蚁垤《罗摩衍那》 · 篇 5.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.4.1
स निर्जित्य पुरीं लंकां श्रेष्ठां तां कामरूपिणीम्।
विक्रमेण महातेजा हनूमान् कपिसत्तमः ॥ ५.४.१ ॥
大光辉的猴中之最Hanumān以威勇攻占了那座殊胜的、能随意变化形貌的楞伽城。
5.4.2
अद्वारेण महावीर्यः प्राकारमवपुप्लुवे।
निशि लंकां महासत्त्वो विवेश कपिकुञ्जरः ॥ ५.४.२ ॥
这位大力的猴中之象不从城门而行,越过了城墙,于夜间以大勇气进入了楞伽城。
5.4.3
प्रविश्य नगरीं लंकां कपिराजहितंकरः।
चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ॥ ५.४.३ ॥
进入楞伽城的他,为猴王谋福利,将左脚踏在敌人的头上。
5.4.4
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः।
स महापथमास्थाय मुक्तपुष्पविराजितम् ॥ ५.४.४ ॥
这位具足勇气的风之子,夜间进入城中,走上了装饰着散落鲜花的大道。
5.4.5
ततस्तु तां पुरीं लंकां रम्यामभिययौ कपिः।
हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्कृतैः ॥ ५.४.५ ॥
那只猴子便前往那美丽的楞伽城,那里响起高亢的笑声和乐器的喧鸣。
5.4.6
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः।
गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ॥ ५.४.६ ॥
那美丽的城市,以如雷电与象钩般的楼阁为云,饰以金刚网格,光彩如同布满云彩的天空。
5.4.7
प्रजज्वाल तदा लंका रक्षोगणगृहैः शुभैः।
सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ॥ ५.४.७ ॥
那时,罗刹群众吉祥的宅第使楞伽闪耀光芒,它们如白云一般,饰有莲花与卍字纹。
5.4.8
वर्धमानगृहैश्चापि सर्वतः सुविभूषितैः।
तां चित्रमाल्याभरणां कपिराजहितंकरः ॥ ५.४.८ ॥
那座城市以彩色花环与饰物装点,四面房屋精美宽阔,猴王的益友(哈奴曼)凝望着它。
5.4.9
राघवार्थे चरन् श्रीमान् ददर्श च ननन्द च।
भवनाद् भवनं गच्छन् ददर्श कपिकुञ्जरः ॥ ५.४.९ ॥
为了罗怙之子而四处巡行,光辉的(哈奴曼)看见了并且欢喜;从一座房屋走向另一座房屋,猴中象(哈奴曼)观望着。
5.4.10
विविधाकृतिरूपाणि भवनानि ततस्ततः।
शुश्राव रुचिरं गीतं त्रिस्थानस्वरभूषितम् ॥ ५.४.१० ॥
在形态各异的房屋中,他四处听到以三个音域的音调装饰的动人歌曲。
5.4.11
स्त्रीणां मदनविद्धानां दिवि चाप्सरसामिव।
शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम् ॥ ५.४.११ ॥
如天上的阿普萨拉斯一般,他听见被爱欲所伤的女子们腰带的叮当声与脚镯的声响。
5.4.12
सोपाननिनदांश्चापि भवनेषु महात्मनाम्।
आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः ॥ ५.४.१२ ॥
在大德者的宅院中,他听见台阶的声响,四处传来拍掌的回声与狮吼。
5.4.13
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै।
स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ॥ ५.४.१३ ॥
他在罗刹的家中听到有人诵持咒语,又看见专心于经典诵习的夜叉妖。
5.4.14
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि।
राजमार्गं समावृत्य स्थितं रक्षोगणं महत् ॥ ५.४.१४ ॥
他又看见赞颂罗波那而咆哮的罗刹们,以及堵塞王道、屹立不动的庞大罗刹大军。
5.4.15
ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्।
दीक्षिताञ्जटिलान् मुण्डान् गोजिनाम्बरवाससः ॥ ५.४.१५ ॥
在中军营中,他看见许多罗刹的密探:他们持戒受誓,发结蓬松,剃光头顶,身穿牛皮与衣袍。
5.4.16
दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा।
