ヴァールミーキのラーマーヤナ · サルガ 6.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.67.1
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा।
नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः ॥ ६.६७.१ ॥
アンガダの言葉を聞いて、その巨体の猿たちは引き返した。固い決意を抱き、皆が戦いを望んだ。
6.67.2
समुदीरितवीर्यास्ते समारोपितविक्रमाः।
पर्यवस्थापिता वाक्यैरङ्गदेन बलीयसा ॥ ६.६७.२ ॥
勇気を呼び覚まされ、武勇を奮い立たせられ、力強いアンガダの言葉に彼らは再び落ち着きを取り戻した。
6.67.3
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः।
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ६.६७.३ ॥
彼らは進み出て、死を決意して喜びに満たされた。命を捨てた猿たちは凄まじい戦いを繰り広げた。
6.67.4
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च।
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥ ६.६७.४ ॥
すると巨体の猿たちは、大木や大きな峰を素早く持ち上げ、クンバカルナへ殺到した。
6.67.5
कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान्।
धर्षयन् स महाकायः समन्ताद् व्यक्षिपद् रिपून् ॥ ६.६७.५ ॥
激怒した勇猛なクンバカルナは棍棒を振り上げた。その巨体は四方から敵を襲い、散らしてしまった。
6.67.6
शतानि सप्त चाष्टौ च सहस्राणि च वानराः।
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ॥ ६.६७.६ ॥
クンバカルナに打ち倒された七百と八千の猿たちが、散らばって地に横たわっている。
6.67.7
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च।
परिक्षिप्य च बाहुभ्यां खादन् स परिधावति।
भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव ॥ ६.६७.७ ॥
十六、八、十、二十、三十——同じように両腕で抱え込み、貪り食いながら走り回る。激しく怒った彼は、ガルダが蛇を喰らうように、それらを喰らう。
6.67.8
कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः।
वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि ॥ ६.६७.८ ॥
ようやく勇気を取り戻し、あちこちから集まって、手に木々や山の頂を持った猿たちは戦場の先頭に立った。
6.67.9
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः।
दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ॥ ६.६७.९ ॥
すると猿の中の牡牛ドヴィヴィダは山を引き抜き、山の頂のようなそれを持って、低く垂れ込めた雨雲のように突進した。
6.67.10
तं समुत्पाट्य चिक्षेप कुम्भकर्णाय वानरः।
तमप्राप्य महाकायं तस्य सैन्येऽपतत् ततः ॥ ६.६७.१० ॥
それを引き抜いて猿はクンバカルナめがけて投げつけた。巨大な体に届かず、それは彼の軍勢の上に落ちた。
6.67.11
ममर्दाश्वान् गजांश्चापि रथांश्चापि गजोत्तमान्।
तानि चान्यानि रक्षांसि एवं चान्यद्गिरेः शिरः ॥ ६.६७.११ ॥
それは馬、象、戦車、さらに優れた象をも押しつぶした。それらと、他の羅刹たち、そして山の別の峰もまた。
6.67.12
तच्छैलवेगाभिहतं हताश्वं हतसारथिम्।
रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ॥ ६.६७.१२ ॥
その山の勢いに打たれ、馬は倒れ、御者も倒れ、羅刹の血に濡れた大戦場となった。
6.67.13
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः।
शिरांसि नर्दतां जह्रुः सहसा भीमनिःस्वनाः ॥ ६.६७.१३ ॥
カーラやアンタカのような矢で、戦車の戦士たちは吠え叫ぶヴァーナラの王たちの首を突然切り落とした。彼らは恐ろしい叫びを上げていた。
6.67.14
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान्।
रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् ॥ ६.६७.१४ ॥
偉大な心のヴァーナラたちは巨木を引き抜き、戦車、馬、象、ラクダ、そしてラークシャサを打ち倒した。
6.67.15
हनूमान् शैलशृङ्गाणि शिलाश्च विविधान् द्रुमान्।
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ ६.६७.१५ ॥
空中に立つハヌマーンは、山の頂や岩、さまざまな木々をクンバカルナの頭上に雨のように降らせた。
6.67.16
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह।
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ ६.६७.१६ ॥
彼は槍でそれらの山の頂を砕き、大力のクンバカルナは木々の雨をも打ち砕いた。
6.67.17
ततो हरीणां तदनीकमुग्रं
दुद्राव शूलं निशितं प्रगृह्य।
तस्थौ स तस्यापततः परस्ता-
न्महीधराग्रं हनुमान् प्रगृह्य ॥ ६.६७.१७ ॥
そこでクンバカルナは鋭い槍を手にして、猛々しいヴァーナラの軍勢へと突進した。するとハヌマーンは山の頂を掴み、迫り来る彼の前に立ちはだかった。
6.67.18
स कुम्भकर्णं कुपितो जघान
वेगेन शैलोत्तमभीमकायम्।
संचुक्षुभे तेन तदाभिभूतो
मेदार्द्रगात्रो रुधिरावसिक्तः ॥ ६.६७.१८ ॥
怒った彼は、最上の山のように恐ろしい体のクンバカルナを勢いよく打った。打たれた彼はよろめき、手足は脂に濡れ、血にまみれた。
6.67.19
स शूलमाविध्य तडित्प्रकाशं
गिरिं यथा प्रज्वलिताग्निशृङ्गम्।
बाह्वन्तरे मारुतिमाजघान
गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥ ६.६७.१९ ॥
稲妻のように輝く槍を振りかざし、燃え盛る火の峰を持つ山のように、風神の子ハヌマーンの両腕の間の胸を突いた。グハがクラウンチャ山を激しい槍で打ったように。
6.67.20
स शूलनिर्भिन्नमहाभुजान्तरः
प्रविह्वलः शोणितमुद्वमन् मुखात् ।
ननाद भीमं हनुमान् महाहवे
युगान्तमेघस्तनितस्वनोपमम् ॥ ६.६७.२० ॥
槍に大きな両腕の間を貫かれ、ひどく揺さぶられ、口から血を吐きながら、ハヌマーンはあの大戦で、劫末の雲の雷鳴のような恐ろしい咆哮を上げた。
6.67.21
ततो विनेदुः सहसा प्रहृष्टा
रक्षोगणास्तं व्यथितं समीक्ष्य।
प्लवंगमास्तु व्यथिता भयार्ताः
प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ ६.६७.२१ ॥
その時、ラークシャサの群れは彼が苦しむのを見て突然喜びの声を上げた。しかしヴァーナラたちは苦しみ恐怖に怯え、戦いにおいてクンバカルナから逃げ去った。
6.67.22
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम्।
प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ ६.६७.२२ ॥
その時、力強いニーラは軍勢を立て直し、賢明なクンバカルナに山の頂を投げつけた。
