蚁垤《罗摩衍那》 · 篇 6.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.51.1
तेषां तु तुमुलं शब्दं वानराणां महौजसाम्।
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ ६.५१.१ ॥
那时,罗波那听见了那些大力猴军与罗刹一同呼啸的喧嚣之声。
6.51.2
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम्।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ ६.५१.२ ॥
听到那低沉圆润的吼声,罗波那便在众大臣之中说出了这番话。
6.51.3
यथासौ सम्प्रहृष्टानां वानराणामुपस्थितः।
बहूनां सुमहान् नादो मेघानामिव गर्जताम् ॥ ६.५१.३ ॥
那些欢欣鼓舞的猴军所发出的巨大吼声,犹如众多乌云中的雷鸣。
6.51.4
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः।
तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः ॥ ६.५१.४ ॥
显然他们心中充满极大的欢喜,此事毫无疑问;因为这些巨大的吼声使咸海都为之翻腾。
6.51.5
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ।
अयं च सुमहान् नादः शङ्कां जनयतीव मे ॥ ६.५१.५ ॥
那两位兄弟罗摩与罗什曼那已被利箭缚住;然而这巨大的吼声却似在我心中引起疑虑。
6.51.6
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥ ६.५१.६ ॥
说完这番话,罗刹之王便对站在近旁的罗刹们说道。
6.51.7
ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ ६.५१.७ ॥
应迅速查明这些林中人的缘由;在悲伤之时,喜悦之因却已升起。
6.51.8
तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ६.५१.८ ॥
他们被如此吩咐,极为惊惶,登上城墙,看见由大德的须羯哩婆守护的军队。
6.51.9
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ।
समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः ॥ ६.५१.९ ॥
两位罗怙族英雄摆脱了可怕的箭缚,站了起来,所有罗刹都陷入忧伤。
6.51.10
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते।
विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः ॥ ६.५१.१० ॥
他们心中惊惧,都从城墙下来,面色苍白地来到罗刹之主面前。
6.51.11
तदप्रियं दीनमुखा रावणस्य च राक्षसाः।
कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः ॥ ६.५१.११ ॥
善于言辞的罗刹们面容沮丧,将那不祥的消息原原本本地禀告给了罗波那。
6.51.12
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ ६.५१.१२ ॥
那两位兄弟罗摩和罗什曼,被因陀罗耆在战中以箭缚捆住,使其双臂不能动弹。
6.51.13
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे।
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ॥ ६.५१.१३ ॥
二人摆脱了箭缚,出现在战场上,如同挣断绳索的两头象,勇猛堪比象王。
6.51.14
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः।
चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत् ॥ ६.५१.१४ ॥
罗刹王听了他们的话,大力者陷入忧虑与悲伤,面色变得苍白。
6.51.15
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः।
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥ ६.५१.१५ ॥
二人被可怖的、以恩赐获得的箭所缚,那些箭如毒蛇,百发百中,光耀如日,在战斗中被因陀罗耆多制服。
6.51.16
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ ६.५१.१६ ॥
若我的两个敌人遭遇那箭缚之后仍然被释放,那么我看到我的全军都陷入了疑虑。
6.51.17
निष्फलाः खलु संवृत्ताः शराः पावकतेजसः।
आदत्तं यैस्तु संग्रामे रिपूणां जीवितं मम ॥ ६.५१.१७ ॥
的确,那些如火般光耀的箭已成徒劳,本应借它们在战斗中夺取我敌人的性命。
6.51.18
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा।
अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥ ६.५१.१८ ॥
如此说罢,他怒不可遏,如蛇般喘息,在众罗刹之中对一名名为烟眼的罗刹说道。
6.51.19
बलेन महता युक्तो रक्षसां भीमविक्रम।
त्वं वधायाशु निर्याहि रामस्य सह वानरैः ॥ ६.५१.१९ ॥
你率领大军,威猛可畏的罗刹啊,快去杀死罗摩与猴众。
6.51.20
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता।
परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात् ॥ ६.५१.२० ॥
智慧的罗刹王如此吩咐后,烟目绕行一周,随即迅速离开了王宫。
6.51.21
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह।
त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः ॥ ६.५१.२१ ॥
他走出那扇门,对统帅说:“快速整顿军队;既然想要交战,为何迟延?”