कूटमुद्गरपाणींश्च दण्डायुधधरानपि ॥ ५.४.१६ ॥
他又看见以一把吉祥草为武器的、以火坛为兵器的、手持铁锤的,以及执棍为兵器的罗刹。
5.4.17
एकाक्षानेकवर्णांश्च लंबोदरपयोधरान्।
करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा ॥ ५.४.१७ ॥
他看见独眼、肤色单一、腹与乳下垂的,可怖的,面孔歪斜的,形貌丑陋的,以及矮小的罗刹。
5.4.18
धन्विनः खड्गिनश्चैव शतघ्नीमुसलायुधान्।
परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ॥ ५.४.१८ ॥
他看见持弓者与持剑者,以百杀器与杵为武器者,手持上好铁杵者,以及身披奇妙铠甲而光辉耀眼的罗刹。
5.4.19
नातिस्थूलान् नातिकृशान् नातिदीर्घातिह्रस्वकान्।
नातिगौरान् नातिकृष्णान्नातिकुब्जान्न वामनान् ॥ ५.४.१९ ॥
既不过于肥胖,也不过于消瘦;既不过于高大,也不过于矮小;既不过于白皙,也不过于黝黑;既不驼背,也不是侏儒。
5.4.20
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः।
ध्वजिनः पताकिनश्चैव ददर्श विविधायुधान् ॥ ५.४.२० ॥
他看见有丑陋的,有多形的,有俊美光彩的;有持旗帜和幡的,有执各种兵器的。
5.4.21
शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः।
क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ॥ ५.४.२१ ॥
这位大猴看见他们以矛和树干为武器,持铁杵和雷电,手中握着投石索和绳索。
5.4.22
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्।
नानावेषसमायुक्तान् यथास्वैरचरान् बहून् ॥ ५.४.२२ ॥
他看见许多人戴着花环,涂抹香膏,佩戴华美饰物,穿着各式服饰,随意往来游走。
5.4.23
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्।
शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ॥ ५.४.२३ ॥
这只猴子看见了持利矛者、持金刚杵者、极为强大的人,以及驻守在中央、纹丝不动的十万守卫。
5.4.24
रक्षोऽधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः।
स तदा तद् गृहं दृष्ट्वा महाहाटकतोरणम् ॥ ५.४.२४ ॥
他看见罗刹之主派来的守卫在内宫之前;然后他看见那座有着巨大金色门楼的宫殿,便...
5.4.25
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम्।
पुण्डरीकावतंसाभिः परिखाभिः समावृतम् ॥ ५.४.२५ ॥
罗刹王那座著名的城市坐落于山峰之巅,四周环绕着如莲花花环般的护城壕沟。
5.4.26
प्राकारावृतमत्यन्तं ददर्श स महाकपिः।
त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम् ॥ ५.४.२६ ॥
这位大猴看见那座神圣的城市,宛如天界,四周被城墙环绕,回荡着神圣的声音。
5.4.27
वाजिह्रेषितसंघुष्टं नादितं भूषणैस्तथा।
रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ॥ ५.४.२७ ॥
马嘶之声回荡,饰物的叮当声萦绕,城中充满战车、车辆、飞车,以及华美的骏马与大象。
5.4.28
वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः।
भूषितै रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ॥ ५.४.२८ ॥
城门华美,四牙大象宛如堆积的白云,装饰华丽、狂欢的鸟兽点缀其间。
5.4.29
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः।
राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः ॥ ५.४.२९ ॥
那只猴子走进罗刹王的宅邸,那里有成千上万威猛的食人鬼看守。
5.4.30
स हेमजाम्बूनदचक्रवालं
महार्हमुक्तामणि भूषितान्तम्।
परार्घ्यकालागुरुचन्दनार्हं
स रावणान्तःपुरमाविवेश ॥ ५.४.३० ॥
他走进罗波那的内宫,其环形围墙以金与赡部那陀金制成,边缘饰以珍贵的珍珠与宝石,宜用上等黑沉香与檀香。