6.67.23
तदापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह।
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत।
सविस्फुलिङ्गं सज्वालं निपपात महीतले ॥ ६.६७.२३ ॥
その山頂が自分に向かって落ちてくるのを見て、彼は拳でそれを打った。拳の一撃を受けて山の頂は砕け、火花と炎を散らして地に落ちた。
6.67.24
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः।
पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ ६.६७.२४ ॥
リシャバ、シャラバ、ニーラ、ガヴァークシャ、ガンダマーダナ——この五人の猿の虎たちがクンバカルナへ突進した。
6.67.25
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः।
कुम्भकर्णं महाकायं निजघ्नुः सर्वतो युधि ॥ ६.६७.२५ ॥
大力の猿たちは戦場で四方から、岩、木、掌、足、拳で巨体のクンバカルナを打ちすえた。
6.67.26
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे।
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ ६.६७.२६ ॥
その打撃をまるで触れられた程度のように感じ、クンバカルナは痛みを覚えなかった。そして素早いリシャバを両腕で強く抱きしめた。
6.67.27
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः।
निपपातर्षभो भीमः प्रमुखागतशोणितः ॥ ६.६७.२७ ॥
クンバカルナの両腕に締めつけられ、猿の中の牡牛である恐ろしいリシャバは倒れた。顔からは血が流れ出た。
6.67.28
मुष्टिना शरभं हत्वा जानुना नीलमाहवे।
आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा।
पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम् ॥ ६.६७.२८ ॥
拳でシャラバを打ち、戦場で膝でニーラを打った。そしてインドラの敵であるクンバカルナは、掌でガヴァークシャを打ち、怒りのままガンダマーダナを足で勢いよく蹴った。
6.67.29
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः।
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ ६.६७.२९ ॥
受けた打撃に苦しめられ、血に濡れた彼らは気を失い、切り倒されたキンシュカの木のように大地に倒れた。
6.67.30
तेषु वानरमुख्येषु पातितेषु महात्मसु।
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ ६.६७.३० ॥
それら偉大な主立ったヴァーナラたちが倒れると、数千のヴァーナラがクンバカルナへ殺到した。
6.67.31
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः।
समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥ ६.६७.३१ ॥
山のような跳躍する者たちの中の雄牛たちは皆、山のごとき彼の上によじ登り、跳び上がり、大力で彼に噛みついた。
6.67.32
तं नखैर्दशनैश्चापि मुष्टिभिर्बाहुभिस्तथा।
कुम्भकर्णं महाबाहुं निजघ्नुः प्लवगर्षभाः ॥ ६.६७.३२ ॥
爪と歯、拳と腕で、それら雄牛のようなヴァーナラたちは大腕のクンバカルナを打ち据えた。
6.67.33
स वानरसहस्रैस्तु विचितः पर्वतोपमः।
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ६.६७.३३ ॥
数千のヴァーナラに覆われたその山のごときラークシャサの虎は、自らに生えた木々に覆われた山のように輝いた。
6.67.34
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः।
भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ॥ ६.६७.३४ ॥
両腕で全てのヴァーナラを掴み、その大力の者は怒り狂って彼らを喰らった——ガルダが蛇を喰らうように。
6.67.35
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे।
नासापुटाभ्यां संजग्मुः कर्णाभ्यां चैव वानराः ॥ ६.६७.३५ ॥
クンバカルナに地底(パーターラ)のような口へ投げ込まれたヴァーナラたちは、鼻孔からも耳からも外へ出てきた。
6.67.36
भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः।
बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः ॥ ६.६७.३६ ॥
猿を貪り食い、激しく怒った、山のような羅刹の最高者は、怒りのうちにすべての猿を打ち砕いた。
6.67.37
मांसशोणितसंक्लेदां कुर्वन् भूमिं स राक्षसः।
चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥ ६.६७.३७ ॥
肉と血で大地を濡らしながら、時の終わりの火のように燃え上がったその羅刹は、猿の軍勢の中を歩き回った。
6.67.38
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः।
शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः ॥ ६.६७.३८ ॥
手に金剛杵を持つインドラや、手に縄を持つ死神のように、手に槍を持つ大力のクンバカルナは戦場で輝いた。
6.67.39
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः।
तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥ ६.६७.३९ ॥
夏に火が乾いた森を焼き尽くすように、クンバカルナは猿の軍勢を焼き払った。
6.67.40
ततस्ते वध्यमानास्तु हतयूथाः प्लवंगमाः।
वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः ॥ ६.६७.४० ॥
そのとき、殺され、群れを失い、恐怖に震えた跳ね回る猿たちは、ゆがんだ声で叫んだ。
6.67.41
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः।
राघवं शरणं जग्मुर्व्यथिता भिन्नचेतसः ॥ ६.६७.४१ ॥
クンバカルナに幾度も殺され、悲しみに心を砕かれた猿たちは、ラーガヴァ(ラーマ)のもとへ庇護を求めて向かった。
6.67.42
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तात्मजात्मजः।
अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ ६.६७.४२ ॥
猿軍の敗走を見て、金剛杵を手にするインドラの孫の子は、大戦で素早くクンバカルナに突進した。
6.67.43
शैलशृङ्गं महद् गृह्य विनदन् स मुहुर्मुहुः।
त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ॥ ६.६७.४३ ॥
巨大な山頂を掴み、幾度も吠え立てて、クンバカルナの足跡に従う羅刹たちをことごとく怯えさせた。
6.67.44
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि।
स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा ॥ ६.६७.४४ ॥
彼はクンバカルナの頭上に山頂を投げつけた。するとインドラの敵クンバカルナは、その山で頭を打たれた。
6.67.45
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा।
सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥ ६.६७.४५ ॥
