ५.३५.७ ॥
广眼的夫人啊,听我说罗摩与罗什曼那所显现的那些标记,我所见的。
5.35.8
रामः कमलपत्राक्षः पूर्णचन्द्रनिभाननः।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ ५.३५.८ ॥
罗摩眼如莲花瓣,面如满月,具备容貌与仁厚,生于阁那伽之女啊。
5.35.9
तेजसाऽऽदित्यसंकाशः क्षमया पृथिवीसमः।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ ५.३५.९ ॥
他的光辉如太阳,忍耐如大地,智慧如布里哈斯帕提,名声如因陀罗。
5.35.10
रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः ॥ ५.३५.१० ॥
他是众生世界的守护者,是亲族的守护者,是自身德行与法的守护者,啊,敌人的焚烧者。
5.35.11
रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ ५.३५.११ ॥
夫人啊,罗摩是世间四种姓的守护者,也是世间规范的制定者与执行者。
5.35.12
अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ ५.३५.१२ ॥
他光辉照人,备受敬重,坚守梵行之誓,知晓善人之恩惠,也熟知行事的常规。
5.35.13
राजनीत्यां विनीतश्च ब्राह्मणानामुपासकः।
ज्ञानवान् शीलसम्पन्नो विनीतश्च परंतपः ॥ ५.३५.१३ ॥
精通治国之道,敬奉婆罗门,有学识,品性端正,谦逊,是令敌人焦灼的人。
5.35.14
यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः।
धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः ॥ ५.३५.१४ ॥
精通《夜柔吠陀》,受到诸吠陀智者的高度敬重,在弓箭之学、吠陀及吠陀支分中皆有成就。
5.35.15
विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः।
गूढजत्रुः सुताम्राक्षो रामो नाम जनैः श्रुतः ॥ ५.३५.१५ ॥
他肩膀宽阔,臂膀雄壮,颈如海螺,面容俊美,锁骨隐而不见,双眼深红;人们称他为罗摩。
5.35.16
दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्।
समश्च सुविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ ५.३५.१६ ॥
他的声音如战鼓轰鸣;肤色光润而威严,身形匀称,四肢比例得当,肤色呈深黑。
5.35.17
त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ ५.३५.१७ ॥
他三处坚实,三处修长,三处匀称而隆起,三处泛红,三处光滑,三处始终深邃。
5.35.18
त्रिवलीमांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान्।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः ॥ ५.३५.१८ ॥
他有三道纹路,三处弯曲,四肢带有吉相,形如三峰,分为四段,有四道纹路,身高四肘,四方匀称。
5.35.19
चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः।
महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ ५.३५.१९ ॥
他有十四对相等的部位,四颗獠牙,四种步态,大嘴唇、下颌和鼻子,五处光滑的部位,以及八节脊椎骨。
5.35.20
दशपद्मो दशबृहत् त्रिभिर्व्याप्तो द्विशुक्लवान्।
षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥ ५.३५.२० ॥
他有十个莲花印记,十处大的特征,被三者所充满,有两处白色的特征,六处隆起,九处纤细;罗怙之子被三者所充满。
5.35.21
सत्यधर्मरतः श्रीमान् संग्रहानुग्रहे रतः।
देशकालविभागज्ञः सर्वलोकप्रियंवदः ॥ ५.३५.२१ ॥
专注于真理与法,光辉灿烂,乐于聚合与施恩,通晓地点与时机的区分,说话令一切世界喜悦。
5.35.22
भ्राता चास्य च वैमात्रः सौमित्रिरमितप्रभः।
अनुरागेण रूपेण गुणैश्चापि तथाविधः ॥ ५.३५.२२ ॥
他的兄弟,同母异父的弟弟苏弥德里,光辉无量,在情感、容貌与品德上也与他相似。
5.35.23
स सुवर्णच्छविः श्रीमान् रामः श्यामो महायशाः।
तावुभौ नरशार्दूलौ त्वद्दर्शनकृतोत्सवौ ॥ ५.३५.२३ ॥
他是罗摩,金色肤色,光辉灿烂,肤色深,大名远扬;那两位人中之虎见到你,都欢喜不已。
5.35.24
विचिन्वन्तौ महीं कृत्स्नामस्माभिः सह संगतौ।
त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ॥ ५.३५.२४ ॥
二人搜寻整个大地,与我们相会;他们只为寻你,在这大地上漫游。
