Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 5.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.45.1

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः।
निर्ययुर्भवनात् तस्मात् सप्त सप्तार्चिवर्चसः ॥ ५.४५.१ ॥

于是,受罗刹王之命驱使,大臣的儿子们从那宫殿走出,每七人一组,光辉如火焰。

5.45.2

महद्बलपरीवारा धनुष्मन्तो महाबलाः।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ॥ ५.४५.२ ॥

随大军环绕,持弓,威力巨大,精通兵器,是知兵者中的佼佼者,彼此都想战胜对方。

5.45.3

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ॥ ५.४५.३ ॥

乘坐以金网环绕、旗幡飘扬、声如雷雨云的骏马驾驭的大战车。

5.45.4

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः।
विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः ॥ ५.४५.४ ॥

拉满那以熔金装饰的弓,他们勇武无限,欢欣鼓舞,如同带着闪电的云。

5.45.5

जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ॥ ५.४५.५ ॥

于是他们的母亲得知随从已被杀死,与亲属和朋友一起,因悲伤而惊慌失措。

5.45.6

ते परस्परसंघर्षात् तप्तकाञ्चनभूषणाः।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ॥ ५.४५.६ ॥

他们互相冲撞,身佩熔金饰物,向站在门楼拱上的哈努曼扑去。

5.45.7

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः।
प्रावृट्काल इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ॥ ५.४५.७ ॥

他们降下箭雨,伴随着战车的轰鸣,罗刹之云如雨季的云朵般四处游动。

5.45.8

अवकीर्णस्ततस्ताभिर्हनूमान् शरवृष्टिभिः।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ॥ ५.४५.८ ॥

那时,哈努曼被那些箭雨覆盖,形貌被遮蔽,如同被雨水笼罩的山王。

5.45.9

स शरान् वञ्चयामास तेषामाशुचरः कपिः।
रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे ॥ ५.४५.९ ॥

那只敏捷的猴子躲开了那些英雄的箭和战车的速度,在晴朗的天空中游走。

5.45.10

स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ॥ ५.४५.१० ॥

他与那些弓箭手嬉戏,英雄在天空中闪耀,如同天空中云间强劲的风。

5.45.11

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्।
चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् ॥ ५.४५.११ ॥

哈努曼发出可怕的吼声,使那支大军惊恐,他以威猛之势向那些罗刹猛扑过去。

5.45.12

तलेनाभिहनत् कांश्चित् पादैः कांश्चित् परंतपः।
मुष्टिभिश्चाहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ॥ ५.४५.१२ ॥

克敌者哈努曼有的以手掌击打,有的用脚踢,有的以拳猛击,还有的用指甲撕裂。

5.45.13

प्रममाथोरसा कांश्चिदूरुभ्यामपरानपि।
केचित् तस्यैव नादेन तत्रैव पतिता भुवि ॥ ५.४५.१३ ॥

他用胸膛压碎了一些,用大腿压碎了另一些,还有其他的;有些人仅仅因他的吼声便当场倒地。

5.45.14

ततस्तेष्ववसन् नेषु भूमौ निपतितेषु च।
तत्सैन्यमगमत् सर्वं दिशो दश भयार्दितम् ॥ ५.४५.१४ ॥

于是,那支军队,包括残存者和倒在地上的人,都被恐惧折磨,向十方四散奔逃。

5.45.15

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः।
भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद् रथैः ॥ ५.४५.१५ ॥

大象发出刺耳的嘶鸣,战马倒卧于地,大地上散落着破碎的战车、旌旗和华盖。

5.45.16

स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि।
विविधैश्च स्वनैर्लङ्का ननाद विकृतं तदा ॥ ५.४५.१६ ॥

此时路上出现了流淌着鲜血的河流,楞伽城中传来各种可怖而扭曲的声响。

5.45.17

स तान् प्रवृद्धान् विनिहत्य राक्षसान्
महाबलश्चण्डपराक्रमः कपिः।
युयुत्सुरन्यैः पुनरेव राक्षसै-
स्तदेव वीरोऽभिजगाम तोरणम् ॥ ५.४५.१७ ॥

这位力大无穷、勇猛异常的猴族勇士斩杀了那些强大的罗刹后,又想与其他罗刹交战,便径直走向那座城门。