蚁垤《罗摩衍那》 · 篇 6.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.90.1
स हताश्वो महातेजा भूमौ तिष्ठन् निशाचरः।
इन्द्रजित् परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥ ६.९०.१ ॥
失去了战马,站在地上的大光明夜行者因陀罗耆特,极度愤怒,以其光芒熊熊燃烧起来。
6.90.2
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्।
विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ ६.९०.२ ॥
两位弓箭手想要杀死对方,以箭矢猛烈互击,为求胜利,在林中如两头象王般向前推进。
6.90.3
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः।
भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ॥ ६.९०.३ ॥
那些居住在林中的罗刹,彼此相互杀伤,在战场上四处奔突,却没有抛弃他们的主人。
6.90.4
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः।
स्तुन्वानो हर्षमाणश्च इदं वचनमब्रवीत् ॥ ६.९०.४ ॥
于是罗波那之子使所有罗刹欢喜,自己也赞叹欣喜,说出了这番话。
6.90.5
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः।
नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥ ६.९०.५ ॥
浓重的黑暗从四面八方笼罩了这些方向;在这里,分不清是己方还是敌人,啊,罗刹中的最优者。
6.90.6
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै।
अहं तु रथमास्थाय आगमिष्यामि संयुगे ॥ ६.९०.६ ॥
你们大胆作战,以迷惑猴众;至于我,将登上战车,重返战场。
6.90.7
तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः।
न युध्येयुर्महात्मानः प्रविष्टे नगरं मयि ॥ ६.९०.७ ॥
你们都要使这些大度的林中居民不能作战,待我进入城中之后。
6.90.8
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः।
प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥ ६.९०.८ ॥
罗波那之子说完这话,欺骗了林中居民,作为杀敌者为了战车进入了楞伽城。
6.90.9
स रथं भूषयित्वाथ रुचिरं हेमभूषितम्।
प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः ॥ ६.९०.९ ॥
然后他装饰了那辆华丽的战车,饰以黄金,备有长矛、刀剑和箭矢,并套上了优良的骏马。
6.90.10
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना।
आरुरोह महातेजा रावणिः समितिंजयः ॥ ६.९०.१० ॥
罗波那之子,大光辉者,战场的胜利者,登上了由精通马术、可靠且受过教导的御者驾驭的那辆战车。
6.90.11
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः।
निर्ययौ नगराद् वीरः कृतान्तबलचोदितः ॥ ६.९०.११ ॥
被众罗刹的首领所包围,曼陀俱陀利之子这位英雄,受死神之力驱使,从城中出发。
6.90.12
सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परमौजसा।
अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥ ६.९०.१२ ॥
因陀罗耆从城中出来,以极大的威力驾着快马,向罗什曼那与维毗沙那迎面奔去。
6.90.13
ततो रथस्थमालोक्य सौमित्री रावणात्मजम्।
वानराश्च महावीर्या राक्षसश्च विभीषणः ॥ ६.९०.१३ ॥
此时,看见罗婆那之子立于战车之上,罗什曼那、勇猛的猴众以及罗刹维毗沙那,
6.90.14
विस्मयं परमं जग्मुर्लाघवात् तस्य धीमतः।
रावणिश्चापि संक्रुद्धो रणे वानरयूथपान् ॥ ६.९०.१४ ॥
他们对那位智者的敏捷感到极度惊讶;罗婆那之子也愤怒地在战场上,击杀猴众的首领。
6.90.15
पातयामास बाणौघैः शतशोऽथ सहस्रशः।
स मण्डलीकृतधनू रावणिः समितिंजयः ॥ ६.९०.१५ ॥
他以箭雨射倒成百上千的敌人;罗婆那之子把弓拉成圆形,是战场上的胜利者。
6.90.16
हरीनभ्यहनत् क्रुद्धः परं लाघवमास्थितः।
ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ॥ ६.९०.१६ ॥
他愤怒地施展极致的敏捷攻击猴众;那些勇猛可怖的猴子被铁箭射中,
