蚁垤《罗摩衍那》 · 篇 5.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.64.1
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः।
राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ ५.६४.१ ॥
须羯哩婆如此吩咐后,欢喜的猴子达陀摩呼如敬礼罗怙后裔、罗什曼那与须羯哩婆。
5.64.2
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ।
वानरैः सहितः शूरैर्दिवमेवोत्पपात ह ॥ ५.६४.२ ॥
他向须羯哩婆与两位大力的罗怙后裔致敬后,与勇猛的猴众一同跃向天空。
5.64.3
स यथैवागतः पूर्वं तथैव त्वरितं गतः।
निपत्य गगनाद् भूमौ तद् वनं प्रविवेश ह ॥ ५.६४.३ ॥
他像先前来时一样迅速离去;从天空降落到地面,走进了那片林中。
5.64.4
स प्रविष्टो मधुवनं ददर्श हरियूथपान्।
विमदानुद्धतान् सर्वान् मेहमानान् मधूदकम् ॥ ५.६४.४ ॥
进入蜜林后,他看见猴群的首领们——个个狂放,尚未醒醉,正在洒着蜜水。
5.64.5
स तानुपागमद् वीरो बद्ध्वा करपुटाञ्जलिम्।
उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ॥ ५.६४.५ ॥
那位英雄合掌走近他们,欢喜地以温和的言辞对安伽陀说道。
5.64.6
सौम्य रोषो न कर्तव्यो यदेभिः परिवारणम्।
अज्ञानाद् रक्षिभिः क्रोधाद् भवन्तः प्रतिषेधिताः ॥ ५.६४.६ ॥
善良的朋友,不应当怀怒;这些守卫出于无知与愤怒,阻拦了你们。
5.64.7
श्रान्तो दूरादनुप्राप्तो भक्षयस्व स्वकं मधु।
युवराजस्त्वमीशश्च वनस्यास्य महाबल ॥ ५.६४.७ ॥
你远道而来,已经疲惫;请吃你自己的蜂蜜。你是太子,也是这片森林的主人,大力者啊。
5.64.8
मौर्ख्यात् पूर्वं कृतो रोषस्तद् भवान् क्षन्तुमर्हति।
यथैव हि पिता तेऽभूत् पूर्वं हरिगणेश्वरः ॥ ५.६४.८ ॥
先前因愚昧而发的怒气,您应当宽恕,正如您的父亲昔日是猴众之主。
5.64.9
तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम।
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ॥ ५.६४.९ ॥
同样,您也正是须羯里婆本人,别无他人,猴中最优秀者啊。因为我已前往告诉您的叔父,无过失者啊。
5.64.10
इहोपयानं सर्वेषामेतेषां वनचारिणाम्।
भवदागमनं श्रुत्वा सहैभिर्वनचारिभिः ॥ ५.६४.१० ॥
这些林中游荡者都已来到此地,听闻您的到来,与这些林中之众一同。
5.64.11
प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्।
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ॥ ५.६४.११ ॥
听闻林苑被毁,他却欢喜而非愤怒。您的叔父、猴王须羯里婆对我十分欢喜。
5.64.12
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः।
श्रुत्वा दधिमुखस्यैतद् वचनं श्लक्ष्णमङ्गदः ॥ ५.६४.१२ ॥
国王说:“快让他们都来。”听了达提穆伽这番温和的话,安伽陀说道。
5.64.13
अब्रवीत् तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः।
शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः ॥ ५.६४.१३ ॥
善言辞的猴中之王安迦陀对他们说:"诸位猴军统帅,我怀疑这一消息是从罗摩那里听来的。"
5.64.14
अयं च हर्षादाख्याति तेन जानामि हेतुना।
तत् क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः ॥ ५.६४.१४ ॥
他欢喜地述说此事,因此我得知。所以,诸位灭敌者,在事情未办成之前留在此处对我们并不合适。
5.64.15
पीत्वा मधु यथाकामं विक्रान्ता वनचारिणः।
किं शेषं गमनं तत्र सुग्रीवो यत्र वानरः ॥ ५.६४.१५ ॥
你们随心所欲地饮了蜂蜜,勇猛的林中行者啊,去猴王须羯哩婆所在之处,还有什么未完成的呢?