そのときクンバカルナは大いに怒って燃え上がり、耐えかねて素早くヴァーリの子(アンガダ)へ突進した。
6.67.46
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान्।
शूलं ससर्ज वै रोषादङ्गदे तु महाबलः ॥ ६.६७.४६ ॥
大音声で吠え、すべての猿を怯えさせたクンバカルナは、怒ってアンガダに槍を投げつけた。彼は大力の持ち主であった。
6.67.47
तदापतन्तं बलवान् युद्धमार्गविशारदः।
लाघवान्मोक्षयामास बलवान् वानरर्षभः ॥ ६.६७.४७ ॥
降りかかるその槍を、戦の道に熟達した猿の雄々しき勇者(アンガダ)は身軽さによって避けた。
6.67.48
उत्पत्य चैनं तरसा तलेनोरस्यताडयत्।
स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ॥ ६.६७.४८ ॥
跳び上がって素早く掌で彼の胸を打った。その打撃を受け、怒りの中で彼は山のように気を失った。
6.67.49
स लब्धसंज्ञोऽतिबलो मुष्टिं संगृह्य राक्षसः।
अपहस्तेन चिक्षेप विसंज्ञः स पपात ह ॥ ६.६७.४९ ॥
意識を取り戻したその大力の羅刹は、拳を握り左手で投げつけた。彼は気を失って倒れた。
6.67.50
तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि।
तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ ६.६७.५० ॥
猿の中の虎がその場に気を失って倒れると、彼は槍を取ってスグリーヴァに襲いかかった。
6.67.51
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम्।
उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ ६.६७.५१ ॥
大力のクンバカルナが迫ってくるのを見て、英雄で猿の王スグリーヴァはその時飛び上がった。
6.67.52
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः।
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ६.६७.५२ ॥
その大猿は山の頂を持ち上げて振り回し、猛烈な速さで大力のクンバカルナに襲いかかった。
6.67.53
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवंगमम्।
तस्थौ विवृत्तसर्वाङ्गो वानरेन्द्रस्य सम्मुखः ॥ ६.६७.५३ ॥
その猿が迫ってくるのを見て、クンバカルナは全身を構え、猿の王スグリーヴァの真正面に立った。
6.67.54
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन्।
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ६.६७.५४ ॥
血に染まった体で大猿たちを喰らいながら立つクンバカルナを見て、スグリーヴァはこの言葉を述べた。
6.67.55
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्।
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ ६.६७.५५ ॥
あなたは勇士たちを倒し、極めて困難な行いを成し遂げ、軍勢を喰らった。あなたは至上の名声を得た。
6.67.56
त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि।
सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥ ६.६७.५६ ॥
その猿の軍勢は捨てよ。凡庸な者どもを相手に何をするのか。羅刹よ、わが山の一撃に耐えよ。
6.67.57
तद् वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्।
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद् वचः ॥ ६.६७.५७ ॥
勇気と堅固さに満ちた猿王のその言葉を聞き、羅刹の中の虎クンバカルナは言った。
6.67.58
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः।
धृतिपौरुषसम्पन्नस्तस्माद् गर्जसि वानर ॥ ६.६७.५८ ॥
お前は生主の孫であり、同じくリクシャラジャスの子でもある。堅固さと勇武を備えている。だからこそ、猿よ、お前は吠えるのだ。
6.67.59
स कुम्भकर्णस्य वचो निशम्य
व्याविध्य शैलं सहसा मुमोच।
तेनाजघानोरसि कुम्भकर्णं
शैलेन वज्राशनिसंनिभेन ॥ ६.६७.५९ ॥
クンバカルナの言葉を聞くや、彼は山を振り回して一気に投げつけた。雷霆のようなその山で、クンバカルナの胸を打った。
6.67.60
तच्छैलशृङ्गं सहसा विभिन्नं
भुजान्तरे तस्य तदा विशाले।
ततो विषेदुः सहसा प्लवंगा
रक्षोगणाश्चापि मुदा विनेदुः ॥ ६.६७.६० ॥
その山頂は突然、彼の広い両腕の間で砕け散った。そこで猿の群れは一斉に沈み込み、羅刹の群れは喜びに吼えた。
6.67.61
स शैलशृङ्गाभिहतश्चुकोप
ननाद रोषाच्च विवृत्य वक्त्रम्।
व्याविध्य शूलं स तडित्प्रकाशं
चिक्षेप हर्यृक्षपतेर्वधाय ॥ ६.६७.६१ ॥
山頂に打たれた彼は怒り狂い、憤怒に口を大きく開けて吼えた。稲妻のように輝く槍を振り回し、猿と熊の主を殺すために投げつけた。
6.67.62
तत् कुम्भकर्णस्य भुजप्रणुन्नं
शूलं शितं काञ्चनधामयष्टिम्।
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां
बभञ्ज वेगेन सुतोऽनिलस्य ॥ ६.६७.६२ ॥
クンバカルナの腕から放たれた鋭い槍、その柄は黄金の輝きを放っていた。風神の子は素早く跳び上がり、両腕でそれを掴み、勢いよく折り砕いた。
6.67.63
कृतं भारसहस्रस्य शूलं कालायसं महत्।
बभञ्ज जानुमारोप्य तदा हृष्टः प्लवंगमः ॥ ६.६७.६३ ॥
千荷分の黒鉄で造られたあの大槍を、そのとき喜んだ跳躍する猿の長は膝に載せて折った。
6.67.64
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी।
हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥ ६.६७.६४ ॥
ハヌマーンが槍を折るのを見た猿の軍勢は喜び、幾度も吼え、四方へ駆け回った。
6.67.65
बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत्।
सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः।
मारुतिं पूजयांचक्रुर्दृष्ट्वा शूलं तथागतम् ॥ ६.६७.६५ ॥
すると羅刹は怯えて背を向けた。森に住む猿たちは喜び、獅子吼をあげ、槍がこのように戻ったのを見て風の子ハヌマーンを称えた。
6.67.66
स तत् तथा भग्नमवेक्ष्य शूलं
चुकोप रक्षोधिपतिर्महात्मा।
उत्पाट्य लङ्कामलयात् स शृङ्गं
जघान सुग्रीवमुपेत्य तेन ॥ ६.६७.६६ ॥
槍がこのように折れたのを見て、偉大なる羅刹の主は激怒した。ラṅカーの山から峰を引き抜き、近づいてそれでスグリーヴァを打った。
6.67.67
स शैलशृङ्गाभिहतो विसंज्ञः
पपात भूमौ युधि वानरेन्द्रः।
तं वीक्ष्य भूमौ पतितं विसंज्ञं
नेदुः प्रहृष्टा युधि यातुधानाः ॥ ६.६७.६७ ॥
山の峰に打たれ、猿王は戦いの中で気を失って地に倒れた。地に倒れ意識を失った彼を見て、戦いに喜んだヤートゥダーナたちは咆哮した。
6.67.68
समभ्युपेत्याद्भुतघोरवीर्यं
स कुम्भकर्णो युधि वानरेन्द्रम्।
जहार सुग्रीवमभिप्रगृह्य
