蚁垤《罗摩衍那》 · 篇 5.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.39.1
मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्।
अभिज्ञानमभिज्ञातमेतद् रामस्य तत्त्वतः ॥ ५.३९.१ ॥
于是悉多交出宝珠,对罗摩之使哈努曼说:“这确实是罗摩公认的信物。”
5.39.2
मणिं दृष्ट्वा तु रामो वै त्रयाणां संस्मरिष्यति।
वीरो जनन्या मम च राज्ञो दशरथस्य च ॥ ५.३९.२ ॥
罗摩英雄见此宝珠,必定会想起三人:我的母亲、我,以及国王十车王。
5.39.3
स भूयस्त्वं समुत्साहचोदितो हरिसत्तम।
अस्मिन् कार्यसमुत्साहे प्रचिन्तय यदुत्तरम् ॥ ५.३९.३ ॥
众猴中最杰出者啊!你满怀热忱,请再思考此事之后应当如何行动。
5.39.4
त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम।
तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत् ॥ ५.३९.४ ॥
众猴中最杰出者啊!你是完成此事的权威。请思考:何种努力能终结忧愁。
5.39.5
हनूमन् यत्नमास्थाय दुःखक्षयकरो भव।
स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ॥ ५.३९.५ ॥
哈努曼啊,你当努力行事,成为终结忧愁之人。风子哈努曼以大威力答应说“就这样”……
5.39.6
शिरसाऽऽवन्द्य वैदेहीं गमनायोपचक्रमे।
ज्ञात्वा सम्प्रस्थितं देवी वानरं पवनात्मजम् ॥ ५.३९.६ ॥
哈努曼低头向毗提诃公主礼拜,准备启程。女神得知风子这只猴子已动身。
5.39.7
बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्।
हनूमन् कुशलं ब्रूयाः सहितौ रामलक्ष्मणौ ॥ ५.३९.७ ॥
茂提里以被泪水哽咽的声音说道:“哈奴曼啊,请告诉罗摩和罗什曼那二人,我平安。”
5.39.8
सुग्रीवं च सहामात्यं सर्वान् वृद्धांश्च वानरान्।
ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ॥ ५.३९.८ ॥
你这位最优秀的猴族啊,请把合乎法的安好转告给须羯哩婆和他的大臣们,以及所有年长的猴子。
5.39.9
यथा च स महाबाहुर्मां तारयति राघवः।
अस्माद् दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ॥ ५.३९.९ ॥
正如大臂的罗怙后裔将把我从这悲痛之海的阻隔中救出,你也应当安慰我。
5.39.10
जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान्।
तत् त्वया हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ॥ ५.३९.१० ॥
哈奴曼啊,你要用言语告诉那位名声显赫的罗摩,他以为我仍然活着;这样你便能获得法。
5.39.11
नित्यमुत्साहयुक्तस्य वाचः श्रुत्वा मयेरिताः।
वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ॥ ५.३९.११ ॥
他听到我所说的这些话,那常怀奋发之心的达萨罗陀之子的英勇,将为了迎我归来而更加增长。
5.39.12
मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः।
पराक्रमे मतिं वीरो विधिवत् संविधास्यति ॥ ५.३९.१२ ॥
罗怙后裔这位英雄,一旦从你口中听到这些承载着我讯息的话,便会依法将心志专注于奋勇之事。
5.39.13
सीतायास्तद् वचः श्रुत्वा हनूमान् मारुतात्मजः।
शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ५.३९.१३ ॥
悉多的话语传来,风之子哈努曼双手合十置于头上,回答道:
5.39.14
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ॥ ५.३९.१४ ॥
甘古特色之后罗摩,被猴熊中的勇士们环绕,将很快到来;他将在战斗中战胜敌人,消除你的忧愁。
5.39.15
नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा।
यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः ॥ ५.३९.१५ ॥
我在凡人、阿修罗或天神之中,都看不到有谁敢在他射出箭矢时站在他面前。
5.39.16
अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्।
स हि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ॥ ५.३९.१६ ॥
他在战斗中能抵挡太阳、帕尔詹尼亚(因陀罗)以及毗婆娑特之子阎摩;尤其是为了你。
5.39.17
स हि सागरपर्यन्तां महीं साधितुमर्हति।
त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ॥ ५.३९.१७ ॥
他确实配得上征服被大海环绕的大地;而且,罗摩的胜利将因你而实现,啊,遮那伽之女。
5.39.18