5.64.16
सर्वे यथा मां वक्ष्यन्ति समेत्य हरिपुङ्गवाः।
तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ॥ ५.६४.१६ ॥
诸位猴中俊杰,你们聚集起来对我说什么,我就照着做;在该做的事情上,我听从你们。
5.64.17
नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं बलात् ॥ ५.६४.१७ ॥
我虽然是太子,却无权命令你们;对于已经完成其事的你们,以武力压制是不合适的。
5.64.18
ब्रुवतश्चाङ्गदस्यैवं श्रुत्वा वचनमुत्तमम्।
प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ॥ ५.६४.१८ ॥
林中的猴子们听到安迦陀说出这些高尚的话,心中欢喜,便说出了这些话。
5.64.19
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ।
ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते ॥ ५.६४.१९ ॥
国王啊,猴群中的雄牛,身为君主者谁会这样说呢?被权势之骄傲所迷醉的人,都以为“我便是一切”。
5.64.20
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ॥ ५.६४.२० ॥
这些话正适合你,而不适合别人。谦逊正表明你具备未来福祉的资格。
5.64.21
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ॥ ५.६४.२१ ॥
我们也都已来到此地,随时准备前往猴中英雄的不朽之主须羯哩婆所在之处。
5.64.22
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात् पदम्।
क्वचिद् गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ॥ ५.६४.२२ ॥
猴中之最,没有你的命令,猴子们连一步也不能从这一处挪到那一处。这是我们对你说的真话。
5.64.23
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत।
साधु गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ॥ ५.६४.२३ ॥
他们正这样说话时,安耆陀回答道:“好,我们走吧。”说完,这些大力者便腾空而起,跃入天空。
5.64.24
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः।
कृत्वाऽऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवोपलाः ॥ ५.६४.२४ ॥
随着跃起的安耆陀,所有猴群的统领也都跃起。他们使天空几乎失去了天空,如同被机械投掷出去的石块一般疾驰而去。
5.64.25
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्।
तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ॥ ५.६४.२५ ॥
他们让安伽陀和猴子哈努曼走在前面,那些迅捷的猴子突然跃入天空。
5.64.26
विनदन्तो महानादं घना वातेरिता यथा।
अङ्गदे समनुप्राप्ते सुग्रीवो वानरेश्वरः ॥ ५.६४.२६ ॥
如风吹云般发出巨大吼声。当安伽陀抵达时,猴王须羯里婆说道:
5.64.27
उवाच शोकसंतप्तं रामं कमललोचनम्।
समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः ॥ ५.६४.२७ ॥
他对忧伤煎熬、眼如莲花的罗摩说:"请宽心,愿你吉祥。天后已被找到,毫无疑问。"
5.64.28
नागन्तुमिह शक्यं तैरतीतसमयैरिह।
अङ्गदस्य प्रहर्षाच्च जानामि शुभदर्शन ॥ ५.६४.२८ ॥
时限已过,他们无法来到此处;从安伽陀的喜悦中我知道这一点,啊,目光吉祥的人。
5.64.29
न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते।
युवराजो महाबाहुः प्लवतामङ्गदो वरः ॥ ५.६४.२९ ॥
若任务已然失败,他不该来到我面前;太子,大臂的安伽陀,诸跃者中最优秀的。
5.64.30
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः।
भवेत् तु दीनवदनो भ्रान्तविप्लुतमानसः ॥ ५.६४.३० ॥