6.90.17
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः।
ततः समरकोपेन ज्वलितो रघुनन्दनः।
चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् ॥ ६.९०.१७ ॥
他们投奔罗什曼那,如众生投奔造物主。那时,罗怙之子燃起战斗的怒火,以手法之敏捷,斩断了他的弓。
6.90.18
सोऽन्यत्कार्मुकमादाय सज्यं चक्रे त्वरन्निव।
तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत ॥ ६.९०.१८ ॥
他又拿起另一把弓,匆忙地上弦;但罗什曼那又用三支箭将它射断。
6.90.19
अथैनं छिन्नधन्वानमाशीविषविषोपमैः।
विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः ॥ ६.९०.१९ ॥
于是苏弥多罗之子罗什曼那以如蛇毒般的五支箭射中已断弓的罗婆那之子的胸膛。
6.90.20
ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः।
निपेतुर्धरणीं बाणा रक्ता इव महोरगाः ॥ ६.९०.२० ॥
那些从大弓射出的箭穿透他的身体,如同沾满血的巨蛇般坠落在地上。
6.90.21
स च्छिन्नधन्वा रुधिरं वमन् वक्त्रेण रावणिः।
जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ॥ ६.९०.२१ ॥
尽管弓已断,罗婆那之子口中吐血,仍取过那张最好的弓,弓弦坚韧,极为强劲。
6.90.22
स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः।
ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः ॥ ६.९०.२२ ॥
他以极高的敏捷瞄准罗什曼那,如同因陀罗降雨般倾泻箭雨。
6.90.23
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः।
आवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ॥ ६.९०.२३ ॥
因陀罗耆所射的那场极难抵挡的箭雨,被克敌的罗什曼那毫不慌乱地挡住了。
6.90.24
संदर्शयामास तदा रावणिं रघुनन्दनः।
असम्भ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥ ६.९०.२४ ॥
此时罗怙之喜的罗什曼那,毫不慌乱,以大威光向罗婆那之子展示了自己的威力,那情景仿佛奇迹一般。
6.90.25
ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैकमाहवे।
अविध्यत् परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन्।
राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥ ६.९०.२५ ॥
于是,他极其愤怒,在战斗中用三支箭射穿了每一个罗刹,展示其迅捷的箭术。他又以密集的箭雨狠狠打击了罗刹王之子。
6.90.26
सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना।
असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ॥ ६.९०.२६ ॥
他被那强大的敌人,即杀敌者重创,便不停地向罗什曼那射出许多箭。
6.90.27
तानप्राप्तान् शितैर्बाणैश्चिच्छेद परवीरहा।
सारथेरस्य च रणे रथिनो रथसत्तमः ॥ ६.९०.२७ ॥
杀死敌方英雄者,车战中最优秀的战士,在箭矢抵达之前用利箭将其斩落,并在战斗中也斩杀了他的御者。
6.90.28
शिरो जहार धर्मात्मा भल्लेनानतपर्वणा।
असूतास्ते हयास्तत्र रथमूहुरविक्लवाः ॥ ६.९०.२८ ॥
这位心地正直者以关节弯曲的薄拉箭斩下了他的头颅。那里,他的马匹虽无御者,仍毫不慌乱地拉着战车前行。
6.90.29
मण्डलान्यभिधावन्ति तदद्भुतमिवाभवत्।
अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः ॥ ६.९०.२९ ॥
马匹绕圈奔跑,这情景仿佛奇迹。于是勇武坚定的萨乌弥特里(罗什曼那)为愤怒所控制……
6.90.30
प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे।
अमर्षमाणस्तत्कर्म रावणस्य सुतो रणे ॥ ६.९०.३० ॥
他在战斗中以箭射穿其马匹,使之惊恐。罗波那之子不能忍受此举,在战斗中……
6.90.31
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम्।
ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः।
विलयं जग्मुरागत्य कवचं काञ्चनप्रभम् ॥ ६.९०.३१ ॥