तस्य तद् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम्।
जानकी बहु मेने तं वचनं चेदमब्रवीत् ॥ ५.३९.१८ ॥
耆那吉听到他这番确实真实而善言的话,非常敬重他,便说了这番话。
5.39.19
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः।
भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ॥ ५.३९.१९ ॥
当他启程时,悉多一次又一次地望着他,以充满对丈夫之情的话语,出于善意地恳请他。
5.39.20
यदि वा मन्यसे वीर वसैकाहमरिंदम।
कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ॥ ५.३९.२० ॥
英雄啊,降伏敌人者!若你认为合适,就在某处隐蔽之地停留一日,休息后明天再走。
5.39.21
मम चैवाल्पभाग्यायाः सांनिध्यात् तव वानर।
अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ॥ ५.३९.२१ ॥
猴子啊!即使对我这薄命之人,有你在身边,也能使我从这巨大的悲痛中暂得片刻解脱。
5.39.22
ततो हि हरिशार्दूल पुनरागमनाय तु।
प्राणानामपि संदेहो मम स्यान्नात्र संशयः ॥ ५.३९.२२ ॥
猴中之虎啊!那时,关于你能否再回来,连我的性命也将未卜;此事毫无疑问。
5.39.23
तवादर्शनजः शोको भूयो मां परितापयेत्।
दुःखादुःखपरामृष्टां दीपयन्निव वानर ॥ ५.३९.२३ ॥
因见不到你而生的悲痛会再次折磨我;我本已为苦所困,它仿佛又把我点燃,猴子啊。
5.39.24
अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ॥ ५.३९.२४ ॥
英雄啊,猴王啊,这个巨大的疑虑仿佛立在我面前:你的助手猴子和熊到底可以信任到何种程度?
5.39.25
कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ॥ ५.३९.२५ ॥
那些猴熊大军,或那两位人中至尊之子,如何能渡过这难以逾越的大海呢?
5.39.26
त्रयाणामेव भूतानां सागरस्येह लङ्घने।
शक्तिः स्याद् वैनतेयस्य तव वा मारुतस्य वा ॥ ५.३९.२६ ॥
能跨越此海的力量,只属于三者:毗娜达之子(迦卢达)、你,或风神之子。
5.39.27
तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसे समाधानं त्वं हि कार्यविदां वरः ॥ ५.३९.२७ ॥
因此,英雄啊,面对这完成使命时如此难以逾越的障碍,你看有何良策?你正是善知事务者中的最上。
5.39.28
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ॥ ५.३९.२८ ॥
的确,你一人便足以完成此事,灭敌英雄者啊;带给你荣耀的果实必将显现。
5.39.29
बलैः समग्रैर्युधि मां रावणं जित्य संयुगे।
विजयी स्वपुरं यायात् तत्तस्य सदृशं भवेत् ॥ ५.३९.२९ ॥
若他率领全军在战场上战胜我与罗波那,凯旋返回自己的城邑,那便与他相称了。
5.39.30
बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः।
मां नयेद् यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् ॥ ५.३९.३० ॥
若摧破敌军的迦恭陀(罗摩)以大军充满楞伽,并将我带走,那便与他相称了。
5.39.31
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः।
भवेदाहवशूरस्य तथा त्वमुपपादय ॥ ५.३९.३१ ॥
使那位大德者的勇力与战场英雄相称,你也应当如此去促成。
5.39.32
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ॥ ५.३९.३२ ॥
哈奴曼听完这些含有此意、谦逊且有理有据的话,便对其余之言作了回答。
5.39.33
देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः।
सुग्रीवः सत्यसम्पन्नस्तवार्थे कृतनिश्चयः ॥ ५.३९.३३ ॥
女神啊,猴熊大军之主、跳跃者中的最优者、具足真实的须羯哩婆,已为你下定决心。
5.39.34
स वानरसहस्राणां कोटीभिरभिसंवृतः।
क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ॥ ५.३९.३४ ॥
被千万千千的猴群所环绕,那位毁灭罗刹的英雄很快就会到来,哦,毗提诃之女。
5.39.35
तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः।
मनःसंकल्पसम्पाता निदेशे हरयः स्थिताः ॥ ५.३९.३५ ॥
具有他勇力的猴子们,勇敢而极为强大,快如心念,正听候他的号令而待命。
5.39.36
येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ॥ ५.३९.३६ ॥
他们的行动,上不受阻,下不受阻,左右也不受阻,且在大事业中从不退缩,其威光无量。
5.39.37
असकृत् तैर्महोत्साहैः ससागरधराधरा।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥ ५.३९.३७ ॥
