蚁垤《罗摩衍那》 · 篇 6.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.30.1
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ ६.३०.१ ॥
随后,探子向楞伽之主报告:力量不可动摇的罗ghava已在苏维罗山上扎营。
6.30.2
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्।
जातोद्वेगोऽभवत् किंचिच्छार्दूलं वाक्यमब्रवीत् ॥ ६.३०.२ ॥
罗波那听闻探子报告大力罗摩已经到来,心中略有不安,这位罗刹中的猛虎便说出了这番话。
6.30.3
अयथावच्च ते वर्णो दीनश्चासि निशाचर।
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ ६.३०.३ ॥
夜行者啊,你的脸色已变,显得颓丧。莫非你已落入愤怒的敌人之手?
6.30.4
तदा राक्षसशार्दूलं शार्दूलो भयविक्लवः ॥ ६.३०.४ ॥
于是,被恐惧扰乱的猛虎舒迦对那位罗刹中的猛虎说道。
6.30.5
न ते चारयितुं शक्या राजन् वानरपुङ्गवाः।
विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ॥ ६.३०.५ ॥
大王啊,你无法窥探那些猴中之最;他们勇猛强大,并受到罗ghava的庇护。
6.30.6
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते।
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ॥ ६.३०.६ ॥
与他们连交谈都不可能,此处也无从打探;如山的猴群从四面守卫着道路。
6.30.7
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन् विचारिते।
बलाद् गृहीतो रक्षोभिर्बहुधास्मि विचारितः ॥ ६.३०.७ ॥
我一进入,就在那支军队中被认出。经过盘问,罗刹们便强行将我抓住,并以种种方式审问我。
6.30.8
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्।
परिणीतोऽस्मि हरिभिर्बलमध्ये अमर्षणैः ॥ ६.३०.८ ॥
我被膝盖、拳头、牙齿和手掌狠狠殴打。愤怒的猴子们把我拖着在军队中间游行。
6.30.9
परिणीय च सर्वत्र नीतोऽहं रामसंसदि।
रुधिरस्राविदीनाङ्गो विह्वलश्चलितेन्द्रियः ॥ ६.३०.९ ॥
他们四处拖着我,把我带到罗摩的议会。我浑身流血,凄惨狼狈,神志昏乱,感官失控。
6.30.10
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः।
राघवेण परित्रातो मा मेति च यदृच्छया ॥ ६.३०.१० ॥
我被猴子们殴打,合掌哀求,连声说:「不要杀我,不要杀我」,恰巧罗怙之子救了我。
6.30.11
एष शैलशिलाभिस्तु पूरयित्वा महार्णवम्।
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ ६.३०.११ ॥
这就是罗摩,他以山石填满了大海,手持兵器立于楞伽城门前。
6.30.12
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः।
मां विसृज्य महातेजा लङ्कामेवातिवर्तते ॥ ६.३०.१२ ॥
罗摩摆开迦楼罗阵,四面被猴众环绕。他放了我之后,正朝楞伽城进军。
6.30.13
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु।
सीतां वापि प्रयच्छाशु युद्धं वापि प्रदीयताम् ॥ ६.३०.१३ ॥
他正向城墙逼近。快作出选择:立即归还悉多,或者应战。
6.30.14
मनसा तत् तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः।
शार्दूलं सुमहद्वाक्यमथोवाच स रावणः ॥ ६.३०.१४ ॥
罗刹王罗波那心中思量并听了这些话之后,便对沙尔杜拉说了这番重要的话。
6.30.15
यदि मां प्रतियुध्यन्ते देवगन्धर्वदानवाः।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ ६.३०.१५ ॥
即使天神、乾闼婆和檀那婆与我交战,我也绝不会交出悉多,即便出于对所有世界的畏惧。
6.30.16
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्।
चरिता भवता सेना केऽत्र शूराः प्लवंगमाः ॥ ६.३०.१६ ॥
罗波那光辉赫赫,如此说罢,又说道:「你已巡视了军队;这里有哪些勇猛的猴子?」
6.30.17
किंप्रभाः कीदृशाः सौम्य वानरा ये दुरासदाः।
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ ६.३०.१७ ॥
善良的人啊,那些难以抵挡的猴子光芒如何、模样怎样?他们是谁的儿子和孙子?罗刹啊,请如实告诉我。
6.30.18
तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्।
अवश्यं खलु संख्यानं कर्तव्यं युद्धमिच्छता ॥ ६.३०.१८ ॥
