ヴァールミーキのラーマーヤナ · サルガ 6.108
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.108.1
अथ संस्मारयामास मातली राघवं तदा।
अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥ ६.१०८.१ ॥
そのとき、マータリはラーガヴァに思い出させた。「勇士よ、彼を知らないかのように、なぜ彼に従うのか。」
6.108.2
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो।
विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥ ६.१०८.२ ॥
主よ、彼を討つために祖父の武器を放て。神々が告げた滅びの時が、今日まさに訪れている。
6.108.3
ततः संस्मारितो रामस्तेन वाक्येन मातलेः।
जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम् ॥ ६.१०८.३ ॥
マータリの言葉に思い出させられたラーマは、シューシューと息を吐く蛇のように輝く矢を取った。
6.108.4
यं तस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः।
ब्रह्मदत्तं महद् बाणममोघं युधि वीर्यवान् ॥ ६.१०८.४ ॥
梵天が与え、尊者アガスティヤ仙が最初に彼に授けた、戦いで決して外れぬ大いなる矢――勇猛な者のものである。
6.108.5
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा।
दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः ॥ ६.१०८.५ ॥
かつて無限の威力を持つブラフマーがインドラのために作り、三界の征服を望む神々の王に先に授けたもの。
6.108.6
यस्य वाजेषु पवनः फले पावकभास्करौ।
शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६.१०८.६ ॥
羽根には風があり、鏃には火と太陽があり、身体は虚空から成り、重さにはメール山とマンダラ山がある矢。
6.108.7
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम्।
तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ ६.१०८.७ ॥
その矢は姿が燃え輝き、美しい羽根を持ち、金で飾られ、その輝きによってすべての生き物にとって太陽に等しいものとされていた。
6.108.8
सधूममिव कालाग्निं दीप्तमाशीविषोपमम्।
नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ ६.१०८.८ ॥
煙を伴う劫火のようで、毒蛇のように燃え、人・象・馬の群れを速やかに貫くものであった。
6.108.9
द्वाराणां परिघाणां च गिरीणां चापि भेदनम्।
नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम् ॥ ६.१०८.९ ॥
門、かんぬき、山々さえも貫き、種々の血と脂にまみれた体で、極めて恐ろしいものであった。
6.108.10
वज्रसारं महानादं नानासमितिदारुणम्।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ ६.१०८.१० ॥
金剛のように堅く、大きな轟音を発し、多くの戦いで恐ろしく、すべての者を震え上がらせ、凄まじく、息を吐く蛇のようであった。
6.108.11
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम्।
नित्यभक्षप्रदं युद्धे यमरूपं भयावहम् ॥ ६.१०८.११ ॥
戦において、鶴・禿鷲・鷺・豺の群れ・羅刹に毎日の食を与え、ヤマの姿をし、恐怖をもたらすものであった。
6.108.12
नन्दनं वानरेन्द्राणां रक्षसामवसादनम्।
वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः ॥ ६.१०८.१२ ॥
猿王たちの喜びであり、羅刹を滅ぼすもの。ガルダの美しく彩り豊かな様々な羽根で矢羽をつけられている。
6.108.13
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम्।
द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ ६.१०८.१३ ॥
諸世界の中で最も優れたその矢は、イクシュヴァーク族の恐怖を滅ぼし、敵の名声を奪い、自らに喜びをもたらすものであった。
6.108.14
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः।
वेदप्रोक्तेन विधिना संदधे कार्मुके बली ॥ ६.१०८.१४ ॥
そこで大力のラーマは、その大矢をマントラで加持し、ヴェーダに説かれた儀軌に従って力強く弓につがえた。
6.108.15
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे।
सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा ॥ ६.१०८.१५ ॥
ラーghavaがその最上の矢をつがえると、あらゆる生き物は恐れおののき、大地は震えた。
6.108.16
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम्।
चिक्षेप परमायत्तः शरं मर्मविदारणम् ॥ ६.१०८.१६ ॥
激怒した彼は弓を十分に引き絞り、全力を込めて急所を貫く矢をラーヴァナに放った。
6.108.17
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः।
कृतान्त इव चावार्यो न्यपतद् रावणोरसि ॥ ६.१०८.१७ ॥
雷霆を持つ者の腕から放たれたその矢は、雷霆のように抗しがたく、死神のように避けがたく、ラーヴァナの胸に落ちた。