那些精力充沛、追随风之路径的猴子,多次绕行了这片连同海洋与山岳的大地。
5.39.38
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ ॥ ५.३९.३८ ॥
那里有比我更优秀的、也有与我相当的猴子;在须羯裡婆面前,没有比我更低的人。
5.39.39
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।
नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ॥ ५.३९.३९ ॥
我既然已经来到这里,那些大力之士岂不更加能干!优秀的人是不会被派遣的,被派遣的都是别人。
5.39.40
तदलं परितापेन देवि शोको व्यपैतु ते।
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ॥ ५.३९.४० ॥
所以,女神啊,不必再这般痛苦,愿你的忧愁消散。猴群的首领们将一跃而至楞伽。
5.39.41
मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ।
त्वत्सकाशं महासङ्घौ नृसिंहावागमिष्यतः ॥ ५.३९.४१ ॥
那两位骑在我背上,如同升起的日月,人中雄狮,率领大军,将来到你的面前。
5.39.42
तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ।
आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ॥ ५.३९.४२ ॥
那两位英雄,人中最杰出的罗摩与罗什曼那,将一同来到楞伽城,以他们的箭矢将其摧毁。
5.39.43
सगणं रावणं हत्वा राघवो रघुनन्दनः।
त्वामादाय वरारोहे स्वपुरीं प्रति यास्यति ॥ ५.३९.४३ ॥
罗伽瓦的喜悦、罗怙子孙罗摩,将连同随从杀死罗波那,带着你,美腰的人啊,返回他的城邑。
5.39.44
तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी।
नचिराद् द्रक्ष्यसे रामं प्रज्वलन्तमिवानलम् ॥ ५.३९.४४ ॥
因此你要安心,愿你吉祥。等待时机;不久你将见到罗摩,如熊熊烈火般光辉。
5.39.45
निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे।
त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ॥ ५.३९.४५ ॥
当罗刹之王连同他的儿子、大臣和亲属被杀之后,你将与罗摩重逢,犹如罗希尼与月亮相会。
5.39.46
क्षिप्रं त्वं देवि शोकस्य पारं द्रक्ष्यसि मैथिलि।
रावणं चैव रामेण द्रक्ष्यसे निहतं बलात् ॥ ५.३९.४६ ॥
女神弥提罗女啊,你很快将看到悲伤的彼岸,也将看到罗波那被罗摩以力量杀死。
5.39.47
एवमाश्वास्य वैदेहीं हनूमान् मारुतात्मजः।
गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ॥ ५.३९.४७ ॥
如此安慰了毗提诃女之后,风之子哈努曼决定启程,又对毗提诃女说道。
5.39.48
तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्।
लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपागतम् ॥ ५.३९.४८ ॥
你很快将看到那位摧毁敌人、自制的罗伽瓦,也将看到手持弓箭、已抵达楞伽城门的罗什曼那。
5.39.49
नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥ ५.३९.४९ ॥
以指甲和牙齿为武器的英雄,勇猛如狮虎,宛如巨象的vānara们,你很快就会看到他们聚集在一起。
5.39.50
शैलाम्बुदनिकाशानां लङ्कामलयसानुषु।
नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ॥ ५.३९.५० ॥
高贵的女士啊,在楞伽的摩罗耶山峰上,你将看到许多如山如云、咆哮着的猴王们的群队。
5.39.51
स तु मर्मणि घोरेण ताडितो मन्मथेषुणा।
न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ५.३९.५१ ॥
被爱神摩那婆(Manmatha)可怕的箭射中要害,罗摩寻不到丝毫安宁,如同被狮子追逐的大象。
5.39.52
रुद मा देवि शोकेन मा भूत् ते मनसो भयम्।
शचीव भर्त्रा शक्रेण सङ्गमेष्यसि शोभने ॥ ५.३९.५२ ॥
女神啊,不要因悲伤而哭泣,愿你心中没有恐惧。光彩照人的人啊,正如舍ची与其夫因陀罗重逢,你也将与你的丈夫相聚。
5.39.53
रामाद् विशिष्टः कोऽन्योऽस्ति कश्चित् सौमित्रिणा समः।
अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ॥ ५.३९.५३ ॥
谁能胜过罗摩?谁又能与苏弥陀罗(罗什曼那)相比?那两位兄弟如火与风,是你的依靠。
5.39.54
नास्मिंश्चिरं वत्स्यसि देवि देशे
रक्षोगणैरध्युषितेऽतिरौद्रे।
न ते चिरादागमनं प्रियस्य
क्षमस्व मत्संगमकालमात्रम् ॥ ५.३९.५४ ॥
女神啊,你不会长久留在这充满罗刹群众、极为可怖的地方。你所爱之人的到来也不会拖延太久;只需耐心等待,直到我们相会的那段时间。