那么,我在此了解他们的强弱之后,便会行动;想要开战的人,必须先作一番估量。
6.30.19
अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः।
इदं वचनमारेभे वक्तुं रावणसंनिधौ ॥ ६.३०.१९ ॥
罗波那如此发问后,优秀的密探沙尔杜拉在罗波那面前开始说出这番话。
6.30.20
अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः।
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ ६.३०.२० ॥
大王啊,那在战斗中难以战胜的熊罗阇之子,也是伽德伽陀之子,在此以遮婆梵之名闻名。
6.30.21
गद्गदस्याथ पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः।
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ ६.३०.२१ ॥
伽德伽陀的另一个儿子,是释迦罗(因陀罗)之师的儿子;他的一个儿子曾大肆屠杀罗刹。
6.30.22
सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्।
सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः ॥ ६.३०.२२ ॥
这里还有正法之子、勇武的善心苏舍那;大王啊,这里还有月神之子、温和的猴子达提穆佉。
6.30.23
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः।
मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा ॥ ६.३०.२३ ॥
这里还有须眉和恶面,以及疾视的猴子;无疑,自生神以猴子之形创造了死亡本身。
6.30.24
पुत्रो हुतवहस्यात्र नीलः सेनापतिः स्वयम्।
अनिलस्य तु पुत्रोऽत्र हनूमानिति विश्रुतः ॥ ६.३०.२४ ॥
火神之子、统帅那罗本人在此;风神之子,在此名为哈努曼者也在此。
6.30.25
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा।
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥ ६.३०.२५ ॥
因陀罗之孙、不可战胜的强壮青年安迦陀,以及由双马神所生的两位勇士——摩因达与双维陀。
6.30.26
पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ ६.३०.२६ ॥
毗婆娑衣之子阎摩的五个儿子,如时间与终结者一般:迦阇、迦婆刹、迦婆耶、沙罗婆与香醉。
6.30.27
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्।
श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ ६.३०.२७ ॥
十千万(十克罗)猴众,皆渴望战斗的勇士、光荣的天神之子;其余的我不敢一一叙述。
6.30.28
पुत्रो दशरथस्यैष सिंहसंहननो युवा।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ ६.३०.२८ ॥
这位达舍罗陀之子,身形如狮的青年,曾杀死阁舍那、ខ罗与三头罗刹。
6.30.29
नास्ति रामस्य सदृशे विक्रमे भुवि कश्चन।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ ६.३०.२९ ॥
世上没有人能与罗摩的勇武相比;他杀死了毗罗陀,以及如死神般的迦槃陀。
6.30.30
वक्तुं न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ।
जनस्थानगता येन तावन्तो राक्षसा हताः ॥ ६.३०.३० ॥
世上无人能述说罗摩的德行;凡居于人居之地的罗刹,他杀尽了那么多。
6.30.31
लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः।
यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ६.३०.३१ ॥
这里还有正法之士罗什曼那,他是象群中的公牛;落入他箭矢路径的人,即便是因陀罗也活不下来。
6.30.32
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ।
वरुणस्याथ पुत्रोऽथ हेमकूटः प्लवंगमः ॥ ६.३०.३२ ॥
这里还有太阳所生的儿子白与光面,以及水神伐楼那之子、猴将金峰。
6.30.33
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः।
विक्रान्तो वेगवानत्र वसुपुत्रः स दुर्धरः ॥ ६.३०.३३ ॥
这里还有毗首羯摩之子、英勇的猴中之王那罗,他勇猛迅捷;婆苏之子那位难以抵挡的勇士也在此。
6.30.34
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः।
प्रतिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ ६.३०.३४ ॥
罗刹中最优秀的、你的兄弟维毗沙那也在此。他接受了楞伽城,以罗怙之子的福祉为乐。
6.30.35
सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः ॥ ६.३०.३५ ॥
他们驻守在苏维罗山上,为完成剩下的任务;你才是他们的归宿。