यथानिलो मेघमिव प्रचण्डः ॥ ६.६७.६८ ॥
驚異と恐ろしい力を持つ猿王スグリーヴァのもとに近づき、そのクンバカルナは戦いの中で彼を固く掴んで連れ去った。激しい風が雲をさらうように。
6.67.69
स तं महामेघनिकाशरूप-
मुत्पाट्य गच्छन् युधि कुम्भकर्णः।
रराज मेरुप्रतिमानरूपो
मेरुर्यथा व्युच्छ्रितघोरशृङ्गः ॥ ६.६७.६९ ॥
大きな黒雲のような姿のスグリーヴァを持ち上げて戦場を行くクンバカルナは、メール山のような姿で、高く恐ろしい峰をもつメール山のように輝いた。
6.67.70
ततस्तमादाय जगाम वीरः
संस्तूयमानो युधि राक्षसेन्द्रः।
शृण्वन् निनादं त्रिदिवालयानां
प्लवङ्गराजग्रहविस्मितानाम् ॥ ६.६७.७० ॥
そこで彼を担いで、英雄である羅刹王は戦場で称えられながら進んだ。猴王が捕らえられたことに驚く天界の住人たちのどよめきを聞きながら。
6.67.71
ततस्तमादाय तदा स मेने
हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः।
अस्मिन् हते सर्वमिदं हतं स्यात्
सराघवं सैन्यमितीन्द्रशत्रुः ॥ ६.६७.७१ ॥
そこで彼を捕らえたインドラの敵、インドラの力を持つ者は考えた。インドラに等しいこの猴王が殺されれば、ラーガヴァを含むこの全軍が滅びるだろう、と。
6.67.72
विद्रुतां वाहिनीं दृष्ट्वा वानराणामितस्ततः।
कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥ ६.६७.७२ ॥
猿の軍勢があちこちへ逃げ惑うのを見て、またクンバカルナにスグリーヴァとその猿が捕らえられたのを見て。
6.67.73
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः।
एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ६.६७.७३ ॥
賢明な風の子ハヌマーンは考えた。スグリーヴァがこのように捕らえられた今、私は何をすべきか、と。
6.67.74
यद्धि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम्।
भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम् ॥ ६.६७.७४ ॥
私がなすべき正しいことを、私は疑いなく行おう。山のような姿となって、私はあの羅刹を滅ぼそう。
6.67.75
मया हते संयति कुम्भकर्णे
महाबले मुष्टिविशीर्णदेहे।
विमोचिते वानरपार्थिवे च
भवन्तु हृष्टाः प्लवगाः समग्राः ॥ ६.६७.७५ ॥
私が戦いで大力のクンバカルナを殺し、拳で砕かれたその身が倒れ、猿の王が解放されたなら、すべての猿たちは喜ぶがよい。
6.67.76
अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः।
गृहीतोऽयं यदि भवेत् त्रिदशैः सासुरोरगैः ॥ ६.६७.७६ ॥
あるいは、この猿は神々・阿修羅・蛇族に捕らえられたのであれば、自ら解放されるであろう。
6.67.77
मन्ये न तावदात्मानं बुध्यते वानराधिपः।
शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ६.६७.७७ ॥
思うに猿の王はまだ我に返っていない。戦で鬼神クンバカルナの山の一撃を受けたのだから。
6.67.78
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे।
आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ॥ ६.६७.७८ ॥
スグリーヴァは一瞬で意識を取り戻し、この大戦で自分と猿たちのために益あることをするだろう。
6.67.79
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः।
अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ॥ ६.६७.७९ ॥
この大徳のスグリーヴァを私が解放すれば、深い不興と永続する名声の喪失が起こるだろう。
6.67.80
तस्मान्मुहूर्तं कांक्षिष्ये विक्रमं मोक्षितस्य तु।
भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ६.६७.८० ॥
ゆえに私は解放された者の武勇を一瞬待ち、その間に散らされた猿の軍勢を励まそう。
6.67.81
इत्येवं चिन्तयित्वाथ हनूमान् मारुतात्मजः।
भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ ६.६७.८१ ॥
このように考えて、風神の子ハヌマーンは再び猿の大軍を立て直した。
6.67.82
स कुम्भकर्णोऽथ विवेश लङ्कां
स्फुरन्तमादाय महाहरिं तम्।
विमानचर्यागृहगोपुरस्थैः
पुष्पाग्र्यवर्षैरभिपूज्यमानः ॥ ६.६७.८२ ॥
そしてクンバカルナは、なおもあがく大猿を抱えてラーンカーに入った。楼閣、家々、城門に立つ人々は、選りすぐりの花を雨のように降らせて彼を讃えた。
6.67.83
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः।
राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः ॥ ६.६७.८३ ॥
炒り米と香水の雨を少しずつ振りかけられ、その大力の者は王道の涼しさによって意識を取り戻した。
6.67.84
ततः स संज्ञामुपलभ्य कृच्छ्राद्
बलीयसस्तस्य भुजान्तरस्थः।
अवेक्षमाणः पुरराजमार्गं
विचिन्तयामास मुहुर्महात्मा ॥ ६.६७.८४ ॥
そして偉大な魂の持ち主は、苦労して意識を取り戻し、より強い者の腕の間にいながら、都の王道を見やって、幾度も思いをめぐらせた。
6.67.85
एवं गृहीतेन कथं नु नाम
शक्यं मया सम्प्रतिकर्तुमद्य।
तथा करिष्यामि यथा हरीणां
भविष्यतीष्टं च हितं च कार्यम् ॥ ६.६७.८५ ॥
このように捕らえられた私は、今どうやって報復できようか。猿たちにとって望ましく有益なことが成るように、私は行おう。
6.67.86
ततः कराग्रैः सहसा समेत्य
राजा हरीणाममरेन्द्रशत्रोः।
खरैश्च कर्णौ दशनैश्च नासां
ददंश पादैर्विददार पार्श्वौ ॥ ६.६७.८६ ॥
すると、インドラの敵である王は、指先で突然近づき、鋭い爪で猿王の両耳を噛み、歯で鼻を噛み、足で両脇を引き裂いた。
6.67.87
स कुम्भकर्णो हृतकर्णनासो
विदारितस्तेन रदैर्नखैश्च।
रोषाभिभूतः क्षतजार्द्रगात्रः
सुग्रीवमाविध्य पिपेष भूमौ ॥ ६.६७.८७ ॥
耳と鼻を切り落とされ、スグリーヴァの歯と爪に引き裂かれたクムバカルナは、怒りに圧倒され、傷から血にまみれた体で、スグリーヴァを捕らえて地面に押しつぶした。
6.67.88
स भूतले भीमबलाभिपिष्टः
सुरारिभिस्तैरभिहन्यमानः।
जगाम खं कन्दुकवज्जवेन
पुनश्च रामेण समाजगाम ॥ ६.६७.८८ ॥
地面で恐ろしい力に押しつぶされ、神々の敵であるそれら(猿たち)に打たれながら、ボールのように素早く空へ跳ね上がり、再びラーマのもとへ戻ってきた。
6.67.89
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः।
रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥ ६.६७.८९ ॥
耳と鼻を失った大力のクムバカルナは、血に染まり、泉の流れる山のように輝いた。
6.67.90
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः।
युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः ॥ ६.६७.९० ॥