5.35.25
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्।
ऋष्यमूकस्य मूले तु बहुपादपसंकुले ॥ ५.३५.२५ ॥
在多树茂密的Ṛṣyamūka山脚下,二人看见了被哥哥放逐的猴王。
5.35.26
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्।
वयं च हरिराजं तं सुग्रीवं सत्यसङ्गरम् ॥ ५.३५.२६ ॥
坐在那里因惧怕兄长而痛苦的、外貌可爱的须羯羅;我们也见到那位信守诺言的猴王须羯羅。
5.35.27
परिचर्यामहे राज्यात् पूर्वजेनावरोपितम्।
ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ ॥ ५.३५.२७ ॥
我们侍奉那被哥哥逐出王国的人。那时,这两人身穿树皮衣,手持上好的弓——
5.35.28
ऋष्यमूकस्य शैलस्य रम्यं देशमुपागतौ।
स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ॥ ५.३५.२८ ॥
二人来到了Ṛṣyamūka山那处美丽的地方。那位猴中之首,见到那两位人中之虎、两位弓箭手——
5.35.29
अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः।
ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः ॥ ५.३५.२९ ॥
他被恐惧迷惑,跃上那座山的山顶。那位猴王便站立在山顶之上。
5.35.30
तयोः समीपं मामेव प्रेषयामास सत्वरम्।
तावहं पुरुषव्याघ्रौ सुग्रीववचनात् प्रभू ॥ ५.३५.३० ॥
他迅速派我一人前去见那二人。遵照须羯羅的话,我前往那两位人中之虎、强大的主人处。
5.35.31
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः।
तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ॥ ५.३५.३१ ॥
我在这两位容貌端正、具足吉相的人面前合掌而立。明白了他们的真实身份与来意,我心中充满了喜爱。
5.35.32
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ।
निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ॥ ५.३५.३२ ॥
我把那两位人中雄杰背在背上,带到那个地方,并将他们的真实身份如实禀告给高尚的须羯里婆。
5.35.33
तयोरन्योन्यसम्भाषाद् भृशं प्रीतिरजायत।
तत्र तौ कीर्तिसम्पन्नौ हरीश्वरनरेश्वरौ ॥ ५.३५.३३ ॥
二人相互交谈,彼此心生深深的喜爱;那里,这两位名声显赫的君主——猴王与人王——便结下了友谊。
5.35.34
परस्परकृताश्वासौ कथया पूर्ववृत्तया।
तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ॥ ५.३५.३४ ॥
二人以往事相述,彼此安慰;随后,罗什曼那的兄长便安慰须羯里婆。
5.35.35
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तं पुरुतेजसा।
ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ॥ ५.३५.३५ ॥
因一名女子,你的兄长婆利把你这位光辉盛大的人驱逐了;随后,因你的失落而生的悲痛降临到行事不倦的罗摩身上。
5.35.36
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्।
स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ॥ ५.३५.३६ ॥
罗什曼那将此事禀告猴王须羯里婆;猴王听了罗什曼那所说的话后,
5.35.37
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्।
ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ॥ ५.३५.३७ ॥
她变得异常黯淡,如同被日食所蚀的太阳;那时,她被罗刹劫走,而那些装饰你肢体的饰物……
5.35.38
यान्याभरणजालानि पातितानि महीतले।
तानि सर्वाणि रामाय आनीय हरियूथपाः ॥ ५.३५.३८ ॥
那些掉落在地上的全部饰物,猴群的首领们将其拾回,交给了罗摩。
5.35.39
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव।
तानि रामाय दत्तानि मयैवोपहृतानि च ॥ ५.३५.३९ ॥
欢欣的猴子们将它们展示出来,却不知你的去向。所有这些都交给了罗摩,而且是我亲自将它们献给了他。
5.35.40
स्वनवन्त्यवकीर्णानि तस्मिन् विहतचेतसि।
तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तदा ॥ ५.३५.४० ॥
那些芬芳的饰物散落在心神慌乱的他身上;他把那些值得一看的饰物放在膝上,多方端详。