他以十支箭射中那位愤怒的苏弥多罗(罗什曼那)。他的箭如金刚杵、如蛇毒,射到金光闪耀的铠甲上便化为乌有。
6.90.32
अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः।
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् ॥ ६.९०.३२ ॥
罗波那之子因式陀罗以为罗什曼那的铠甲不可穿透,便以三支羽毛精美的箭射向罗什曼那的前额。
6.90.33
अविध्यत् परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्।
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः ॥ ६.९०.३३ ॥
他极度愤怒,迅速施展法器射出箭矢;罗忤之子的箭钉在额上,那罗怙族的喜悦者因此闪耀。
6.90.34
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः।
स तथाप्यर्दितो बाणै राक्षसेन तदा मृधे ॥ ६.९०.३४ ॥
他站在战阵前沿,以善战自负,宛如三峰之山。然而那时,他在战斗中被罗刹的箭所伤。
6.90.35
तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः।
विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥ ६.९०.३५ ॥
罗什曼那迅速以五支箭予以还击;在战斗中,他拉满弓,射向因式陀罗那佩戴精美耳环的面庞。
6.90.36
लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ।
अन्योन्यं जघ्नतुर्वीरौ विशिखैर्भीमविक्रमौ ॥ ६.९०.३६ ॥
罗什曼那与因式陀罗这两位英雄,手持强大的弓,威力可怖,以箭互相攻击。
6.90.37
ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ।
रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ॥ ६.९०.३७ ॥
于是,浑身沾满鲜血的罗什曼那与因陀罗耆特二位英雄,在战场上闪耀如同两棵盛开的金苏树。
6.90.38
तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ।
घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये ॥ ६.९०.३८ ॥
二位决心取胜的弓箭手彼此靠近,以可怖的箭矢射穿了对方的全身。
6.90.39
ततः समरकोपेन संयुतो रावणात्मजः।
विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे ॥ ६.९०.३९ ॥
于是罗波那之子怒火满腔,以三支箭射中了毗缚史那那俊美的面庞。
6.90.40
अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम्।
एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् ॥ ६.९०.४० ॥
他以三支铁镞箭射中罗刹王毗缚史那,又以每人一箭,射中了那些猴军统帅。
6.90.41
तस्मै दृढतरं क्रुद्धो जघान गदया हयान्।
विभीषणो महातेजा रावणेः स दुरात्मनः ॥ ६.९०.४१ ॥
威光盛大的毗缚史那怒火中烧,以铁棍狠狠击打了那罗波那恶徒之子的马匹。
6.90.42
स हताश्वादवप्लुत्य रथान्निहतसारथेः।
अथ शक्तिं महातेजाः पितृव्याय मुमोच ह ॥ ६.९०.४२ ॥
他的马匹被杀、御者阵亡,他便从战车上跃下;随后这位威光盛大者向他的伯父投出了一支长矛。
6.90.43
तामापतन्तीं सम्प्रेक्ष्य सुमित्रानन्दवर्धनः।
चिच्छेद निशितैर्बाणैर्दशधापातयद् भुवि ॥ ६.९०.४३ ॥
苏弥陀之子(罗什曼那)见其扑来,以利箭将其斩为十段,使之坠落于地。
6.90.44
तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः।
वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् ॥ ६.९०.४४ ॥
毗毗沙那因马匹被杀而震怒,持坚固之弓,向其胸膛射出五支如雷霆击中般的箭。
6.90.45
ते तस्य कायं भित्त्वा तु रुक्मपुङ्खा निमित्तगाः।
बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः ॥ ६.९०.४५ ॥
那些金羽之箭穿透他的身体,沾满鲜血,宛如巨大的赤色毒蛇。
6.90.46
स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे।
उत्तमं रक्षसां मध्ये यमदत्तं महाबलः ॥ ६.९०.४६ ॥
因陀罗耆多大力勇士,怒视其叔,取出罗刹中最上乘、由阎摩所赐之箭。
6.90.47
तं समीक्ष्य महातेजा महेषुं तेन संहितम्।
लक्ष्मणोऽप्याददे बाणमन्यद् भीमपराक्रमः ॥ ६.९०.४७ ॥