血にまみれ、巨大な体と恐ろしい姿の羅刹、夜の徘徊者は、再び戦いに立ち向かう決意をした。
6.67.91
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः।
नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः ॥ ६.६७.९१ ॥
怒りで血を吐くラーヴァナの弟は、青い黛の山のように、夕暮れの光を帯びた雲のように輝いた。
6.67.92
गते च तस्मिन् सुरराजशत्रुः
क्रोधात् प्रदुद्राव रणाय भूयः।
अनायुधोऽस्मीति विचिन्त्य रौद्रो
घोरं तदा मुद्गरमाससाद ॥ ६.६७.९२ ॥
彼が去った後、神々の王の敵は怒って再び戦いへ突進した。「我は武器を持たぬ」と思い、その猛々しい者は恐ろしい棍棒を取った。
6.67.93
ततः स पुर्याः सहसा महौजा
निष्क्रम्य तद् वानरसैन्यमुग्रम्।
बभक्ष रक्षो युधि कुम्भकर्णः
प्रजा युगान्ताग्निरिव प्रवृद्धः ॥ ६.६७.९३ ॥
そこで大力のクンバカルナは突然城から出て、戦場であの猛々しい猿の軍勢を、劫末の火が生類を焼き尽くすように呑み込んだ。
6.67.94
बुभुक्षितः शोणितमांसगृध्नुः
प्रविश्य तद् वानरसैन्यमुग्रम्।
चखाद रक्षांसि हरीन् पिशाचा-
न्नृक्षांश्च मोहाद् युधि कुम्भकर्णः।
यथैव मृत्युर्हरते युगान्ते
स भक्षयामास हरींश्च मुख्यान् ॥ ६.६७.९४ ॥
飢えて血肉を貪るクンバカルナは、あの猛々しい猿の軍勢に踏み込み、惑乱のまま戦場で羅刹や餓鬼、猿や熊を喰らった。劫末に死神が奪い去るように、彼は主だった猿たちをも呑み込んだ。
6.67.95
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः।
समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥ ६.६७.९५ ॥
怒った彼は、一匹、二匹、三匹あるいは多くの猿を羅刹ともども片手で掴み、急いで口に投げ入れた。
6.67.96
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः।
वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥ ६.६७.९६ ॥
脂と血を滴らせ、山の峰々に打たれながらも、その大力者は猿たちを喰らい続けた。
6.67.97
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्।
कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥ ६.६७.९७ ॥
喰われつつあった猿たちはそこでラーマのもとへ逃れた。すさまじく怒ったクンバカルナは、猿を喰らいながら突進した。
6.67.98
शतानि सप्त चाष्टौ च विंशत् त्रिंशत् तथैव च।
सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥ ६.६७.९८ ॥
七百、八百、二十、三十——両腕で抱きしめては貪り食いながら、あちこちを駆け回る。
6.67.99
मेदोवसाशोणितदिग्धगात्रः
कर्णावसक्तग्रथितान्त्रमालः।
ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः
कालो युगान्तस्थ इव प्रवृद्धः ॥ ६.६७.९९ ॥
脂肪、骨髄、血にまみれた身体、耳から垂れ下がる腸の首飾り、鋭い牙——世の終わりに立つ膨れ上がった時のように、彼は槍を雨と降らせた。
6.67.100
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः।
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ॥ ६.६७.१०० ॥
その時、スミトラーの息子、敵軍を砕き、敵の都市を征服するラクシュマナは怒りに燃えて戦いを続けた。
6.67.101
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान्।
निचखानाददे चान्यान् विससर्ज च लक्ष्मणः ॥ ६.६७.१०१ ॥
その勇猛なラクシュマナはクンバカルナの身体に七本の矢を突き立て、さらに別の矢を取って放った。
6.67.102
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः।
ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः ॥ ६.६७.१०२ ॥
その特別な武器に苦しめられた強力なラークシャサは怒った——スミトラーの喜びを増す者ラクシュマナに対して。
6.67.103
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम्।
प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः ॥ ६.६७.१०३ ॥
そして風が夕暮れの雲を覆うように、彼は矢で、輝く美しい黄金の鎧を覆い隠した。
6.67.104
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः।
आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥ ६.६७.१०४ ॥
青い黒玉の山のようで、金の飾りのついた矢に覆われ、雲に隠れた輝く太陽のように輝いた。
6.67.105
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम्।
सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः ॥ ६.६७.१०५ ॥
すると、あの恐ろしい羅刹は雲の群れのように轟きながら、スミトラーの息子の喜びを増す者に軽蔑して言った。
6.67.106
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे।
युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ ६.६७.१०६ ॥
死神さえ戦いで容易に打ち破る私と、恐れず戦ったことで、お前は勇気を示した。
6.67.107
प्रगृहीतायुधस्येह मृत्योरिव महामृधे।
तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः ॥ ६.६७.१०७ ॥
大戦で武器を取り、死そのもののように目の前に立つ者でさえ敬うべきである。まして戦いを与える者はなおさらだ。
6.67.108
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः।
नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ॥ ६.६७.१०८ ॥
アイラーヴァタに乗り、全ての神々に囲まれた主インドラでさえ、戦いで私に立ち向かったことはなかった。
6.67.109
अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः।
तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् ॥ ६.६७.१०९ ॥
スミトラーの息子よ!お前はまだ若いが、今日のその武勇に私は満足した。今、お前とラーガヴァに別れを告げて去りたい。
6.67.110
यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया।
राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम् ॥ ६.६७.११० ॥
戦場で勇気と力と気概によって私を喜ばせてくれたので、私はラーマただ一人を殺したい。彼が殺されれば、すべてが殺されたことになる。
6.67.111
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे।
तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥ ६.६७.१११ ॥
ここで私によってラーマが殺された後、戦場に立ち続ける他の者たちとは、私自身の粉砕する力で戦おう。
6.67.112
इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम्।
मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥ ६.६७.११२ ॥
羅刹はこのように言い、賛辞に満ちた言葉を述べた。するとサウミトリ(ラクシュマナ)は、あたかも笑うかのように、戦場でさらに恐ろしい言葉を返した。
6.67.113
यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम्।
तत् सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥ ६.६७.११३ ॥
インドラなど神々にさえ抗しがたいあなたが男の力を得ているのは真実である、他ではない。英雄よ、今日あなたの武勇を見た。
6.67.115
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः।
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः।
राममेवाभिदुद्राव कम्पयन्निव मेदिनीम् ॥ ६.६७.११५ ॥
ダシャラタの子ラーマは山のように不動で立っている。大力のクンバカルナはラクシュマナを越え、大地を揺るがすかのようにまっすぐラーマへ突進した。
6.67.116
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्।
कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥ ६.६७.११६ ॥
するとダシャラタの子ラーマは恐ろしい武器を用い、クンバカルナの心臓へ鋭い矢を放った。
6.67.117
तस्य रामेण विद्धस्य सहसाभिप्रधावतः।
अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ ६.६७.११७ ॥
ラーマの矢に貫かれ、怒れる者は突然前へ突進した。その口からは燃えさしの混じった炎が噴き出した。
6.67.118
रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः।
अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे ॥ ६.६७.११८ ॥
ラーマの武器に打たれた羅刹の勇者は恐ろしく咆哮し、激しく怒って猿たちに襲いかかり、戦場で彼らを追い散らした。
6.67.119
तस्योरसि निमग्नास्ते शरा बर्हिणवाससः।
हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह ॥ ६.६७.११९ ॥
彼の胸に深く突き刺さった孔雀の羽根の矢と、その手から滑り落ちて地に落ちた棍棒。
6.67.120
आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले।
स निरायुधमात्मानं यदा मेने महाबलः ॥ ६.६७.१२० ॥
すべての武器は地に散らばった。その大力の者が自らを武器なしと思ったとき、
6.67.121
मुष्टिभ्यां च कराभ्यां च चकार कदनं महत्।
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः।
रुधिरं परिसुस्राव गिरिः प्रस्रवणं यथा ॥ ६.६७.१२१ ॥
拳と手で大殺戮を行った。矢で体を深く射抜かれ、血にまみれた彼は、山が泉を噴き出すように血を流した。
6.67.122
स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः।
वानरान् राक्षसानृक्षान् खादन् स परिधावति ॥ ६.६७.१२२ ॥
激しい怒りと血に狂い、彼は猿・羅刹・熊を貪り食いながら駆け回った。
6.67.123
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः।
चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥ ६.६७.१२३ ॥
すると恐ろしい武勇を持つ、死神に等しい剛力の者が、恐ろしい山頂を振り回し、ラーマを狙って投げつけた。
6.67.124
अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः।
चिच्छेद गिरिशृङ्गं तं पुनः संधाय कार्मुकम् ॥ ६.६७.१२४ ॥
それが途中に届く前に、ラーマは真っ直ぐ飛ぶ七本の矢でその山頂を断ち切り、再び弓に矢をつがえた。
6.67.125
ततस्तु रामो धर्मात्मा तस्य शृङ्गं महत् तदा।
शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः ॥ ६.६७.१२५ ॥
その時、法にかなった心を持つ、バラタの兄ラーマは、金色で彩り豊かな矢でその大きな山頂を断ち切った。
6.67.126
तन्मेरुशिखराकारं द्योतमानमिव श्रिया।
द्वे शते वानराणां च पतमानमपातयत् ॥ ६.६७.१२६ ॥
メール山の頂のような姿で輝きに満ちたその山頂は、落ちながら二百のヴァーナラをも打ち倒した。
6.67.127
तस्मिन् काले स धर्मात्मा लक्ष्मणो राममब्रवीत्।
कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ॥ ६.६७.१२७ ॥
その時、法にかなった心のラクシュマナは、クンバカルナ殺害に向けて多くの策を思案しながら、ラーマに語った。
6.67.128
नैवायं वानरान् राजन् न विजानाति राक्षसान्।
मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ॥ ६.६७.१२८ ॥
王よ、彼はヴァーナラもラークシャサも見分けられず、血の匂いに狂って、味方も敵も喰らっているのだ。
6.67.129
साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः।
यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्मिन् समन्ततः ॥ ६.६७.१२९ ॥
よろしい。猿の中の勇者たちは四方から彼によじ登れ、主だった群れの長たちは彼の周りに立て。
6.67.130
अद्यायं दुर्मतिः काले गुरुभारप्रपीडितः।
प्रचरन् राक्षसो भूमौ नान्यान् हन्यात् प्लवंगमान् ॥ ६.६७.१३० ॥
今こそ、この邪悪な羅刹は、大きな重みに押しつぶされ、地上を歩き回っても、他の猿たちを殺すことはできまい。
6.67.131
तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः।
ते समारुरुहुर्हृष्टाः कुम्भकर्णं महाबलाः ॥ ६.६७.१३१ ॥
聡明な王子のその言葉を聞いて、大力の猿たちは喜び勇んでクンバカルナによじ登った。
6.67.132
कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः।
व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान् ॥ ६.६७.१३२ ॥
しかし怒り狂ったクンバカルナは、跳び跳ねる猿たちが自分の上に乗ると、凶暴な象が象使いを振り落とすように、勢いよく彼らを振り払った。
6.67.133
तान् दृष्ट्वा निर्धुतान् रामो रुष्टोऽयमिति राक्षसम्।
समुत्पपात वेगेन धनुरुत्तममाददे ॥ ६.६७.१३३ ॥
彼らが振り落とされたのを見て、ラーマは「この羅刹は怒っている」と思い、すばやく跳び起きて、すぐれた弓を取った。
6.67.134
क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा।
राघवो राक्षसं वेगादभिदुद्राव वेगितः।
यूथपान् हर्षयन् सर्वान् कुम्भकर्णबलार्दितान् ॥ ६.६७.१३४ ॥
怒りに目を赤く染めた不動の羅怙の末裔は、まなざしで焼き尽くさんばかりに、素早く羅刹へ突進した。クンバカルナの力に苦しめられていた群れの長たちすべてを喜ばせながら。
6.67.135
स चापमादाय भुजंगकल्पं
दृढज्यमुग्रं तपनीयचित्रम्।
हरीन् समाश्वास्य समुत्पपात