5.35.41
तेन देवप्रकाशेन देवेन परिदेवितम्।
पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः ॥ ५.३५.४१ ॥
那位如神般光辉的人悲叹着;他看着那些饰物,一再哭泣、痛苦不堪。
5.35.42
प्रादीपयद् दाशरथेस्तदा शोकहुताशनम् ॥ ५.३५.४२ ॥
那时,十车王之子点燃了悲伤之火。
5.35.43
शायितं च चिरं तेन दुःखार्तेन महात्मना।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ ५.३५.४३ ॥
那位因悲痛而备受煎熬的大德者,长时间躺卧;我也用种种言语,费力地再次扶他起身。
5.35.44
तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः।
राघवः सहसौमित्रिः सुग्रीवे संन्यवेशयत् ॥ ५.३५.४४ ॥
罗怙之后(罗摩)看过那些贵重之物并反复指示,与萨乌弥德里(罗什曼那)一同让须羯哩婆坐在那里。
5.35.45
स तवादर्शनादार्ये राघवः परितप्यते।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ ५.३५.४५ ॥
高贵的女士啊,因为见不到你,罗摩总是备受煎熬,就像火山被巨大的烈火燃烧一样。
5.35.46
त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्।
तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥ ५.३५.४६ ॥
因为你,夜里的失眠、悲伤与忧虑煎熬着这位大德的罗摩,就像火焰焚烧火屋一般。
5.35.47
तवादर्शनशोकेन राघवः परिचाल्यते।
महता भूमिकम्पेन महानिव शिलोच्चयः ॥ ५.३५.४७ ॥
因不见你而悲痛,罗摩受到震撼,就像一座大石堆被强烈的地震撼动一般。
5.35.48
काननानि सुरम्याणि नदीप्रस्रवणानि च।
चरन् न रतिमाप्नोति त्वामपश्यन् नृपात्मजे ॥ ५.३५.४८ ॥
公主啊,王之女,虽在美妙的森林、河流与泉水间漫步,却因不见你而得不到快乐。
5.35.49
स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः।
समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ ५.३५.४९ ॥
那位人中之虎罗怙王子,将很快得到你,在杀死罗波那及其同盟与亲族之后,哦,遮那伽之女。
5.35.50
सहितौ रामसुग्रीवावुभावकुरुतां तदा।
समयं वालिनं हन्तुं तव चान्वेषणं प्रति ॥ ५.३५.५० ॥
那时,罗摩与须羯哩婆二人结盟,约定杀死婆梨,并商定寻找你之事。
5.35.51
ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥ ५.३५.५१ ॥
随后,那两位英勇的王子抵达吉什根达,猴王婆梨在战斗中被击倒。
5.35.52
ततो निहत्य तरसा रामो वालिनमाहवे।
सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत् पतिम् ॥ ५.३५.५२ ॥
随后罗摩在战斗中迅速杀死婆梨,使须羯哩婆成为所有熊与猴军的主宰。
5.35.53
रामसुग्रीवयोरैक्यं देव्येवं समजायत।
हनूमन्तं च मां विद्धि तयोर्दूतमुपागतम् ॥ ५.३५.५३ ॥
女神啊,罗摩与须羯哩婆便这样结成了联盟。请知道我是哈奴曼,那二人的使者,已来到此地。
5.35.54
स्वं राज्यं प्राप्य सुग्रीवः स्वानानीय महाकपीन्।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ ५.३५.५४ ॥
须羯哩婆获得自己的王国后,召集他的大猴子们,为了你,派遣那些强大者前往十方。
5.35.55
आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः।
अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५.३५.५५ ॥
受猴王须羯里婆的命令,那些如山王般威力巨大的猴众向四面八方出发,前往大地寻找。
5.35.56
ततस्ते मार्गमाणा वै सुग्रीववचनातुराः।
चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ ५.३५.५६ ॥
于是,他们急于完成须羯里婆的嘱咐,四处寻找,他们、我们和其他猴众踏遍了整个大地。
5.35.57
अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः।
प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५.३५.५७ ॥
名叫安伽陀的,即婆理之子,光辉而大力的猴中猛虎,被三分之一的军队簇拥着出发了。
5.35.58
तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे।