6.51.22
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः।
बलमुद्योजयामास रावणस्याज्ञया भृशम् ॥ ६.५१.२२ ॥
统帅听到烟目之言,随即依罗波那的命令,猛然调动大军。
6.51.23
ते बद्धघण्टा बलिनो घोररूपा निशाचराः।
विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ॥ ६.५१.२३ ॥
那些佩戴铃铛、强壮而形貌可怖的夜行者,咆哮欢呼,将烟目团团围住。
6.51.24
विविधायुधहस्ताश्च शूलमुद्गरपाणयः।
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैरपि ॥ ६.५१.२४ ॥
手持各式兵器,手执长矛与木槌,并持铁杵、钉棒、长剑、短棍等。
6.51.25
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः।
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ॥ ६.५१.२५ ॥
罗刹们手持铁杵、投枪、倒钩箭、绳索和战斧,如乌云般咆哮着冲出。
6.51.26
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः।
सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ ६.५१.२६ ॥
其他披甲的罗刹乘坐装饰着旗帜、带有金网的战车而来,由多面孔的驴拉车。
6.51.27
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः।
निर्ययुर्नैर्ऋतव्याघ्रा व्याघ्रा इव दुरासदाः ॥ ६.५१.२७ ॥
骑着极为迅捷的骏马和发情狂暴的象,罗刹中的猛虎们冲了出来,如虎般难以抵挡。
6.51.28
वृकसिंहमुखैर्युक्तं खरैः कनकभूषितैः।
आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः ॥ ६.५१.२८ ॥
烟眼登上了由狼面和狮面、饰以黄金的驴所拉的神圣战车;他的声音如同驴鸣。
6.51.29
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः।
हसन् वै पश्चिमद्वाराद्धनूमान् यत्र तिष्ठति ॥ ६.५१.२९ ॥
大力的烟眼被罗刹们簇拥而出,他笑着从西门来到哈努曼所在之处。
6.51.30
रथप्रवरमास्थाय खरयुक्तं खरस्वनम्।
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ॥ ६.५१.३० ॥
他登上由驴拉着、声如驴鸣的上等战车,向前行进的这位罗刹极为可怖。
6.51.31
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन्।
रथशीर्षे महाभीमो गृध्रश्च निपपात ह ॥ ६.५१.३१ ॥
空中飞翔的凶鸟显示了不祥之兆;战车顶上还落下了一只极其可怕的秃鹫。
6.51.32
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः।
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि ॥ ६.५१.३२ ॥
缠在旗杆顶端的食腐鸟也纷纷坠落,一具被鲜血浸透的巨大白色无头躯干倒在地上。
6.51.33
विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य निपातितः।
ववर्ष रुधिरं देवः संचचाल च मेदिनी ॥ ६.५१.३३ ॥
达摩罗叉被击倒,他的马发出刺耳的嘶鸣;天空降下血雨,大地震动。
6.51.34
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः।
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥ ६.५१.३४ ॥
风逆向吹来,声音如同霹雳;被浓重黑暗笼罩的四方在那里不再发光。
6.51.35
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्।
प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्।
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥ ६.५१.३५ ॥
见到那些令罗刹恐惧、极为可怕的凶兆,达摩罗叉深感不安;走在达摩罗叉前面的所有罗刹都陷入了迷乱。
6.51.36
ततः सुभीमो बहुभिर्निशाचरै-
र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली।
ददर्श तां राघवबाहुपालितां
महौघकल्पां बहु वानरीं चमूम् ॥ ६.५१.३६ ॥
于是,那极其可怕、勇猛而渴望作战的达摩罗叉,被众多夜行罗刹簇拥着出阵,看到了由罗怙后裔之臂守护的、如大洪流般的庞大猴军。