रामो निबद्धोत्तमतूणबाणः ॥ ६.६७.१३५ ॥
蛇のような、弦の堅い、猛々しく黄金で飾られた弓を取り、猿たちを励ましてから、最上の矢筒を背負ったラーマは飛び出した。
6.67.136
स वानरगणैस्तैस्तु वृतः परमदुर्जयैः।
लक्ष्मणानुचरो वीरः सम्प्रतस्थे महाबलः ॥ ६.६७.१३६ ॥
最も打ち負かし難い猿の群れに囲まれ、ラクシュマナを従えて、勇士にして大力のラーマは進んだ。
6.67.137
स ददर्श महात्मानं किरीटिनमरिंदमम्।
शोणिताप्लुतरक्ताक्षं कुम्भकर्णं महाबलः ॥ ६.६७.१३७ ॥
その大力者は、冠をかぶり敵を制圧する偉大なクンバカルナを見た。血にまみれ、赤く充血した目をしていた。
6.67.138
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम्।
मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ॥ ६.६७.१३८ ॥
四方の象のように怒り狂い、すべてに襲いかかり、猿を探し求め、怒りに満ち、羅刹に囲まれていた。
6.67.139
विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्।
स्रवन्तं रुधिरं वक्त्राद् वर्षमेघमिवोत्थितम् ॥ ६.६७.१३९ ॥
ヴィンディヤ山とマンダラ山に似て、金の腕輪で飾られ、口から血を流し、雨雲のようにそびえ立っていた。
6.67.140
जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते।
मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥ ६.६७.१४० ॥
舌で口の端を舐め、血にまみれ、猿の軍勢を踏みにじり、時、終末、ヤマのようであった。
6.67.141
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम्।
विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ ६.६७.१४१ ॥
燃え盛る火のように輝く羅刹の中の最上の者を見て、人中の雄ラーマはその時、弓を引き絞った。
6.67.142
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः।
अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ ६.६७.१४२ ॥
その弓の弦音に怒り、その音に耐えられず、羅刹の中の最上の者はラーガヴァへ突進した。
6.67.143
ततस्तु वातोद्धतमेघकल्पं
भुजंगराजोत्तमभोगबाहुः।
तमापतन्तं धरणीधराभ-
मुवाच रामो युधि कुम्भकर्णम् ॥ ६.६७.१४३ ॥
風に吹き上げられた雲のように、最上の蛇王の巻きつく体のような腕を持ち、山のような姿のクンバカルナが襲いかかってきたとき、ラーマは戦いの中でクンバカルナに言った。
6.67.144
आगच्छ रक्षोऽधिप मा विषाद-
मवस्थितोऽहं प्रगृहीतचापः।
अवेहि मां राक्षसवंशनाशनं
यस्त्वं मुहूर्ताद् भविता विचेताः ॥ ६.६७.१४४ ॥
来い、羅刹の主よ。嘆くな。弓を構えて私はここに立っている。私は羅刹族を滅ぼす者だと知れ。やがて一瞬のうちにお前は意識を失うだろう。
6.67.145
रामोऽयमिति विज्ञाय जहास विकृतस्वनम्।
अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे ॥ ६.६७.१४५ ॥
「これがラーマだ」と悟ると、彼は異様な声で笑った。激怒して戦場で猿たちを追い散らしながら、彼らに向かって突進した。
6.67.146
दारयन्निव सर्वेषां हृदयानि वनौकसाम्।
प्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ॥ ६.६७.१४६ ॥
森に住むすべての猿の心臓を引き裂くかのように、彼は雲の雷鳴のような、凄まじく恐ろしい笑いを笑った。
6.67.147
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्।
नाहं विराधो विज्ञेयो न कबन्धः खरो न च।
न वाली न च मारीचः कुम्भकर्णः समागतः ॥ ६.६७.१४७ ॥
大いなる威光のクンバカルナはラーガヴァに言った。「私をヴィラーダやカバンダ、カラ、ヴァーリン、マーリーチャと見てはならない。私はクンバカルナだ。」
6.67.148
पश्य मे मुद्गरं भीमं सर्वं कालायसं महत्।
अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ ६.६७.१४८ ॥
見よ、私の恐ろしい、全て鉄でできた大きな棍棒を。昔、これによって私は神々とダーナヴァたちを征服した。
6.67.149
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि।
स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥ ६.६७.१४९ ॥
「ヴィカルナナーサ(耳鼻なし)」という名で私を侮ってはならない。耳と鼻を失ったことで、私は少しの痛みも感じない。
6.67.150
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ।
ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ ६.६७.१५० ॥
私の体の上にお前の武勇を示せ、イクシュヴァーク族の虎よ、汚れなき者よ。そしてお前の男らしさと勇猛を見た後、私はお前を食らうだろう。
6.67.151
स कुम्भकर्णस्य वचो निशम्य
रामः सुपुङ्खान् विससर्ज बाणान्।
तैराहतो वज्रसमप्रवेगै-
र्न चुक्षुभे न व्यथते सुरारिः ॥ ६.६७.१५१ ॥
クンバカルナの言葉を聞いて、ラーマは美しい羽根をもつ矢を放った。雷のような速さのそれらの矢に射られても、神々の敵は動揺もせず、苦しみもしなかった。
6.67.152
यैः सायकैः सालवरा निकृत्ता
वाली हतो वानरपुङ्गवश्च।
ते कुम्भकर्णस्य तदा शरीरं
वज्रोपमा न व्यथयाम्प्रचक्रुः ॥ ६.६७.१५२ ॥
かつて立派な沙羅樹を切り倒し、猿の王者ヴァーリンを倒した、あの雷のような矢ですら、クンバカルナの身体には少しの痛みも与えなかった。
6.67.153
स वारिधारा इव सायकांस्तान्
पिबन् शरीरेण महेन्द्रशत्रुः।
जघान रामस्य शरप्रवेगं
व्याविध्य तं मुद्गरमुग्रवेगम् ॥ ६.६७.१५३ ॥
彼は水の流れのようにその矢を身体で飲み込みながら、インドラの敵はラーマの矢の勢いに打ちかかり、あの猛烈な速さの棍棒を振り回した。
6.67.154
ततस्तु रक्षः क्षतजानुलिप्तं
वित्रासनं देवमहाचमूनाम्।
व्याविध्य तं मुद्गरमुग्रवेगं
विद्रावयामास चमूं हरीणाम् ॥ ६.६७.१५४ ॥
そのとき、血にまみれ、神々の大軍をも震え上がらせるその羅刹は、あの猛烈な速さの棍棒を振り回して、猿の軍勢を敗走させた。
6.67.155
वायव्यमादाय ततोऽपरास्त्रं
रामः प्रचिक्षेप निशाचराय।
समुद्गरं तेन जहार बाहुं
स कृत्तबाहुस्तुमुलं ननाद ॥ ६.६७.१५५ ॥
するとラーマは、ヴァーヤヴィヤという別の武器を取って、その夜行者に放った。それで棍棒ごと彼の腕を断ち切った。腕を断たれた彼は、凄まじい咆哮をあげた。
6.67.156
स तस्य बाहुर्गिरिशृङ्गकल्पः
समुद्गरो राघवबाणकृत्तः।
पपात तस्मिन् हरिराजसैन्ये
जघान तां वानरवाहिनीं च ॥ ६.६७.१५६ ॥
ラーガヴァの矢に断たれたその腕は、山の頂のようで、棍棒もろとも猿王の軍勢の上に落ち、その猿の群れを押し潰した。
6.67.157
ते वानरा भग्नहतावशेषाः
पर्यन्तमाश्रित्य तदा विषण्णाः।
प्रपीडिताङ्गा ददृशुः सुघोरं