भृशं शोकपरीतानामहोरात्रगणा गताः ॥ ५.३५.५८ ॥
我们在山中之最的盆地山上迷失,被深深的悲伤笼罩,许多昼夜流逝了。
5.35.59
ते वयं कार्यनैराश्यात् कालस्यातिक्रमेण च।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुमुपस्थिताः ॥ ५.३५.५९ ॥
因事业无望、时间已过,又畏惧猴王,我们准备舍弃性命。
5.35.60
विचित्य गिरिदुर्गाणि नदीप्रस्रवणानि च।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५.३५.६० ॥
我们搜遍了山中险隘、河流和泉源,却找不到女神的踪迹,于是决心舍弃性命。
5.35.61
ततस्तस्य गिरेर्मूर्ध्नि वयं प्रायमुपास्महे।
दृष्ट्वा प्रायोपविष्टांश्च सर्वान् वानरपुङ्गवान् ॥ ५.३५.६१ ॥
于是我们在那座山的顶上开始绝食至死,看见所有优秀的猴子都坐在绝食之中。
5.35.62
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।
तव नाशं च वैदेहि वालिनश्च तथा वधम् ॥ ५.३५.६२ ॥
安伽陀沉浸于悲痛之海,痛哭道:「哦,毗提诃之女,你的毁灭,以及婆利的被杀。」
5.35.63
प्रायोपवेशमस्माकं मरणं च जटायुषः।
तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम् ॥ ५.३५.६३ ॥
我们的绝食至死,以及迦陀由的死亡——我们因主人的消息而绝望,想要死去。
5.35.64
कार्यहेतोरिहायातः शकुनिर्वीर्यवान् महान्।
गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ॥ ५.३५.६४ ॥
一位为某事而来的强大巨鸟——名叫桑帕提,是秃鹫王,秃鹫王的兄弟。
5.35.65
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्।
यवीयान् केन मे भ्राता हतः क्व च निपातितः ॥ ५.३५.६५ ॥
他听闻弟弟被杀,怒而说道:「是谁杀了我的弟弟?他在何处被击倒?」
5.35.66
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः।
अङ्गदोऽकथयत् तस्य जनस्थाने महद्वधम् ॥ ५.३५.६६ ॥
「诸位猴中之最,我想从你们这里听到此事。」于是安伽陀讲述了他在Janasthāna被杀的经过。
5.35.67
रक्षसा भीमरूपेण त्वामुद्दिश्य यथार्थतः।
जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः ॥ ५.३५.६७ ॥
阿嚕那之子僧帕提听闻,那相貌可怖的罗刹实际上是冲着你而杀死了迦吒由,于是心中悲痛。
5.35.68
त्वामाह स वरारोहे वसन्तीं रावणालये।
तस्य तद् वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ॥ ५.३५.६८ ॥
“美腰的女子啊,你住在罗婆那的宫中。”他这样对你说;听到僧帕提的这番话,我们的喜悦更加增长。
5.35.69
अङ्गदप्रमुखाः सर्वे ततः प्रस्थापिता वयम्।
विन्ध्यादुत्थाय सम्प्राप्ताः सागरस्यान्तमुत्तमम् ॥ ५.३५.६९ ॥
我们以安伽达为首,当时都被派遣出发;从文底耶山起身,我们抵达了大海的最佳岸边。
5.35.70
त्वद्दर्शने कृतोत्साहा हृष्टाः पुष्टाः प्लवङ्गमाः।
अङ्गदप्रमुखाः सर्वे वेलोपान्तमुपागताः ॥ ५.३५.७० ॥
渴望见到你,欢欣而强健的猴众,以安伽达为首,都到达了海滨边缘。
5.35.71
चिन्तां जग्मुः पुनर्भीमां त्वद्दर्शनसमुत्सुकाः।
अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः ॥ ५.३५.७१ ॥
渴望见到你的他们,再次陷入可怕的忧虑;于是我看到猴子大军见到大海后,陷入了绝望。
5.35.72
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः।
लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ॥ ५.३५.७२ ॥
我抖落剧烈的恐惧,纵跃了一百由旬,夜里进入了充满罗刹的楞伽城。
5.35.73
रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता।
एतत् ते सर्वमाख्यातं यथावृत्तमनिन्दिते ॥ ५.३५.७३ ॥
无瑕的女子啊,我见到了罗波那,也见到了被悲伤折磨的你。所发生的一切都已如实告诉了你。
5.35.74
अभिभाषस्व मां देवि दूतो दाशरथेरहम्।
तन्मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ॥ ५.३५.७४ ॥
女神啊,请与我说话。我是十车王之子罗摩的使者。因罗摩所作的努力,我为你的缘故来到这里。
