Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 6.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.9.1

ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः।
सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ ॥ ६.९.१ ॥

于是尼昆跋、罗婆沙、日敌、大力的睡杀、祭怒,以及大胁与大腹上前。

6.9.2

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।
इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥ ६.९.२ ॥

火旗、难以抵挡的光旗,以及光辉而强大的罗波那之子因陀罗胜,也上前了。

6.9.3

प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ६.९.३ ॥

接着,普罗诃斯多、毗卢叉、大力的金刚牙、烟眼、巨身与恶面等罗刹也上前了。

6.9.4

परिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान्।
चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान् ॥ ६.९.४ ॥

铁棍、双刃剑、长矛、短枪、投枪与战斧、弓、精良的箭,以及如广阔水面般闪耀的刀剑。

6.9.5

प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः।
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ६.९.५ ॥

众罗刹各持兵器,极度愤怒,跃身而起,光焰炽盛,对罗波那说道。

6.9.6

अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६.९.६ ॥

今日我们要杀死罗摩、连同罗什曼那的须羯哩婆,以及那个摧毁楞伽的可怜的哈奴曼。

6.9.7

तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ६.९.७ ॥

毗भीषण制止了所有拿起武器的人,合掌之后,让他们重新坐下,并说了这些话。

6.9.8

अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ ६.९.८ ॥

诸位啊,若目的即便用三种方法也无法达到,智者便称那些方法为施展勇力的恰当时机。

6.9.9

प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च।
विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ ६.९.९ ॥

诸位啊,对疏忽者、被攻击者以及被命运击倒者所施的勇力,若经过审慎考察并依正法而行,便能成功。

6.9.10

अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्।
जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ ॥ ६.९.१० ॥

你们怎么竟想去招惹他呢——他并不疏忽,渴望胜利,立于力量之中,已战胜了愤怒,且难以侵犯?

6.9.11

समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्।
गतिं हनूमतो लोके को विद्यात् तर्कयेत वा ॥ ६.९.११ ॥

在世上,谁能知晓甚至推测哈努曼的行踪——他跃过了可怖的大海,那是江河之主?

6.9.12

बलान्यपरिमेयानि वीर्याणि च निशाचराः।
परेषां सहसावज्ञा न कर्तव्या कथंचन ॥ ६.९.१२ ॥

夜行的诸位啊,他人的力量与勇气是无法估量的;因此,绝不可以草率地轻慢他人,无论如何都不应该。

6.9.13

किं च राक्षसराजस्य रामेणापकृतं पुरा।
आजहार जनस्थानाद् यस्य भार्यां यशस्विनः ॥ ६.९.१३ ॥

罗摩先前对罗刹王做了什么冒犯之事,以致他从遮那斯塔纳掳走了那位声名显赫者的妻子?

6.9.14

खरो यद्यतिवृत्तस्तु स रामेण हतो रणे।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ ६.९.१४ ॥

即便खर确有逾越,他也已在战场上被罗摩杀死;众生的性命理应依自己的力量加以守护。

6.9.15

एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत्।
आहृता सा परित्याज्या कलहार्थे कृते नु किम् ॥ ६.९.१५ ॥

因为她,毗提诃之女会给我们带来巨大的恐惧;被掳来的她应当放弃。为了争端,如今到底做了什么?

6.9.16

न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ ६.९.१६ ॥

然而,与那位勇猛而遵循正法的人结下无谓的仇怨是不妥的;应当把毗提诃之女交还给他。

6.9.17

यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्।
पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ ६.९.१७ ॥

在他用箭劈开这座充满象马、珍宝众多的城市之前,应当把毗提诃之女交还给他。

6.9.18

यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी।
नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् ॥ ६.९.१८ ॥

在这支极其可怖、庞大而难以抵挡的猴军攻入楞伽之前,应当把悉多交还。

6.9.19

विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः।
रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ ६.९.१९ ॥

若罗摩心爱的妻子不自愿归还,那么这座楞伽城和所有勇猛的罗刹都将毁灭。

6.9.20

प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम।
हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ ६.९.२० ॥

我以亲族之情恳求你,请听我的话。我所说的是有益且真实的:把弥提罗女(悉多)归还给他吧。

6.9.21

पुरा शरत्सूर्यमरीचिसंनिभान्
नवाग्रपुङ्खान् सुदृढान् नृपात्मजः।
सृजत्यमोघान् विशिखान् वधाय ते
प्रदीयतां दाशरथाय मैथिली ॥ ६.९.२१ ॥

王子已经射出用来杀你的箭——它们如秋日阳光般明亮,箭头崭新、箭羽坚韧,百发百中。请把弥提罗女归还给十车王之子。

6.9.22

त्यजाशु कोपं सुखधर्मनाशनं
भजस्व धर्मं रतिकीर्तिवर्धनम्।
प्रसीद जीवेम सपुत्रबान्धवाः
प्रदीयतां दाशरथाय मैथिली ॥ ६.९.२२ ॥

请迅速舍弃毁坏幸福与正法的愤怒,亲近能增添喜乐与名声的正法。请息怒,使我们能与子孙亲族共同生存——把弥提罗女归还给十车王之子吧。

6.9.23

विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः।
विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ ६.९.२३ ॥

罗刹之主罗波那听了维毗沙那的话,遣散了所有人,回到了自己的宫室。