नरेन्द्ररक्षोऽधिपसंनिपातम् ॥ ६.६७.१५७ ॥
打ち砕かれ傷を負って残った猿たちは、そのとき意気消沈して端のほうに身を寄せ、手足を打ち砕かれたまま、人の王と羅刹の王との凄まじい衝突を見つめていた。
6.67.158
स कुम्भकर्णोऽस्त्रनिकृत्तबाहु-
र्महासिकृत्ताग्र इवाचलेन्द्रः।
उत्पाटयामास करेण वृक्षं
ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ ६.६७.१५८ ॥
矢に腕を断たれたクンバカルナは、大剣に頂を断たれた山王のように、手で一本の木を引き抜き、戦場で人主ラーマへと突進した。
6.67.159
तं तस्य बाहुं सहतालवृक्षं
समुद्यतं पन्नगभोगकल्पम्।
ऐन्द्रास्त्रयुक्तेन जघान रामो
बाणेन जाम्बूनदचित्रितेन ॥ ६.६७.१५९ ॥
ラーマは、棕櫚の木ごと掲げられた、蛇の蜷局のような彼の腕を、インドラの武器を備え金で飾られた矢で射た。
6.67.160
स कुम्भकर्णस्य भुजो निकृत्तः
पपात भूमौ गिरिसंनिकाशः।
विचेष्टमानो निजघान वृक्षान्
शैलान् शिलावानरराक्षसांश्च ॥ ६.६७.१६० ॥
クンバカルナの切れた腕は山のように地に落ち、彼はのたうちながら木々、岩、巨石、猿、羅刹を打ち倒した。
6.67.161
तं छिन्नबाहुं समवेक्ष्य रामः
समापतन्तं सहसा नदन्तम्।
द्वावर्धचन्द्रौ निशितौ प्रगृह्य
चिच्छेद पादौ युधि राक्षसस्य ॥ ६.६७.१६१ ॥
腕を断たれた彼が突然咆哮して襲いかかるのを見て、ラーマは鋭い二本の半月矢を取り、戦場でその羅刹の両足を断ち切った。
6.67.162
तौ तस्य पादौ प्रदिशो दिशश्च
गिरेर्गुहाश्चैव महार्णवं च।
लङ्कां च सेनां कपिराक्षसानां
विनादयन्तौ विनिपेततुश्च ॥ ६.६७.१६२ ॥
その両足は倒れ、方角と中間の方角、山の洞窟、大海、ラṅkā、そして猿と羅刹の軍勢を鳴り響かせた。
6.67.163
निकृत्तबाहुर्विनिकृत्तपादो
विदार्य वक्त्रं वडवामुखाभम्।
दुद्राव रामं सहसाभिगर्जन्
राहुर्यथा चन्द्रमिवान्तरिक्षे ॥ ६.६७.१६३ ॥
両腕を切られ、両足を切られながら、牝馬の口の火(ヴァダヴァームカ)のような口を裂き開き、吠えながら突然ラーマに飛びかかった。空でラーフが月に襲いかかるように。
6.67.164
अपूरयत् तस्य मुखं शिताग्रै
रामः शरैर्हेमपिनद्धपुङ्खैः।
सम्पूर्णवक्त्रो न शशाक वक्तुं
चुकूज कृच्छ्रेण मुमूर्च्छ चापि ॥ ६.६७.१६४ ॥
ラーマは金の羽根をつけた鋭い矢で彼の口を満たした。口がふさがれて彼は話せず、苦しみながらうめき、そして気を失った。
6.67.165
अथाददे सूर्यमरीचिकल्पं
स ब्रह्मदण्डान्तककालकल्पम्।
अरिष्टमैन्द्रं निशितं सुपुङ्खं
रामः शरं मारुततुल्यवेगम् ॥ ६.६७.१६५ ॥
そこでラーマは、太陽の光線のようで、梵の杖、死神や時のようであり、インドラに属し、鋭く美しい羽根を持ち、風のような速さの「アリシュタ」という矢を取った。
6.67.166
तं वज्रजाम्बूनदचारुपुङ्खं
प्रदीप्तसूर्यज्वलनप्रकाशम्।
महेन्द्रवज्राशनितुल्यवेगं
रामः प्रचिक्षेप निशाचराय ॥ ६.६७.१६६ ॥
金剛とアンディ金の美しい羽根を持ち、燃え盛る太陽の火のように輝き、マヘーンドラの金剛杵や雷に等しい速さを持つその矢を、ラーマは夜の徘徊者に向けて放った。
6.67.167
स सायको राघवबाहुचोदितो
दिशःस्वभासा दश सम्प्रकाशयन्।
विधूमवैश्वानरभीमदर्शनो
जगाम शक्राशनिभीमविक्रमः ॥ ६.६७.१६७ ॥
ラーガヴァ(ラーマ)の腕に推し進められたその矢は、自らの光で十方を照らし、煙のない火のように恐ろしく見え、インドラの雷霆のような恐るべき威力で飛び去った。
6.67.168
स तन्महापर्वतकूटसंनिभं
सुवृत्तदंष्ट्रं चलचारुकुण्डलम्।
चकर्त रक्षोऽधिपतेः शिरस्तदा
यथैव वृत्रस्य पुरा पुरंदरः ॥ ६.६७.१६८ ॥
彼は、大山の頂のようで、整った丸い歯と揺れる美しい耳飾りを持つ羅刹王の頭を切り落とした。昔、プランダラ(インドラ)がヴリトラの頭を切り落としたように。
6.67.169
कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत्।
आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ ६.६७.१६९ ॥
耳飾りで飾られたクンバカルナの大きな頭は、日が昇った後、夜の中ほどに残る月のように輝いた。
6.67.170
तद् रामबाणाभिहतं पपात
रक्षःशिरः पर्वतसंनिकाशम्।
बभञ्ज चर्यागृहगोपुराणि
प्राकारमुच्चं तमपातयच्च ॥ ६.६७.१७० ॥
ラーマの矢に打たれた、山のような羅刹の頭が落ちた。それは見張り塔の門楼を砕き、高い城壁をも倒した。
6.67.171
तच्चातिकायं हिमवत् प्रकाशं
रक्षस्तदा तोयनिधौ पपात।
ग्राहान् परान् मीनवरान् भुजंगमान्
ममर्द भूमिं च तथा विवेश ॥ ६.६७.१७१ ॥
ヒマラヤのように輝く、巨大な身体の羅刹はそのとき海に落ちた。彼は鰐や他の優れた魚、蛇を押しつぶし、さらに大地の中へも入り込んだ。
6.67.172
तस्मिन् हते ब्राह्मणदेवशत्रौ
महाबले संयति कुम्भकर्णे।
चचाल भूर्भूमिधराश्च सर्वे
हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ ६.६७.१७२ ॥
バラモンと神々の敵であった大力のクンバカルナが戦いで殺されると、大地と山々のすべてが震え、神々は喜びのあまり騒がしく吠えた。
6.67.173
ततस्तु देवर्षिमहर्षिपन्नगाः
सुराश्च भूतानि सुपर्णगुह्यकाः।
सयक्षगन्धर्वगणा नभोगताः
प्रहर्षिता रामपराक्रमेण ॥ ६.६७.१७३ ॥
そこで神仙、大仙、蛇族、神々、諸存在、ガルダ、グヒヤカ、ヤクシャ、ガンダルヴァの群れは空中に留まり、ラーマの武勇に大いに喜んだ。
6.67.174
ततस्तु ते तस्य वधेन भूरिणा
मनस्विनो नैर्ऋतराजबान्धवाः।
विनेदुरुच्चैर्व्यथिता रघूत्तमं
हरिं समीक्ष्यैव यथा मतंगजाः ॥ ६.६७.१७४ ॥
そのとき、大いなる殺戮に苦しむ羅刹王の心ある親族たちは、ラグ族の最良の人と猿たちを見て、発情した象のように大声で吠えた。
6.67.175
स देवलोकस्य तमो निहत्य
सूर्यो यथा राहुमुखाद् विमुक्तः।
तथा व्यभासीद्धरिसैन्यमध्ये
निहत्य रामो युधि कुम्भकर्णम् ॥ ६.६७.१७५ ॥
ラーフの口から解き放たれた太陽が天界の闇を払って輝くように、戦いでクムバカルナを倒したラーマは、猿の軍勢の中で輝いた。
6.67.176
प्रहर्षमीयुर्बहवश्च वानराः
प्रबुद्धपद्मप्रतिमैरिवाननैः।
अपूजयन् राघवमिष्टभागिनं
हते रिपौ भीमबले नृपात्मजम् ॥ ६.६७.१७६ ॥
多くの猿たちは喜びに満ち、その顔は開いた蓮のようであった。恐ろしい力の敵が倒されると、望みの果実を分かち合う王子ラグヴァを敬った。
6.67.177
स कुम्भकर्णं सुरसैन्यमर्दनं
महत्सु युद्धेषु कदाचनाजितम्।
ननन्द हत्वा भरताग्रजो रणे
महासुरं वृत्रमिवामराधिपः ॥ ६.६७.१७७ ॥
神々の軍勢を砕き、大戦で一度も敗れたことのないクムバカルナを戦いで倒した、バラタの兄ラーマは歓喜した。ちょうど神々の王が大阿修羅ヴリトラを倒して喜んだように。