5.35.75
सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्।
कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ॥ ५.३५.७५ ॥
女神啊,请知道我是风神之子、须羯里婆的大臣。你的夫君、迦矩多世系的罗摩安好;他是所有持兵器者中最优秀的。
5.35.76
गुरोराराधने युक्तो लक्ष्मणः शुभलक्षणः।
तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ॥ ५.३५.७६ ॥
女神啊,吉相的罗什曼那一心侍奉他的兄长。他威武有力,一心为你夫君的福祉着想。
5.35.77
अहमेकस्तु सम्प्राप्तः सुग्रीववचनादिह।
मयेयमसहायेन चरता कामरूपिणा ॥ ५.३५.७७ ॥
我遵从须羯里婆的话,独自来到这里。我能随意变化形体,没有同伴地走过了这条路。
5.35.78
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा।
दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ॥ ५.३५.७८ ॥
为了寻找你的踪迹,我穿越了南方。幸运的是,我是为你的失去而哀痛的猴军中的一员。
5.35.79
अपनेष्यामि संतापं तवाधिगमशासनात्।
दिष्ट्या हि न मम व्यर्थं सागरस्येह लङ्घनम् ॥ ५.३५.७९ ॥
凭着找到你的消息,我将消除你的忧愁。幸而我在此跨越大海并非徒劳。
5.35.80
प्राप्स्याम्यहमिदं देवि त्वद्दर्शनकृतं यशः।
राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ॥ ५.३५.८० ॥
女神啊,我将获得因见到你而得的这份荣誉,而大勇的罗伽瓦很快就会来找你。
5.35.81
सपुत्रबान्धवं हत्वा रावणं राक्षसाधिपम्।
माल्यवान् नाम वैदेहि गिरीणामुत्तमो गिरिः ॥ ५.३५.८१ ॥
哇迭希啊,斩杀罗刹之主罗波那及其子嗣亲族之后,(他们将居于)名为摩耶梵的山上,那是群山之中最殊胜的山。
5.35.82
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः।
स च देवर्षिभिर्दिष्टः पिता मम महाकपिः।
तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरन् ॥ ५.३५.८२ ॥
随后猴王鸡萨利前往哥卡尔纳山。他受天界仙人指引,是我的父亲大猴;在河流之主(大海)神圣的沐浴圣地,他正在诛杀商巴萨达那(商跋罗)。
5.35.83
यस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।
हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ ५.३५.८३ ॥
哇迭希啊,我正是那只猴王之妻(田)中由风神所生者,凭自己的功业,我在世间以哈努曼之名闻名。
5.35.84
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः।
अचिरात् त्वामितो देवि राघवो नयिता ध्रुवम् ॥ ५.३५.८४ ॥
哇迭希啊,为使你安心,我才讲述了你夫君的美德。女神啊,罗伽瓦不久必定会将你从此地带走。
5.35.85
एवं विश्वासिता सीता हेतुभिः शोककर्शिता।
उपपन्नैरभिज्ञानैर्दूतं तमधिगच्छति ॥ ५.३५.८५ ॥
悉多因恰当的理由和相认的信物而得以信任,被悲痛消瘦的她接纳了那位使者。
5.35.86
अतुलं च गता हर्षं प्रहर्षेण तु जानकी।
नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ॥ ५.३५.८६ ॥
悉多得到无限的喜悦,从睫毛弯曲的双眼中流下了喜悦的泪水。
5.35.87
चारु तद् वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ ५.३५.८७ ॥
她那张美丽的脸庞,配着红白相间的大眼睛,光彩如同摆脱了罗睺的明月。
5.35.88
हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ ५.३५.८८ ॥
她明白地认为,那只猴子就是哈努曼,别无他人。于是哈努曼回答了这位容颜可爱的女子。
5.35.89
एतत् ते सर्वमाख्यातं समाश्वसिहि मैथिलि।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ ५.३५.८९ ॥
迈提利啊,这一切都已告诉你了,请宽心。我该怎么做?什么能让你满意?我是否应该返回?
5.35.90
हतेऽसुरे संयति शम्बसादने
कपिप्रवीरेण महर्षिचोदनात्।
ततोऽस्मि वायुप्रभवो हि मैथिलि
प्रभावतस्तत्प्रतिमश्च वानरः ॥ ५.३५.९० ॥
当摧毁商跋罗的阿修罗在战斗中被杀后,猴族英雄应大仙的催促而行此事。那么,迈提利啊,我是风神所生;凭借我的力量,我是与他同等的猴子。