6.108.18
स विसृष्टो महावेगः शरीरान्तकरः परः।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥ ६.१०८.१८ ॥
激しい速さで放たれたその最上の矢は、身体の命を断つもので、邪悪なラーヴァナの心臓を貫いた。
6.108.19
रुधिराक्तः स वेगेन शरीरान्तकरः शरः।
रावणस्य हरन् प्राणान् विवेश धरणीतलम् ॥ ६.१०८.१९ ॥
血に染まったその矢は素早く、身体を滅ぼす矢で、ラーヴァナの命を奪いながら大地の表面に入り込んだ。
6.108.20
स शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः।
कृतकर्मा निभृतवत् स तूणीं पुनराविशत् ॥ ६.१०८.२० ॥
その矢はラーヴァナを打ち倒し、血に濡れた輝きを帯び、務めを果たして、静かに再び矢筒へと戻った。
6.108.21
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम्।
निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ ६.१०८.२१ ॥
打たれた者の手から、その弓は矢とともに素早く落ち、命の息とともに、命から滑り落ちていく彼と共に。
6.108.22
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः।
पपात स्यन्दनाद् भूमौ वृत्रो वज्रहतो यथा ॥ ६.१०८.२२ ॥
命の尽きた、恐ろしい速さと大いなる輝きを持つ羅刹王は戦車から地面に落ちた。雷霆に打たれたヴリトラのように。
6.108.23
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः।
हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः ॥ ६.१०८.२३ ॥
彼が地に倒れているのを見て、生き残った夜の徘徊者たちは、主を失い恐怖に震え、四方へと逃げ散った。
6.108.24
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः।
दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः ॥ ६.१०८.२४ ॥
咆哮しながら、木々で戦う猿たちが彼らに襲いかかった。十頭のダシャグリーヴァの死を見て、勝利を得たと思う猿たちは。
6.108.25
अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात्।
हताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥ ६.१०८.२५ ॥
喜ぶ猿たちに苦しめられた羅刹たちは恐怖に駆られてランカーへ殺到した。拠り所を失い、涙にぬれた顔は哀れであった。
6.108.26
ततो विनेदुः संहृष्टा वानरा जितकाशिनः।
वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ ६.१०८.२६ ॥
そこで喜び勇んだ勝利の猿たちは吠え立て、ラグハヴァの勝利とラーヴァナの死を告げた。
6.108.27
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः।
दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ ६.१०८.२७ ॥
そのとき空には神々の吉祥の太鼓が鳴り響き、神聖な香りを運ぶこよなく心地よい風が吹いた。
6.108.28
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि।
किरन्ती राघवरथं दुरावापा मनोहरा ॥ ६.१०८.२८ ॥
そのとき空から花の雨が地上に降り注ぎ、ラグハヴァの戦車に撒かれた。それは稀有で麗しいものであった。
6.108.29
राघवस्तवसंयुक्ता गगने च विशुश्रुवे।
साधुसाध्विति वागग्र्या देवतानां महात्मनाम् ॥ ६.१०८.२९ ॥
ラグハヴァを讃える声が混じり、空にも響いた。偉大な神々の最上の声が「善い、善い」と言った。
6.108.30
आविवेश महान् हर्षो देवानां चारणैः सह।
रावणे निहते रौद्रे सर्वलोकभयंकरे ॥ ६.१०८.३० ॥
すべての世界を恐れさせた恐ろしいラーヴァナが殺されたとき、神々と天上の歌人たちに大きな喜びが満ちた。
6.108.31
ततः सकामं सुग्रीवमङ्गदं च विभीषणम्।
चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् ॥ ६.१०८.३१ ॥
羅刹の勇者を討ち果たしたラーガヴァは喜び、スグリーヴァ、アンガダ、ヴィビーシャナの望みを叶えてやった。
6.108.32
ततः प्रजग्मुः प्रशमं मरुद्गणा
दिशः प्रसेदुर्विमलं नभोऽभवत्।
मही चकम्पे न च मारुतो ववौ
स्थिरप्रभश्चाप्यभवद् दिवाकरः ॥ ६.१०८.३२ ॥
そこでマルト神群は静まって去り、方角は澄み、空は清らかになった。大地は震えず、風も吹かず、太陽は揺るぎない光を放った。
6.108.33
ततस्तु सुग्रीवविभीषणाङ्गदाः
सुहृद्विशिष्टाः सहलक्ष्मणस्तदा।
समेत्य हृष्टा विजयेन राघवं
रणेऽभिरामं विधिनाभ्यपूजयन् ॥ ६.१०८.३३ ॥
そこでスグリーヴァ、ヴィビーシャナ、アンガダら最良の友は、ラクシュマナと共に勝利を喜び、ラーガヴァのもとに来て、戦場で麗しいラーガヴァを作法どおりに讃えた。
6.108.34
स तु निहतरिपुः स्थिरप्रतिज्ञः
स्वजनबलाभिवृतो रणे बभूव।
रघुकुलनृपनन्दनो महौजा-
स्त्रिदशगणैरभिसंवृतो महेन्द्रः ॥ ६.१०८.३४ ॥
敵を滅ぼし、誓いを固く守る彼は、親族と軍勢に囲まれて戦場にいた。ラグ家の王子、大いなる力を持つその姿は、神々の群れに囲まれたマヘーンドラのようであった。