罗什曼那见其光辉之子将那大箭搭上弓弦,这位威猛之士也取出另一支箭。
6.90.48
कुबेरेण स्वयं स्वप्ने यद् दत्तममितात्मना।
दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः ॥ ६.९०.४८ ॥
此乃无量心的俱毗罗在梦中亲手所赐;即便因陀罗领衔的天神与阿修罗,也无法战胜或承受。
6.90.49
तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः।
विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः ॥ ६.९०.४९ ॥
二人的良弓被如铁杵般的手臂拉开,发出如两只鹤鸟般的强烈鸣声。
6.90.50
ताभ्यां तु धनुषि श्रेष्ठे संहितौ सायकोत्तमौ।
विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया ॥ ६.९०.५० ॥
二位英雄将两支最好的箭搭在良弓上拉开,箭以其光辉大放异彩。
6.90.51
तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ।
मुखेन मुखमाहत्य संनिपेततुरोजसा ॥ ६.९०.५१ ॥
两支箭照亮天空,从弓上射出,以箭头相撞,猛烈地碰在一起。
6.90.52
संनिपातस्तयोश्चासीच्छरयोर्घोररूपयोः।
सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत् ॥ ६.९०.५२ ॥
这两支形貌可怖的箭相撞之处,升起了一团可怕的火,伴着烟和火星。
6.90.53
तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च।
संग्रामे शतधा यातौ मेदिन्यां चैव पेततुः ॥ ६.९०.५३ ॥
这两支箭如同巨大的星辰,在战场上相互碰撞,碎成百片,坠落于地。
6.90.54
शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि।
व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा ॥ ६.९०.५४ ॥
两人见自己的箭在战阵前沿相互碰撞而被阻挡,于是羞愧难当,怒火中烧,这便是罗什曼与因陀罗耆特。
6.90.55
सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे।
रौद्रं महेन्द्रजिद् युद्धेऽप्यसृजद् युधि निष्ठितः ॥ ६.९०.५५ ॥
愤怒至极的萨乌米特里取起伐楼那神箭;而在战场上坚定不移的因陀罗耆特也放出了可怖的楼陀罗神箭。
6.90.56
तेन तद्विहितं शस्त्रं वारुणं परमाद्भुतम्।
ततः क्रुद्धो महातेजा इन्द्रजित् समितिंजयः।
आग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव ॥ ६.९०.५६ ॥
当他射出的那件极为奇妙的伐楼那神箭被挡住后,光辉盛大、战场上的胜利者因陀罗耆特勃然大怒,搭上了炽烈的火神箭,仿佛要将整个世界收拢。
6.90.57
सौरेणास्त्रेण तद् वीरो लक्ष्मणः पर्यवारयत्।
अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्च्छितः ॥ ६.९०.५७ ॥
英雄罗什曼那以太阳神箭完全挡住了那箭;罗波尼见自己的箭被挡住,怒不可遏,几乎昏厥。
6.90.58
आददे निशितं बाणमासुरं शत्रुदारणम्।
तस्माच्चापाद् विनिष्पेतुर्भास्वराः कूटमुद्गराः ॥ ६.९०.५८ ॥
他取起一支锋利的阿修罗箭,足以劈裂敌人;于是他的弓中迸出闪耀的铁锤武器(古陀-穆德伽罗)。
6.90.59
शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः।
तद् दृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रमथासुरम् ॥ ६.९०.५९ ॥
长枪、布叔迪、铁棒、长剑、战斧纷纷飞来;罗什曼那见此情景,便在战中取出了可怖的阿修罗神箭。
6.90.60
अवार्यं सर्वभूतानां सर्वशस्त्रविदारणम्।
माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥ ६.९०.६० ॥
那件使众生无法抵挡、能劈裂一切兵器的神箭,光辉的罗什曼那以湿婆(摩醯首罗)神箭将其挡住。
6.90.61
तयोः समभवद् युद्धमद्भुतं रोमहर्षणम्।
गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ ६.९०.६१ ॥
二者之间爆发了一场奇异而令人毛骨悚然的战斗。站在空中的众生将罗什曼那团团围住。
6.90.62
भैरवाभिरुते भीमे युद्धे वानररक्षसाम्।
भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥ ६.९०.६२ ॥
在猴子与罗刹之间可怕的战斗中,怪声震天,布满惊愕众生的天空熠熠生辉。