即便未完成使命的人如此前来,他也会面容沮丧、心神惶乱不安。
5.64.31
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्।
न मे मधुवनं हन्याददृष्ट्वा जनकात्मजाम् ॥ ५.६४.३१ ॥
这片由我的父辈与祖辈守护的蜜林,若未见到遮那迦之女悉多,我不会毁坏它。
5.64.32
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत।
दृष्टा देवी न संदेहो न चान्येन हनूमता ॥ ५.६४.३२ ॥
罗摩啊,你要安慰拥有良子的憍莎罗,持守誓愿的人啊。女神已被见到,毫无疑问,而且并非他人,正是哈努曼所见。
5.64.33
नह्यन्यः कर्मणो हेतुः साधनेऽस्य हनूमतः।
हनूमतीह सिद्धिश्च मतिश्च मतिसत्तम ॥ ५.६४.३३ ॥
完成此事并无其他原因;成功与智慧正是通过哈努曼而来,智者中最优秀的人啊。
5.64.34
व्यवसायश्च शौर्यं च श्रुतं चापि प्रतिष्ठितम्।
जाम्बवान् यत्र नेता स्यादङ्गदश्च हरीश्वरः ॥ ५.६४.३४ ॥
若有熊罴之王遮婆梵为首领,猴王之主安伽陀在侧,坚定的决心、勇武与学识便都稳固确立。
5.64.35
हनूमांश्चाप्यधिष्ठाता न तत्र गतिरन्यथा।
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ॥ ५.६४.३५ ॥
哈努曼也在那里担任引导;否则别无他途。现在不要被忧虑所困扰,威力无量的人啊。
5.64.36
यदा हि दर्पितोदग्राः संगताः काननौकसः।
नैषामकृतकार्याणामीदृशः स्यादुपक्रमः ॥ ५.६४.३६ ॥
当骄傲而勇猛的林中猴群聚集时,那些尚未完成使命的人,不会有这样的开端。
5.64.37
वनभङ्गेन जानामि मधूनां भक्षणेन च।
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ॥ ५.६४.३७ ॥
由于毁坏园林和食用蜂蜜,我知道。于是他听见空中近处传来欢快的喧闹声。
5.64.38
हनूमत्कर्मदृप्तानां नदतां काननौकसाम्।
किष्किन्धामुपयातानां सिद्धिं कथयतामिव ॥ ५.६४.३८ ॥
因哈努曼的功绩而自豪、呼啸的林中猴众,他们来到基什金陀,仿佛在宣告成功。
5.64.39
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः।
आयताञ्चितलाङ्गूलः सोऽभवद्हृष्टमानसः ॥ ५.६४.३९ ॥
于是,听见猴众的那阵呼啸,猴中之最,尾巴伸展而高举,心中欢喜起来。
5.64.40
आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः।
अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ॥ ५.६४.४० ॥
那些渴望见到罗摩的猴众也来了,以安伽达为前导,还有哈努曼和那只猴子。
5.64.41
तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः।
निपेतुर्हरिराजस्य समीपे राघवस्य च ॥ ५.६४.४१ ॥
以安伽达为首的那些英雄们欢喜满怀,在猴王和罗怙之子身边俯身下拜。
5.64.42
हनूमांश्च महाबाहुः प्रणम्य शिरसा ततः।
नियतामक्षतां देवीं राघवाय न्यवेदयत् ॥ ५.६४.४२ ॥
于是,大臂的哈努曼低头致礼,然后向罗怙之子禀报了那位自持而无损的女神。
5.64.43
दृष्टा देवीति हनुमद्वदनादमृतोपमम्।
आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ॥ ५.६४.४३ ॥
"我已见到天后"——罗摩听到哈奴曼口中如甘露般的这番话,与罗什曼那一同感到欢喜。
5.64.44
निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे।
लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ॥ ५.६४.४४ ॥
此事既已确定,罗什曼那满怀情意、心中欢喜,以极大的敬重望着风之子哈奴曼。
5.64.45
प्रीत्या च परयोपेतो राघवः परवीरहा।
बहुमानेन महता हनूमन्तमवैक्षत ॥ ५.६४.४५ ॥
罗怙之裔(罗摩)充满至深的情意,乃是诛杀敌方英雄者,以极大的敬意望着哈奴曼。