6.90.63
ऋषयः पितरो देवा गन्धर्वगरुडोरगाः।
शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥ ६.९०.६३ ॥
诸仙、祖灵、诸天、乾闼婆、迦楼罗与龙众,以因陀罗(释迦)居前,在战场上守护罗什曼那。
6.90.64
अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः।
हुताशनसमस्पर्शं रावणात्मजदारणम् ॥ ६.९०.६४ ॥
于是罗怙之子的幼弟又搭上另一支绝佳的箭,其触感如火,能够刺穿罗波那之子。
6.90.65
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्।
सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ ६.९०.६५ ॥
这支箭羽毛精良,杆身圆润,节段匀称,形制优美,以金饰装饰,能夺人性命,英雄将它搭上了弓。
6.90.66
दुरावारं दुर्विषहं राक्षसानां भयावहम्।
आशीविषविषप्रख्यं देवसंघैः समर्चितम् ॥ ६.९०.६६ ॥
难以抵挡、令人无法忍受,使罗刹恐惧,如蛇毒一般,受诸天群所敬奉。
6.90.67
येन शक्रो महातेजा दानवानजयत् प्रभुः।
पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः ॥ ६.९०.६७ ॥
昔日在天神与阿修罗之战中,光辉的主神因陀罗借此击败了达那婆,即威力强大的河利婆诃那(因陀罗)。
6.90.68
अथैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्।
शरश्रेष्ठं धनुश्रेष्ठे विकर्षन्निदमब्रवीत् ॥ ६.९०.६८ ॥
于是萨乌米特里(罗什曼那)将在战场上不可战胜的因陀罗神箭搭在最好的弓上,拉满弓弦,说道:
6.90.69
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः।
धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि।
पौरुषे चाप्रतिद्वन्द्वस्तदैनं जहि रावणिम् ॥ ६.९०.६९ ॥
罗什曼那说:“若法心坚定、守信的达舍罗陀之子、吉祥而勇武无双的罗摩能听此言以成其志,那么请您此时便斩杀这罗波那之子。”
6.90.70
इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्।
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति।
ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा ॥ ६.९०.७० ॥
说完,英雄罗什曼那将那支笔直飞行的箭拉至耳边,在战斗中射向因陀罗耆多;他将其与因陀罗神箭相合,这位摧毁敌方英雄的罗什曼那便如此行事。
6.90.71
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्।
प्रमथ्येन्द्रजितः कायात् पातयामास भूतले ॥ ६.९०.७१ ॥
他将因陀罗耆多那颗光彩夺目、耳环闪耀、连同头盔的头颅斩断,使其从身躯坠落于地上。
6.90.72
तद् राक्षसतनूजस्य भिन्नस्कन्धं शिरो महत्।
तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥ ६.९०.७२ ॥
那罗刹之子的巨大头颅,双肩已碎,犹如黄金般闪耀,沾满鲜血,被人看见躺在地上。
6.90.73
हतः स निपपाताथ धरण्यां रावणात्मजः।
कवची सशिरस्त्राणो विप्रविद्धशरासनः ॥ ६.९०.७३ ॥
罗波那之子被杀,随即倒在地上,身披铠甲、头戴头盔,弓已被抛远。
6.90.74
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः।
हृष्यन्ते निहते तस्मिन् देवा वृत्रवधे यथा ॥ ६.९०.७४ ॥
于是所有猴众与毗毗沙那一同高声欢呼;他被杀后,他们欢喜,如诸神在杀死弗栗多时那样欢喜。
6.90.75
अथान्तरिक्षे देवानामृषीणां च महात्मनाम्।
जज्ञेऽथ जयसंनादो गन्धर्वाप्सरसामपि ॥ ६.९०.७५ ॥
随即天空中响起了诸神、大仙人、乾闼婆与阿普萨拉斯的胜利欢呼。
6.90.76
पतितं समभिज्ञाय राक्षसी सा महाचमूः।
वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥ ६.९०.७६ ॥
罗刹大军得知他已倒下,在以胜利自傲的猴众打击下,四散奔逃。
6.90.77
वानरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः।
लङ्कामभिमुखाः सस्रुर्भ्रष्टसंज्ञाः प्रधाविताः ॥ ६.९०.७७ ॥
罗刹们被猴众击打,抛下兵器,失魂落魄,面向楞伽狂奔而去。
6.90.78
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः।
त्यक्त्वा प्रहरणान् सर्वे पट्टिशासिपरश्वधान् ॥ ६.९०.७८ ॥
罗刹们惊恐万分,成百上千地向四方奔逃,丢下了所有兵器:长矛、刀剑与战斧。
6.90.79
केचिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः।
समुद्रे पतिताः केचित् केचित् पर्वतमाश्रिताः ॥ ६.९०.७९ ॥
有些罗刹惊恐地逃入楞伽城;有些被猴子们追逼,坠入大海;还有些躲到了山上。
6.90.80
हतमिन्द्रजितं दृष्ट्वा शयानं च रणक्षितौ।
राक्षसानां सहस्रेषु न कश्चित् प्रत्यदृश्यत ॥ ६.९०.८० ॥
见因陀罗耆特被杀,倒卧在战场上,成千上万的罗刹中竟无一人再现身。
6.90.81
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः।
तथा तस्मिन् निपतिते राक्षसास्ते गता दिशः ॥ ६.९०.८१ ॥
如同太阳落山后,光芒便不再留存;他倒下之后,那些罗刹便四散逃向各个方向。
6.90.82
शान्तरश्मिरिवादित्यो निर्वाण इव पावकः।
बभूव स महाबाहुर्व्यपास्तगतजीवितः ॥ ६.९०.८२ ॥
如同光芒熄灭的太阳,如同熄灭的火焰,那位大臂者失去了生命。
6.90.83
प्रशान्तपीडाबहुलो विनष्टारिः प्रहर्षवान्।
बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥ ६.९०.८३ ॥
罗刹王之子倒下之时,世间的大部分苦难平息,敌人被消灭,世界充满了喜悦。
6.90.84
हर्षं च शक्रो भगवान् सह सर्वैर्महर्षिभिः।
जगाम निहते तस्मिन् राक्षसे पापकर्मणि ॥ ६.९०.८४ ॥
那作恶的罗刹被杀之后,尊贵的因陀罗与所有大仙人一同欢喜。
6.90.85
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः।
नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥ ६.९०.८५ ॥
天空中响起了诸神的鼓声,跳舞的天女与大德的乾闼婆也在其中。
6.90.86
ववर्षुः पुष्पवर्षाणि तदद्भुतमिवाभवत्।
प्रशशाम हते तस्मिन् राक्षसे क्रूरकर्मणि ॥ ६.९०.८६ ॥
他们降下花雨,场面仿佛奇迹。那个行残暴之事的罗刹被杀后,战事平息了。
6.90.87
शुद्धा आपो नभश्चैव जहृषुर्देवदानवाः।
आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे ॥ ६.९०.८७ ॥
水流清澈,天空也澄净;天神与檀那婆都欢喜。那个令诸界恐惧的人倒下时,众人都赶来了。
6.90.88
ऊचुश्च सहितास्तुष्टा देवगन्धर्वदानवाः।
विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥ ६.९०.८८ ॥
诸天、乾闼婆与檀那婆都欢喜,齐声说:“愿婆罗门无病无染,自在行走。”
6.90.89
ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः।
तमप्रतिबलं दृष्ट्वा हतं नैर्ऋतपुङ्गवम् ॥ ६.९०.८९ ॥
于是欢欣的猴群统帅们,见那位力量无双的罗刹之首在战中被杀,便为此欢呼致贺。
6.90.90
विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः।
विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥ ६.९०.९० ॥
毗汾奢那、哈努曼与熊群统帅遮MB婆,因胜利而致贺,也赞颂了罗什曼那。
6.90.91
क्ष्वेडन्तश्च प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥ ६.९०.९१ ॥
猴群吼叫、跳跃、咆哮,找到目标后,将罗怙之子团团围住,侍立在他身旁。
6.90.92
लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः।
लक्ष्मणो जयतीत्येव वाक्यं विश्रावयंस्तदा ॥ ६.९०.९२ ॥
猴群挥动尾巴、拍打手掌,此时高声宣告:“罗什曼那胜利了!”
6.90.93
अन्योन्यं च समाश्लिष्य हरयो हृष्टमानसाः।
चक्रुरुच्चावचगुणा राघवाश्रयसत्कथाः ॥ ६.९०.९३ ॥
猴群彼此拥抱,心中欢喜,讲述以罗怙之后为中心、列举各种美德的善言佳话。
6.90.94
तदसुकरमथाभिवीक्ष्य हृष्टाः
प्रियसुहृदो युधि लक्ष्मणस्य कर्म।
परममुपलभन्मनःप्रहर्षं
विनिहतमिन्द्ररिपुं निशम्य देवाः ॥ ६.९०.९४ ॥
众神是他的亲密好友,看到罗什曼那在战斗中完成的那件艰难壮举,又听说因陀罗的仇敌已被杀死,便心生欢喜,内心获得了无上的喜悦。